________________
८४
पारस्करगृह्यसूत्रम् ।
[सप्तमी द्विरपरलाजादि। एवमुक्तप्रकारेण द्विः वारद्वयमपरं पुनरपि लाजादि कुमार्या भ्रातेत्यारभ्य परिक्रमणान्तं कर्म भवति । 'चतुर्थठ...."स्वाहेति'. । ततस्तृतीयपरिक्रमणानन्तरं कुमार्या भ्राता शूर्पकुष्ठया शूर्पस्य कोणेन सर्वान् यावच्छूपेऽवशिष्टान् लाजान् कुमार्या अञ्जली आवपति निक्षिपति । तान् लाजान् तिष्ठती कुमारी भगाय स्वाहेति मन्त्रेण चतुर्थ जुहोति । ततः समाचारात्तूष्णीं चतुर्थ परिक्रमणं वधूवरौ कुरुतः नेतरथावृत्तिम् इतरथावृत्तेः कारणस्य व्यवायस्याभावात् । ब्रह्माग्न्योरन्तरागमनं हि इतरथावृत्तिकारणं, कुत इति चेत् 'हविःपात्रस्वाम्युत्विजां पूर्वपूर्वमन्तरमृत्विजां च यथापूर्वम् । इति परिभाषासूत्रात् । तेन परिक्रमणं कुर्वन्तौ वधूवरौ ब्रह्माग्न्योमध्ये न गच्छेताम् । 'त्रिः परि...""हुत्वा' । पूर्ववदुपविश्य प्रजापतये स्वाहेति ब्रह्मान्वारब्धो हुत्वा इदं प्रजापतय इति त्यागं विधाय ॥ इति श्रीहरिहरभाष्ये सप्तमी कण्डिका ॥ ७ ॥
(गदाधरः)-'अथैना'..."नायत इति । अथ धृतकर एव वर एनां वधूमुत्तरतोऽग्नेः स्यापितमश्मानं पाषाणं दक्षिणपादेन कृत्वा आरोहयत्यारोहेममश्मानमित्यनेन मन्त्रेण मन्त्र एव कारितार्थे । वासुदेवेन कुमार्या दक्षिणपादं हस्तेन गृहीत्वा अश्मानमुपरि वरः करोतीत्युक्तं, कारिकायाम् 'गत्वोभावुत्तरेणाग्नि तस्याः सव्येतरं करम् । सव्येनादाय हस्तेन वधूपादं तु दक्षिणम् । शिलामारोहयेत्प्रागायता दक्षिणपाणिना' इति । मन्त्रपाठश्च वरस्य न कुमार्याः । मन्त्रार्थः-हे कन्ये इमं पुरोवर्तिनमश्मानं प्रस्तरमारोह आक्रम अधितिष्ठेति यावत् । आरोहणेन संस्कृता त्वमश्मेव पापाणवत् स्थिरा दृढा भव । किंच अभि अधिकृत्य आक्रम तिष्ठ कान् पृतनां संग्राममिच्छन्ति पृतन्यन्ति त एव पृतन्यतः तान् पृतन्यतः कलहकारिण इत्यर्थः । ततश्च पृतनाभिः सेनाभियतन्त इति पृतनायतः तान्पृतनायतः अव अवाचीनान्कृत्वा वाधव भग्नोद्यमान कुरु । 'अथ गाथां"""यश इति । अथ कन्याया दक्षिणपादे अश्मनि निहित एव वरः सरस्वतिप्रेमवेति इमां गाथां गायति । मन्त्रार्थ:-हे सरस्वति वाग्देवते सुभगे कल्याणि वाजिनीवती वाजः अन्नं तदस्ति अस्यामिति वाजिनीवती अन्नवती, यद्वा वाजाः पक्षाः सन्त्यस्या इति वाजिनी हंसी तद्वतीदं युग्मं कर्म च प्राव प्रकृष्टतया अव रक्ष । त्वा त्वामस्य विश्वस्य भूतस्य जातस्य पृथिव्यादेर्वा प्रजायां प्रकृष्टां जनित्रीमाहुः किंभूतामग्रतः प्रथमां, तदेव प्रपञ्चयति, यस्यां प्रकृतिरूपायां त्वयीदं सर्व विश्वं तथाभूतं पृथिव्यादि सर्व जगत अस्तं गच्छत् आस प्रलये लीनमित्यर्थः । पुनः सृष्ट्यादौ च यस्याः सकाशात्समभवत् जातं तस्याः सरस्वत्याः संबन्धिनी तां गाथां गुणप्रभावस्तुतिप्रकाशिकामद्य गास्यामि या श्रुता सती स्त्रीणामुत्तमं श्रेष्ठं यशः कीर्ति ददाति । अथ परिका...."सहेति । अथ धृतकरावेव वरवध्वौ अग्नेः परिक्रमणं कुरुतस्तुभ्यमग्र इत्यनेन मन्त्रेण । मन्त्रश्च लिलाद्वरस्यैव । मन्त्रार्थःहे अग्ने तुभ्यं त्वदर्थमेव सोमादयः अग्रे पूर्व जन्मदिनादारभ्य पर्यवहन् परिगृहीतवन्तः ततः सूर्यो सूर्यसंवन्धिनी भार्यामिमां भवान्वहतु । किं भूतः ना पुरुषः परमपुरुषार्थहेतुरित्यर्थः । तां जायां जायात्वेन पुनः पश्चात्स्वभोगानन्तरं प्रजया पुत्रैः सह मह्यं दाः देहि । संधिरार्षः । एवमनेन प्रकारेण 'द्विरपरं लाजादि कुमार्या भ्रातेत्याद्यारभ्य परिक्रमणान्तं यावत्कर्मोक्तं तावद् द्विः वारद्वयमपरं पुनर्भवति । चतुर्थ:-..."स्वाहेति । तृतीयप्रक्रमे समाप्ते चतुर्थलाजाहोमं जुहुयात् । तत्रायं विशेपः कुमार्या भ्राता शूर्पकुष्ठया शूर्पकोणेन शूपें अवशिष्टान् सर्वाल्लाजान कुमार्या अञ्जलावावपति तान्कुमारी भगाय स्वाहेत्यनेन मन्त्रेण जुहोति । अत्र हरिहरमित्रैरवुद्धैव पाण्डित्यं कृतमस्ति तत्र तेषां ग्रन्थः-ततः समाचारातूष्णी चतुर्थ परिक्रमणं वधूवरौ कुरुतः नेतरथावृत्तिम् इतरथावृत्तेः कारणस्य व्यवायस्याभावात् । ब्रह्माग्न्योरन्तरागमनं हीतरथावृत्तिकारणं कुत्त इति चेत् । हविप्पात्रस्वाम्यत्विजां पूर्व पूर्वमन्तरमृत्विजां च यथापूर्वमिति परिभापासूत्रात् तेन परिक्रमणं कुर्वन्तो