________________
१-११] कर्मस्तवाल्यो द्वितीयः कर्मग्रन्थः । चाऽनिवृतिवादरप्रथममागे भवतीति ।। ९-१० ॥ एतदेवाह
अनियहिभागपणगे, इगेगहीणो दुवीसविहबंधो।
पुमसंजलणचउण्हं, कमेण छेओ सतर सुहुमे ॥११॥ 'अनिवृत्तिभागपञ्चके' अनिवृत्तिबादराद्धायाः पञ्चसु भागेष्वित्यर्थः । स पूर्वोक्तो द्वाविं. शतिबन्ध एकैकहीनो वाच्यः, एकैकस्मिन् भागे एकैकस्याः प्रकृतेर्बन्धव्यवच्छेद इत्यर्थः । कथम् ! इत्याह-"पुमसंजलणचउण्डं कमेण छेउ" ति क्रमेणाऽऽनुपूर्व्या प्रथमे भागे पुंवेदस्य च्छेदस्तत एकविंशतेर्बन्धः, द्वितीये भागे संज्वलनक्रोधस्य च्छेदस्ततो विंशतेर्बन्धः, तृतीये भागे संज्वलनमानस्य च्छेदस्तत एकोनविंशतेर्बन्धः, चतुर्थे भागे संज्वलनमायायाश्छेदस्ततोऽ. ष्टादशानां बन्धः, पञ्चमभागे संज्वलनलोभस्य च्छेदः, उत्तरत्र तद्वन्धाध्यवसायस्थानाभावः छेदहेतुः, संज्वलनलोभस्य तु बादरसम्परायपत्ययो बन्धः, स चोचरत्र नास्तीत्यतश्छेदस्ततः सूक्ष्मसम्पराये सप्तदशप्रकृतीनां बन्धो भवतीत्यत आह-"सतर सुहुमि" वि सष्टम् ॥११॥
चउदंसणुचजसनाणविग्घदसगं ति सोलसुच्छेओ। तिसु सायबंध छेओ, सजोगि बंधंतुणंतो अ॥१२॥
बंधो सम्मत्तो। "चउदंसण" ति चतुर्णा दर्शनानां समाहारश्चतुर्दर्शनं-चक्षुर्दर्शनाऽचक्षुर्दर्शनाऽवधिदर्शनकेवलदर्शनरूपम् "उच्च" ति उच्चैर्गोत्रम् "जस" ति यशःकीर्तिनाम “नाणविग्धदसगं" ति ज्ञानावरणपश्चकं विघ्नपञ्चकम्-अन्तरायपञ्चकमुभयमीलने ज्ञानविघ्नदशकमित्येतासां षोडशप्रकृतीनां सूक्ष्मसम्पराये बन्धस्योच्छेदो भवति, एतद्वन्धस्य साम्परायिकत्वाद् उत्तरेषु च साम्परायिकस्य कषायोदयलक्षणस्याऽभावादिति । "तिसु सायबंध" ति त्रिषु-उपशान्तमोहक्षीणमोहसयोगिकेवलिगुणस्थानेषु सातबन्धः सातस्य केवलयोगप्रत्ययस्य द्विसामयिकस्य तृतीयसमयेऽवस्थानाभावादिति भावः, न साम्परायिकस्य, तस्य कषायप्रत्ययत्वात् । आह च भाष्यसुधाम्मोनिधिः
उवसंतखीणमोहा, केवलिणो एगविहबंधों ।। ते पुण दुसमयठिइयस्स बंधगा न उण संपरायस्स ।
इति । । "छेओ सजोगि" ति डमरुकमणिन्यायात् सातबन्धशब्दस्येह सम्बन्धस्ततः सयोगिकेवलिगुणस्थाने सातबन्धस्य च्छेदः-व्यवच्छेदः । इह सातबन्धोऽस्ति, योगसद्भावात् । नोत्तरत्राऽयोगिकेवलिगुणस्थाने, योगाभावात् । ततोऽबन्धका अयोगिकेवलिनः । उक्तं च
सेलेसी पडिवन्ना, अबन्धगा हुंति नाया। "बंधंतुणंतो अ" ति बन्धस्यान्तोऽनन्तश्च बन्धशब्दस्याऽने षष्ठीलोपः प्राकृतत्वात् । तत इदमुक्तं भवति—यत्र हि गुणस्थाने यासां प्रकृतीनां बन्धहेतुव्यवच्छेदस्तत्र तासां बन्ध
१ उपशान्तक्षीणमोहा केवलिन एकविधबन्धाः ॥ ३ ते पुनर्दिसमयस्थितिकस्य बन्धका न पुनः सम्परायस॥ ५ शैलेशी प्रतिपना अबन्धका भवन्ति ज्ञातव्याः ॥२-४-६ षोडशे पञ्चाशके क्रमेण ४१ गापाया उत्तराई ४२ गापायाः पूर्वार्द्धमुत्तरार्द्ध चोपलभ्यते ॥