________________
कण्डिका]
प्रथमकाण्डम्। अनेन मन्त्रेण । कारितार्थे चायं मन्त्रः । पश्यामीत्यत्रान्तर्भूतो णिच् । यदुक्तं भवति दर्शयामीति तदुक्तं भवति पश्यामीति मन्त्रोऽप्येवमेव व्यवस्थितः । 'ध्रुवैधि'...'शतमिति ' कुमार्या बोच्यते । 'सा यदि..... 'यात् । न तु न पश्यामीति । ' त्रिरात्र'... 'स्याताम् । वरवध्वौ । 'अधः शयीयाताम् । खट्वाव्युदासार्थोऽयमधःशब्दो नास्तरणब्युदासार्थः । संवत्सर न मिथुनमुपैयातां द्वादशराठी षड्रात्रं त्रिरात्रमन्ततः ॥ ८॥
(जयरामः )-'अथेति' परिणयानन्तरम् एकमिपे इत्येभिर्मन्त्रैः प्रतिमन्त्रं विष्णुस्त्वा नयविति सर्वत्राऽनुषजति साकाहत्वात् तुल्ययोगित्वाञ्च पूर्वमन्त्राणाम् । अथ मन्त्रार्थः-तत्र सर्वत्र प्रजापतिर्यजुलिङ्गोक्ताः प्रक्रामणे । इपे अन्नाय । अर्जे वलाय । रायस्पोपाय धनपुष्ट्यै । मायः सुखं तस्य भवः उत्पत्तिः पश्वादिभ्यः तत्तत्सुखाय । सखे इहामुत्रमित्र सा त्वं सप्तपदा भूरादिसप्तलोकप्रख्याता भव मामनुव्रता अनुवर्तिनी च भव निष्क्रमणप्रभृति निष्क्रमणकालादारभ्योदकुम्भं स्कन्धे कृत्वा अग्नेर्दक्षिणतस्तिष्ठेदन्यः उत्तरतः एकेषां मतम् अतो विकल्पः । तत उदकुम्मानलं गृहीत्वा एनां कन्यां मूर्द्धनि वरोऽभिषिञ्चति आपः शिवा इति मन्त्रेण | आपोहिष्ठेति च इति चकारात् त्रिभिरप्यभिषेकः । अथ मन्त्रार्थः--आपः शिवा इति प्रजापतिर्यजुरापोऽभिषेचने । याः आपः शिवाः कल्याणहेतवः शिवतमाः अतिशयाभ्युदयकारिण्यः शान्ताः सुखकर्यः शान्ततमाः परमानन्ददायः ता आपः ते तव भेषजम् आरोग्यम् कृण्वन्तु कुर्वन्तु । आपोहिष्ठेत्यादेः सिन्धुद्वीपो गायत्री आपो मार्जने । अथैनामुदीक्षयतीति कारितार्थत्वाद्वरस्याध्येषणा सूर्यमुदीक्षस्वेति । ततश्च तचक्षुरिति । मन्त्रेणोदीक्षते कन्या । तत्र ध्यङ्ङाथर्वणः पुरउष्णिक् सूर्यस्तदीक्षणे । अथास्यै अस्याः वध्वाः दक्षिणांसमधि दक्षिणांसस्योपरि स्वहस्तं नीत्वा तस्या हृदयमालभते स्पृशति वरो 'ममत्रते इति' मन्त्रेण । अस्यार्थः । तत्र परेमेष्ठी त्रिष्टुप् प्रजापतिर्हृदयालम्मे । हे कन्ये इत्यध्याहारः मम व्रते शास्त्रविहितनियमादौ ते तव हृदयं मनः वृहतां मरीच्यादीनां पतिवृहस्पतिः ब्रह्मा दधातु धारयतु किं च मम चित्तमनु ममचित्तानुकूलं ते तव चित्तमस्तु । त्वं च मम वाचं वचनमेकमना अव्यभिचारिमनोवृत्तिर्जुषस्त्र हृष्टचित्तादरेण कुरुष्व । त्वा त्वां च स एव वृहस्पतिर्मह्यं मदर्थ मां प्रसादयितुमित्यर्थः नियुनक्तु नियोजयतु । अथैनां वधू वरोऽभिमन्त्रयते 'सुमङ्गलीरिति । मन्त्रेण । अस्यार्थः । तत्र प्रजापतिरनुष्टुप् विवाहाधिष्टान्योऽभिमन्त्रणे । हे विवाहदेवताः इयं वधूः सुमङ्गली: शोभनमङ्गलरूपा विसर्गश्छान्दसः । अत इमां कन्यां समेत संगच्छत संगत्य च इमां पश्यत मङ्गलदृष्ट्या विलोकयत । किंच अस्यै कन्यायै सौभाग्यं दत्त्वा अस्तं स्वस्वगृहं प्रति याथ यातेत्यर्थः । न विपरेत, न विशिष्टमुखतया पराइत अपगच्छत पुनरपि पुत्रादिमङ्गलमाशास्य पुनरागमनाय ब्रजतेत्यर्थः । यद्वा यद्यत्तं याथ तर्हि न विपरेतेति अस्तं गृहा इति श्रुतेः । तां वधू हढपुरुषो दृढाइपुरुषोऽन्यो वरो वा उन्मथ्य उत्थाप्य प्राग्वा पूर्वस्यां दिशि उद्ग्वा उत्तरस्यामनुगुप्ते वस्त्रादिनाच्छादिते आगारे गृहे तत्र च प्राग्नीवे उत्तरलोम्नि आस्तीर्णे चर्मणि उपवेशयति । 'इह गावः' इति मन्त्रेण । अस्यार्थः-तत्र प्रजापतिरनुष्टुप् लिङ्गोक्ता उपवेशने । इह कन्यानिवेशने गावः अश्वाः पुरुषाश्च निषीदन्तु वसन्तु । इहपदावृत्तिः कर्तृभेदापेक्षया । किं च उ एवार्थे । इहैव सहस्रं गावो दक्षिणा यस्य स यज्ञः पूषा पुष्टिकरो निषीदतु । पूषा वै सहस्रदक्षिण आसेति श्रुतेः । ग्रामवचनं वृद्धस्त्रीवाक्यं विवाहे मरणे च प्रमाणम् । कुतः । ग्राम प्रविशतादिति वचनाद्धेतोः । तस्मादित्यादिश्रुतेश्च । ताश्चं यत्स्मरन्ति तत्कर्तव्यामित्यर्थः । आचार्याय वरो वरं ददाति । वरशब्देन किमभिधीयते तदाह-गौ ह्मणस्येत्यादि । दुहितृमते यस्य दुहि. तर एव न पुत्रास्तस्मै रथाधिकं गवां शतं दत्त्वा तहुहितरमुद्हेत् । प्रतिषिद्धा ह्यसौ नाभ्रातृकामु