________________
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा बशादवसेयः । “तिरिथीणदुहगतिगं" ति । त्रिकशब्दः प्रत्येकं सम्बध्यते, 'तिर्यत्रिक' तिर्यग्गतितिर्यगानुपूर्वीतिर्यगायुर्लक्षणं 'स्त्यानर्द्धित्रिकं' निद्रानिद्राप्रचलामचलास्त्यानखिरूपं दुर्भगत्रिकं' दुर्भगदुःस्वराऽनादेयखरूपमिति ॥ ४ ॥
अणमझागिइसंघयणचउ निउज्जोयकुखगइत्थि ति।
पणवीसंतो मीसे, चउसयरि दुआउयअबंधा ॥५॥ चतुःशब्दस्य प्रत्येकं योजनात् "अण" ति अनन्तानुबन्धिचतुष्कम् अनन्तानुबन्धिको धमानमायालोभाख्यम् , मध्याः-मध्यमा आघन्तवर्जा आकृतयः-संस्थानानि मध्याकृतयः तासां चतुष्कं न्यग्रोधपरिमण्डलसंस्थानं सादिसंस्थानं वामनसंस्थानं कुन संस्थानमिति, तथा काकाक्षिगोलकन्यायात् मध्यशब्दस्यात्रापि योगः, ततो मध्यानि-मध्यमानि प्रथमान्तिमवर्जानि संहननानि-अस्थिनिचयात्मकानि तेषां चतुष्कम्-ऋषभनाराचसंहननं नाराचसंहननम् अर्घनाराचसंहननं कीलिकासंहननमिति, "निउ" ति नीचैर्गोत्रम् , उद्योतम् , कु-कुत्सिताऽप्रशस्ता खगतिः-विहायोगतिः कुखगतिः अप्रशस्तावहायोगतिरित्यर्थः, "स्थि" ति स्त्रीवेद इत्येतासां पञ्चविंशतिपकृतीनां साखादनेऽन्तः, अत्र बध्यन्ते नोत्तरत्रेत्यर्थः, यतोऽनन्तानुबन्धिप्रत्ययो ह्यासां बन्धः, स चोत्तरत्र नास्तीति । ततश्चैकाधिकशतात् पश्चविंशत्यपगमे “मीसि" ति 'मिश्रे' सम्यग्मिथ्यादृष्टिगुणस्थाने षट्सप्ततिबन्धे भवति । ततोऽपि "दुआउयअबंध" ति द्वयोमनुष्यायुर्देवायुषोरबन्धो द्यायुरबन्धस्तस्माद् द्यायुरबन्धादिति हेतोश्चतुःसप्ततिर्भवति । इदमुक्तं भवति-इह नारकतिर्यगायुषी यथासङ्ख्यं मिथ्यादृष्टिसाखादनगुणस्थानयोwवच्छिन्ने, शेषं तुमनुष्यायुर्देवायुद्वयमवतिष्ठते तदपि मिश्रो न बध्नाति, मिश्रस्य सर्वथाऽऽयुबन्धप्रतिषेधात्। उक्तं च
सम्मामिच्छद्दिट्टी, आउयबंधं पि न करेइ । ति । ततः षट्सप्ततेरायुयापगमे चतुःसप्ततिर्भवतीति ॥ ५॥
सम्मे सगसयरि जिणाउयंधि बहर नरतिग बियकसाया।
उरलदुगंतो देसे, सत्तही तिअकसायंतो॥६॥ "सम्मि" ति अविरतसम्यग्दृष्टिगुणस्थाने “सगसयरि" ति सप्तसप्ततिप्रकृतीनां बन्धो भवति । कथम् । इति चे उच्यते-पूर्वोक्तैव चतुःसप्ततिः "जिणाउबंधि' ति तीर्थकरनाममनुष्यायुर्देवायुयबन्धे सति सप्तसप्ततिर्भवति । एतदुक्तं भवति–तीर्थकरनाम तावत् सम्यक्त्वप्रत्ययादेवात्र बन्धमायाति, ये च तिर्यग्मनुष्या अविरतसम्यग्दृशस्ते देवायुर्बध्नन्ति, ये तु नारकदेवास्ते मनुयायुर्वघ्नन्ति, ततोऽत्रेयं प्रकृतित्रयी समधिका लभ्यते, सा च पूर्वोक्तायां चतुःसप्ततौ क्षिप्यते जाता सप्तसप्ततिरिति । “वहर" ति वज्रर्षभनाराचसंहननं "नरतिय" ति नरत्रिक-नरगतिनरानुपूर्वीनरायुर्लक्षणं "बियकसाय" चि द्वितीयकषायाः-अप्रत्याख्यानावरणाः क्रोधमानमायालोभाः "उरलदुग" ति औदारिकद्विकम्-औदारिकशरीरौदारिकानोपाजलक्षणमित्येतासां दशप्रकृतीनामविरतसम्यग्दृष्टावन्तो भवति, एता अत्र बध्यन्ते नोचरत्रेत्यर्थः । अय
१°कं मध्याकृतिचतुष्कं-ज्य ख०॥ २ क संहननचतुष्कम्-ऋ० क० ख० घ० रु०॥ ३ सम्यग्मिध्यादृष्टिरायुर्वन्धमपि न करोति ॥ ४ युनिवर्तयन्ति, क० ख०॥