________________
कण्डिका]
प्रथमकाण्डम् । वधूवरौ ब्रह्माग्न्योर्मध्ये न गच्छेताम् इति । सर्वोऽप्ययं ग्रन्थस्तावदशुद्धः । नहीतरथावृत्तिकारणं व्यवायः कि तर्हि वचनादप्रदक्षिणावर्तनं कृत्वा प्रदक्षिणावर्तनं वा कृत्वा इतरथावृत्तिः कार्या । तथा च परिभापासूत्रम् विवृत्यावृत्यवेतरथावृत्तिरिति । अयमर्थः । विवृत्याप्रदक्षिणमावर्तनं कृत्वा आवृत्य प्रदक्षिणमावर्तनं कृत्वा इतरथावृत्तिः प्रत्यावृत्तिः कर्तव्या । यत्र शास्त्रतः प्रदक्षिणावृत्तिः कृता तत्र तदानीमेवाप्रदक्षिणावृत्तिरविहिताऽपि सर्वत्र कर्तव्या यत्र चाप्रदक्षिणावृत्तिः कृता तत्र तदानीमेव प्रदक्षिणावृत्तिरविहिताऽपि सर्वत्र कर्तव्या, ( यत्र चाप्रदक्षिणावृत्तिः कृता तत्र प्रदक्षिणावृत्तिः) इति । ब्रह्माग्न्योर्मध्ये वधूवरौ न गच्छेतामित्येतस्य हेतूपन्यासाथै हविप्पात्रेति सूत्रं दर्शितं तदपि विपरीतं, नह्येतत्सूत्राद्ब्रह्माग्न्योर्मध्ये वधूवरौ न गच्छत इत्यायाति कित्येतस्मादेव सूत्रान्मध्ये गमनम् । हविष्पानेत्यस्यार्थ:-हविर्तीह्यादि पात्राणि शूर्पादीनि स्वामी कर्मजन्यफलमोक्ता यजमानः पत्नी च ऋत्विजो ब्रह्माद्याः एतेपामेकन समावेशे सति पूर्व पूर्वमस्मिन्सूत्रे प्रथमं प्रथममुपदिष्टमन्तरमग्निसन्निकृष्टं भवति अर्थात्पश्चात्पश्चादुपदिष्टं तदपेक्षया वहिर्भवति हविरादीनाभित. स्ततो नयने ऋविग्यजमानानां चेतस्ततो गमनागमने कर्मार्थमुपवेशने च सर्वत्राप्ययमन्तर्बहिर्भावो ज्ञेय इत्यर्थः । ऋत्विनां ब्रह्मादीनामेकत्र समावेशने चान्तर्वहिर्भावः । ततश्च वधूवरावग्नेः प्रदक्षिणं कुर्वन्तौ अन्तरङ्गत्वात्तन्मध्य एव गच्छेतामिति । तथाच कारिकायाम्-दम्पत्योर्गच्छतोस्तत्र ब्रह्माग्नी अन्तरा गतिः' इति । 'त्रिपरि....'हुत्वा' त्रिः परिणीतां सती कुमारी प्राजापत्यं प्रजापतिदेवताकहोमं कृत्वा त्रिग्रहणमितरथावृत्तिव्युदासार्थम् । उक्त हि परिभापायां 'विवृत्यावृत्य वेतरथावृत्तिरिति । अत्राचारातूष्णी चतुर्थ परिक्रमणं कुरुत इति वासुदेवगङ्गाधरहरिहररेणुदीक्षिताः ॥ इति प्रथमकाण्डे सप्तमीकण्डिका ॥ ७ ॥
(विश्व०) अथैनामम्मानमारोहयतीत्यारभ्य पृतनायत इत्यन्तं सूत्रम् । अथ गाथां गायति अथ अमारोहणानन्तरम् । तामाह-सरस्वती प्रेद"यश इत्यन्तन् । अथ परिक्रामतस्तुभ्यमनेसहेत्यन्तं सूत्रम्। अथगानामनन्तरं वधूवरौ अग्निं परिक्रामतस्तुभ्यमिल्यारभ्य सहेत्यन्तेन मन्त्रेणेत्यर्थः । 'एवं द्विरपरं लाजादि' कुमार्याभ्रातेत्यारभ्य परिक्रमणान्तं कर्म भवतीत्यर्थः । चतुर्थ५ शूर्पस्य कुष्टया कोणेन सर्वान् शूर्पावशिष्टान् लाजानावपति कुमार्याः अञ्जलौ भ्राता, तांश्च भगाय स्वाहेति कुमारी मन्त्रावृत्त्या आहुतित्रयं जुहोति इदं भगायेति त्यागः ॥३॥ आचाराद्वधूभ्रातुः वराङ्गुष्टग्रहणम् । वरस्तु नारिकेरादि तस्मै ददाति । 'परिणीतां प्राजापत्य हुत्वा' अग्नेः परितो नीतां कन्यामुपवेश्य कन्यावराभ्यामन्वारब्ध आचार्यः प्रजापतये स्वाहेति हुत्वा पद्नक्रमणाद्युत्तरं यथोक्तं कारयतीत्यर्थः । इदं प्रजापतय इति त्यागः ।। सप्तमी कण्डिका ॥ ७ ॥ ॥ * ॥ __ अथैनामुदीची सप्तपदानि प्रक्रामयति एकमिषे द्वे ऊर्जे त्रीणि रायस्पोषाय चत्वारि मायोभवाय पञ्च पशुभ्यः षड् ऋतुभ्यः सखे सप्तपदा भव सा मामनुव्रता भव ॥ ५ ॥ विष्णुस्त्वानयत्विति सर्वत्रानुषजति ॥ २ ॥ निष्क्रमणप्रभृत्युदकुम्भ स्कन्धे कृत्वा दक्षिणतोऽनेग्यितः स्थितो भवति ॥ ३ ॥ उत्तरत एकेषाम् ॥ ४ ॥ तत एनां मूर्धन्याभिषिञ्चति आपः शिवाः शिवतमाः शान्ताः शान्ततमारतास्ते कृण्वन्तु भेषजमिति ॥ ५ ॥ आपोहिष्ठेति च तिसृभिः ॥ ६ ॥ अथैनाथं सूर्यमुदीक्षयति तच्च