________________
पारस्करगृह्यसूत्रम् ।
[अष्टमी पयच्छेदिति, तत्परिक्रयायाधिरथदानम् । अस्तमिते इति दिवाविवाहे अस्तमिते सूर्ये ध्रुवमीक्षस्वेति प्रेषेण वरो वधू प्रेषयति । रात्रिविवाहे तु गोदानानन्तरमेव । सा ध्रुवमसीति मन्त्रस्य वरपठितस्यान्ते समीक्षते कारितार्थे चाऽयं मन्त्रः । कारयिता चात्र वर एव मन्त्रलिङ्गात् । अथ मन्त्रार्थः-तत्र परमेष्ठी पतिः प्रजापतिरीक्षणे । हे वधु त्वं ध्रुवं ध्रुवा शाश्वती असि भवसि यतस्त्वा त्वां ध्रुवं तारकाविशेषं पश्यामि दर्शयामि अत्रान्तर्भूतो णिच् नेयः । अतस्त्वं मयि ध्रुवा शाश्वती पोल्या पोषणीया मत्प्रजापोष्ट्री वा एधि भव वर्द्धयेति वा । एतदर्थमेव वृहस्पतिर्ब्रह्मा त्वा त्वां मह्यमदात् दत्तवान् अतो मया पत्या भासह प्रजावती पुत्रपौत्रादियुक्ता शतं शरदो वर्षाणि सम्यक् जीव प्राणिहि । सा यदि न पश्यति पश्यामीत्येव ब्रूयात् नतु न पश्यामीति । त्रिरात्रमिति वधूवरौ । अध इति खवाव्युदासो नास्तरणव्युदासः । संवत्सरं मिथुनं नोपगच्छेताम् । अन्ततः अत्र संवत्सरादौ त्रिरात्रपक्षो ह्यन्तिमः संवत्सरादिविकल्पास्तु शक्त्यपेक्षया व्यवस्तिथा जेयाः । संवत्सरादिपक्षाशक्तौ त्रिरात्रपक्षाश्रयेऽपि चतुर्थीकानन्तरं पञ्चम्यादिरात्रावभिगमनम् । चतुर्थीकर्मणः प्राक्तस्या भार्यात्वमेव नोत्पन्नं विवाहैकदेशत्वाञ्चतुर्थीकर्मणः ॥ ८ ॥
(हरिहरः) अथैना...'त्रानुषजति । अथ प्राजापत्यहोमानन्तरमेनां वधूमदीचीमुदङ्मुखी सप्तपदानि प्रक्रामयति । सप्तप्रक्रमान दक्षिणपादेन कारयति उत्तरोत्तरं वरः । कथंभूतां, त्रि: परिणीतां त्रीन्वाराननेः प्रादक्षिण्येनानीतामिति व्यवहितेन संबन्धः । कुतः पाठक्रमादर्थक्रमो वलीयानिति न्यायात् । एकमिष इत्यादिभिः सप्तभिर्मन्त्रैः । तद्यथा एकमिषे विष्णुस्त्वानयविति वरेणोक्त मन्त्रे वधूरेकं पदमुदग्ददाति । तथा द्वे ऊ विष्णुस्त्वानयत्विति मन्त्रान्ते द्वितीयम् । त्रीणि रायस्पोषाय विष्णुस्त्वा नयत्वित्युक्ते तृतीयम् । चत्वारि मायोमवाय विष्णुस्त्वा नयत्वित्युक्ते चतुर्थम् । पञ्च पशुभ्यो विष्णुस्त्वा नयत्वित्युक्ते पञ्चमः । षड्तुभ्यो विष्णुस्त्वा नयत्वित्युक्ते षष्ठम् । सखे सातपदा भव सा मामनुव्रता भव विष्णुस्त्वा नयत्वित्युक्ते सप्तमम् । विष्णुस्त्वानयत्वित्येतावन्मन्त्रभागं सर्वत्र एकभिषइत्यादिसर्वेषु मन्त्रेपु अनुपजति संवनाति । निष्क्रमणप्रभृत्युदकुम्भठ स्कन्धे कृत्वा दक्षिणतोऽग्नेर्वाग्यतः स्थितो भवत्युत्तरत एकेपाम् । निष्कमणप्रभृति पित्रा प्रत्तामादाय गृहीत्वा निष्कामतीत्यादित आरभ्य कश्चित्पुरुषो जलपूर्ण कलशं स्कन्धे निधाय वधूवरयोः पृष्ठत आगत्यानेदक्षिणस्यां दिशि मौनी स्थित आस्ते केषां चित्पक्षे उत्तरतः । 'तत एनां....."तिमृभिः । ततस्तस्मास्कन्धस्थितादुदकुम्भादाचारादाम्रादिपल्लवसहितेन हस्तेन जलमादायैनां वy मूर्द्धनि शिरस्यभिषिञ्चति वरः । आपः शिवा इत्यादिना भेषजमित्यन्तेन मन्त्रेण । पुनस्तथैवोदकमादाय आपोहिष्ठेत्यादि आपोजनयथाचन इत्यन्ताभिस्तिमृभिनम्भिरभिषिञ्चतीति चकारानुषज्यते । अथैना'च क्षुरिति । अथाभिषेकादुपरि सूर्यमुदीक्षस्वेति श्रेषेण सूर्यमेनां वधू वर उदीक्षयति सूर्यनिरीक्षणं कारयतीत्यर्थः । सा च वरप्रेषिता सती तच्चक्षुरितिमन्त्रेण स्वयं पठितेन सूर्य निरीक्षते दिवाविवाहपक्षे । 'अथास्यै ...."मालभते । अथ सूर्येक्षणानन्तरमस्यै इति षष्ठयथें चतुर्थी । अस्या वध्वाः दक्षिणांसमधि दक्षिणस्य स्कन्धस्योपरि हस्तं नीत्वा तस्या हृदयमालभते वरः स्पृशति । 'मम व्रते."मह्यम्' इत्यनेन मन्त्रेण । 'अथैनाम".."तन', इत्यन्तं सूत्रम् । अथ हृदयालम्भनानन्तरमेना वधू वरोऽभिमन्त्रयते । सुमङ्गलीरित्यादिना मन्त्रेण । अत्र शिष्टसमाचारात् उत्तरतआयतना हि स्त्रीतिश्रुतिलिङ्गाच वधू वरस्य वामभागे उपवेशयति । 'तां दृढ'... 'गाव इति । ततस्ता वधू दृढपुरुषः वलवान् कश्चित्पुमानुन्मथ्योत्थाप्य प्राक् पूर्वस्यां दिशि उदछ उदीच्यां वा दिशि पूर्वकल्पिते अनुगुप्ते सर्वतः परिवृते आगारे गृहे तत्र च पूर्वमास्तीर्णे आनडुहे आपमे रोहिते लोहितवणे चर्मणि अजिने प्राग्नीवे उत्तरलोनि उपवेशयति इह गाव इत्यादिना निपीदन्त्विति। अस्य मन्त्रस्य