________________
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाया ननु यदि पूर्वोक्तत्रिषष्टेः शोकाऽरत्यस्थिरद्विकाऽयशोऽसातलक्षणं प्रकृतिषट्कमपनीयते तर्हि सा सप्तपञ्चाशद् भवति, अथ सुरायुःसहितं पूर्वोक्तप्रकृतिषट्कमपनीयते तर्हि षट्पञ्चाशत्, ततः कथमुक्तमेकोनषष्टिरष्टपञ्चाशद्वाऽप्रमत्ते ! इत्याशझ्याह---"जं आहारगदुगं बंधे" वि 'यद्' यस्मात् कारणाद् आहारकद्विकं बन्धे भवतीति शेषः । अयमत्राशयः-~-अप्रमत्तयतिसम्बन्धिना संयमविशेषेणाऽऽहारकद्विकं बध्यते, तच्चेह लभ्यत इति पूर्वापनीतमप्यत्र क्षिप्यते, ततः षट्पञ्चाशद् आहारकद्विकक्षेपेऽष्टापश्चाशद् भवति, सप्तपञ्चाशत् पुनराहारकद्विकक्षेप एकोनषष्टिरिति ।।८॥
अडवन्न अपुव्वाइमि, निद्ददुगंतो छपन्न पणभागे। सुरदुग पणिंदि सुग्वगइ, तसनव उरलविणु तणुवंगा ॥९॥ समचउर निमिण जिण वनअगुरुलघुचउ छलंसि तीसंतो।
चरमे छवीसबंधो, हासरईकुच्छभयभेओ ॥१०॥ "अडवन्न अपुवाइमि" ति । इह किलाऽपूर्वकरणाद्धायाः सप्त भागाः क्रियन्ते । तत्राऽपूर्वस्यअपूर्वकरणस्यादिमे-प्रथमे सप्तभागेऽष्टापञ्चाशत् पूर्वोक्ता भवति । तत्र चाये सप्तभागे निद्राद्विकस्य-निद्रामचलालक्षणस्यान्तो भवति, अत्र बध्यते नोत्तरत्रापि, उत्तरत्र तहन्धाध्यवसायस्थानाभावात् , उत्तरेष्वप्ययमेव हेतुरनुसरणीयः । ततः परं षट्पञ्चाशद् भवति । कथम् ? इत्याह-"पणभागि" ति पञ्चानां भागानां समाहारः पञ्चभागं तस्मिन् पञ्चभागे, पञ्चसु मागे. वित्यर्थः । इदमुक्तं भवति-अपूर्वकरणादायाः सप्तसु भागेषु विवक्षितेषु प्रथमे सप्तमागेsष्टपञ्चाशत् , तत्र च व्यवच्छिन्ननिद्राप्रचलापनयने षट्पञ्चाशत् , सा च द्वितीये सप्तभागे तृतीये सप्तभागे चतुर्थे सप्तभागे पञ्चमे सप्तभागे षष्ठे सप्तभागे भवतीत्यर्थः । तत्र च षष्ठे सप्तभागे आसां त्रिंशत्प्रकृतीनामन्तो भवति इत्याह-"सुरदुग" इत्यादि । सुरद्विकं-सुरगतिसुरानुपूर्वीरूपं "पणिदि" ति पञ्चेन्द्रियजातिः, सुखगतिः-प्रशस्तविहायोगतिः "तसनब" ति प्रसनवकं-त्रसबादरपर्याप्तप्रत्येकस्थिरशुभसुभगसुखराऽऽदेयलक्षणं "उरल विणु"ति औदारिकशरीरं विना औदारिकाङ्गोपाङ्गं च विनेत्यर्थः "तणु" ति तनवः-शरीराणि "उवंग" ति उपाङ्गे । इदमुक्तं भवति–वैक्रियशरीरम् आहारकशरीर तैजसशरीरं कार्मणशरीरं वैक्रियानो. पाङ्गम् आहारकाङ्गोपाङ्गं चेति । "समचउर" ति समचतुरस्रसंस्थानं "निमिण" ति निर्माणं "जिण" ति जिननाम-तीर्थकरनामेत्यर्थः "वन्नअगुरुलहुचउ" ति चतुःशब्दस्य प्रत्येकममिसम्बन्धाद् वर्णचतुष्कं-वर्णगन्धरसस्पर्शरूपम् , अगुरुलधुचतुकम्-अगुरुलघूपधातपराधातोच्छ्रासलक्षणमित्येतासां त्रिंशत्प्रकृतीनां "छलंसि" ति षष्ठोऽशः भागः षडंशः, मयूरव्यंसकादित्वात् समासः, यथा-तृतीयो भागस्त्रिभाग इति । अत्र डकारस्य लकारो "डोक" (सि०८-१-२०२) इति प्राकृतसूत्रेण तस्मिन् षडंशे। ततः पूर्वोक्तषट्पञ्चाशत इमा• स्त्रिंशत् प्रकृतयोऽपनीयन्ते शेषाः षडिशतिप्रकृतयोऽपूर्वकरणस्य "चरमि" ति चरमे-अन्तिमे सप्तमे सप्तभागे बन्धे लभ्यन्त इत्यर्थः । चरमे च सप्तभागे हास्यं च रतिश्च "कुच्छ" ति कुत्सा च-जुगुप्सा भयं च हास्यरतिकुत्साभयानि तेषां भेदः-व्यवच्छेदो हास्यरतिकुत्साभयभेदो भवतीति । एताश्चतस्रः प्रकृतयः पूर्वोक्तषड्विंशतेरपनीयन्ते, शेषा द्वाविंशतिः, सा