________________
५-८] कर्मस्तवाल्यो द्वितीयः कर्मग्रन्थः । मत्रामिमायः-द्वितीयकषायांस्तावत् तदुदयाभावान्न बध्नाति देशविरतादिः; कषाया ह्यनन्तानुबन्धिवर्जा वेद्यमाना एव बध्यन्ते, “'जे वेएइ ते बंधइ" इति वचनात् । अनन्तानुबन्धिनस्तु चतुर्विशतिसत्कर्माऽनन्तवियोजको मिथ्यात्वं गतो बन्धावलिकामानं कालमनुदितान् बध्नाति ।
यदाहुः सप्ततिकाटीकायां मोहनीयचतुर्विशतिकावसरे श्रीमलयगिरिपादाः
इह सम्यग्दृष्टिना सता केनचित् प्रथमतोऽनन्तानुबन्धिनो विसंयोजिताः, एतावतैव स विश्रान्तो न मिथ्यात्वादिक्षयाय उद्युक्तवान् , तथाविघसामग्र्यभावात् । ततः कालान्तरेण मिथ्यात्वं गतः सन् मिथ्यात्वप्रत्ययतो भूयोऽप्यनन्तानुबन्धिनो बध्नाति । ततो बन्धावलिकां यावत् नाथाप्यतिक्रामति तावत् तेषामुदयं विना बन्ध इति । (पत्र १३५-२) __ नरत्रिकं पुनरेकान्तेन मनुष्यवेद्यम्, औदारिकद्विकं वज्रऋषभनाराचसंहननं च मनुष्यतिर्यगेकान्तवेद्यम् , देशविरतादिषु देवगतिवेद्यमेव बध्नाति नान्यत् , तेनासां दशप्रकृतीनामविरतसम्यग्दृष्टिगुणस्थानेऽन्तः । तत एतत् प्रकृतिदशकं पूर्वोक्तसप्तसप्ततेरपनीयते, ततः "देसे सतहि" ति देशे' देशविरतगुणस्थाने सप्तपष्टिर्बध्यते "तियकसायंतु" ति तृतीयकषायाणांप्रत्याख्यानावरणक्रोधमानमायालोमानां देशविरतेऽन्तः, तदुत्तरेषु तेषामुदयाभावाद् अनुदितानां चाबन्धात् “जे वेयइ ते बंधई" इति वचनाद् इति भावः । एतच्च प्रकृतिचतुष्कं पूर्वोक्तसप्तषष्टेरपनीयते ॥ ६ ॥ ततः
तेवहि पमत्ते सोग अरइ अथिरदुग अजस अस्सायं ।
वुच्छिज्ज छच सत्सव, नेइ सुराउं जया निहूँ॥७॥ "तेवहि पमत्ति" ति त्रिषष्टिः प्रमत्ते बध्यते । शोकः अरतिः "अथिरदुग" ति अस्थिरद्विकम्-अस्थिराऽशुभरूपम् “अजस" ति अयशःकीर्तिनाम असातमित्येताः षट् प्रकृतयः प्रमचे "वुच्छिज" ति प्राकृतत्वादादेशस्य व्यवच्छिद्यन्ते-क्षीयन्ते बन्धमाश्रित्येति भावः । यद्वा सप्त वा व्यवच्छिद्यन्ते । कथम् ? इत्याह-"नेइ सुराउं जया निटें" ति यदा कश्चित् प्रमत्तः सन् सुरायुर्बन्डुमारभते निष्ठां च नयति सुरायुर्वन्धं समापयतीत्यर्थः तदा पूर्वोक्ताः षट् सुरायुःसहिताः सप्त व्यवच्छिद्यन्त इति ॥ ७॥
गुणसहि अप्पमत्ते, सुराउबंधं तु जइ इहागच्छे । ___अबह अट्ठावन्ना, जं आहारगदुगं बंधे ॥८॥
"गुणसट्टि" ति एकोनषष्टिरप्रमत्ते बध्यत इति शेषः । कथम् ? इत्याह-'सुरायुर्वनन्' देवायुर्बन्धं कुर्वन् यदि चेद् 'इह' अप्रमत्तगुणस्थान आगच्छेत् । इयमत्र भावना-सुरा. युर्बन्धं हि प्रमत्त एवारमते नाप्रमत्वादिः, तस्यातिविशुद्धत्वात् , आयुष्कस्य तु घोलनापरिणामेनैव बन्धनात्, परं सुरायुर्बधन् प्रमते किञ्चित् सावशेष सुरायुर्वन्धेऽप्रमचेऽप्यागच्छेत् , अत्र च सावशेष सुरायुर्निष्ठां नयति तत एकोनषष्टिरप्रमचे भवति "देवाउयं च इकं, नायवं अप्पमत्तम्मि ।" इति वचनात् । “अन्नह अट्ठावन्न" ति अन्यथा यदि सुरायुर्वन्धः प्रमत्तेनारब्धः प्रमतेनैव निष्ठां नीतस्ततोऽष्टापञ्चाशदप्रमत्ते भवतीति । १-१मान् वेदयते तान् बनाति ॥ ३ तुष्टयं ख०ग०॥ ४ देवायुष्कं चैकं ज्ञातव्यमप्रमत्ते॥
क.११