________________
[ गाथा
देवेन्द्रसूरिविरचितखोपज्ञदीकोपेतः सान्तः, यथा मिथ्यादृष्टिगुणस्थाने व्यवच्छिन्नबन्धानां षोडशानां प्रकृतीनाम , मिथ्यात्याविरतिकषाययोगा बन्धहेतवस्तेषु मिथ्यात्वं तत्रैव व्यवच्छिन्नम् , ततश्च मिथ्यादृष्टिगुणसाने तासां बन्धस्वान्तः, तत उत्तरेषु कारणवैकल्येन बन्धाभावात् ; इतरासां बन्धस्यानन्तः, तत उत्तरेष्वपि तद्वन्धकारणसाकल्येन बन्धभावादिति । एवमन्येष्वपि गुणस्थानेषु प्रकृतीनां खखबन्धहेतुव्य. बच्छेदाव्यवच्छेदाभ्यां साकल्यवैकल्यवशाद् बन्धस्यान्तोऽनन्तश्च भावनीय इति ॥ १२ ॥ ॥ इति श्रीदेवेन्द्रसूरिविरचितायां खोपज्ञकर्मस्तवटीकायां बन्धाधिकारः समाप्तः ॥
बन्धाधिकारमेनं, विवृण्वता यन्मयाऽर्जितं पुण्यम् ।
इह कर्मबन्धमुक्तो, लोकः सर्वोऽपि तेनास्तु ॥ साम्प्रतमुदयस्य प्रायस्तत्समानत्वाद् उदीरणायाश्च लक्षणकथनपूर्वकं कस्मिन् गुणस्ताने कियत्यः प्रकृतयस्तस्य भगवतः क्षीणाः ? इत्येतनिर्दिदिक्षुराह
उदओ विवागवेयणमुदीरण अपत्ति इह दुवीससयं ।
सतरसयं मिच्छे मीससम्मआहारजिणऽणुदया ॥१३॥ इह कर्मपुद्गलानां यथाखस्थितिबद्धानामुदयसमयप्राप्तानां यद् विपाकेन-अनुभवनेन वेदनं स उदय उच्यते । “उदीरण अपति" ति कर्मपुद्गलानां यथाखस्थितिबद्धानां यद् अप्राप्तकालं वेदनमुदीरणा भण्यते । "इह" ति 'इह' उदये उदीरणायां च “दुवीससयं" ति 'द्विविंशशतं' द्वाभ्यामधिकं विशं शतं द्विविंशशतं मयूरव्यंसकादित्वात् समासः, तत् सामा• न्यतोऽधिक्रियत इति शेषः । सप्तदशशतं "मिच्छे" ति मिथ्याइष्टिगुणस्थाने उदये भवति । कथम् ? इत्याह-"मीससम्मआहारजिणणुदय" त्ति, मिश्रं च “सम्म" त्ति सम्यक्त्वं च "आहार" ति इहाऽऽहारकशब्देन सर्वत्राऽऽहारकशरीराऽऽहारकाङ्गोपाङ्गलक्षणमाहारकद्विक गृह्यते तत आहारकं च "जिण" ति जिननाम च मिश्रसम्यक्त्वाहारजिनास्तेषामनुदयात् । इदमत्र हृदयम्-मिश्रोदयस्तावत् सम्यग्मिथ्यादृष्टिगुणस्थान एव भवति, सम्यक्त्वोदयस्त्वविरतसम्यग्दृष्ट्यादौ, आहारकद्विकोदयः प्रमत्तादौ, जिननामोदयः सयोगिकेवल्यादौ भवति । तत इदं प्रकृतिपञ्चकं द्वाविंशतिशताद् अपनीयते ततो मिथ्यादृष्टिगुणस्थाने सप्तदशशतं भवतीति ॥ १३ ॥
मुहमतिगायवमिच्छं, मिच्छंतं सासणे इगारसयं ।
निरयाणुपुग्विणुदया, अणथावरइगविगलअंतो ॥१४॥ सूक्ष्मत्रिकं च-सूक्ष्माऽपर्याप्तसाधारणरूपम् आतपं च मिथ्यात्वं च सूक्ष्मत्रिकातपमिथ्यात्वं मिथ्यात्वे-मिथ्यादृष्टावन्तो यस्य तद् मिथ्यात्वान्तम्, एतत्प्रकृतिपञ्चकस्य मिथ्यात्वेऽन्तो भवतीत्यर्थः । अयमत्राशयः-सूक्ष्मनाम्न उदयः सूक्ष्मैकेन्द्रियेषु, अपर्याप्तनामस्तु सर्वेध्वप्यपर्याप्तकेषु, साधारणनामोऽनन्तवनस्पतिषु, आतपनामोदयस्तु बादरपृथिवीकायिकेष्वेव; न चैतेषु स्थितो जीवः साखादनादित्वं लभते, नापि पूर्वप्रतिपन्नस्तेषूत्पद्यते, साखादनस्तु १°केषु च क० घ०॥