________________
८३
afrat ]
प्रथमकाण्डम् |
"यशः' इति वर • एवं द्विरपरं
( कर्कः ) -- ' अथैनामश्मानमिति ' एनां वधूमुत्तरतोऽग्नेर्व्यवस्थितमश्मानमारोह यत्यारोहेममश्मानमित्यनेन मन्त्रेण प्रकृतं कर्तृत्वं चात्र वरस्य मन्त्रश्च । 'अथ गाथां" एव । अथ परिक्रामतस्तुभ्यमत्र इत्यनेन मन्त्रेण वरवध्वौ, मन्त्रश्च लिङ्गाद्वरस्यैव । लाजादि ' कर्म भवति । चतुर्थ वपति । अत्रं शूर्पस्य कुष्ठा तया शूर्पकुष्ठया सर्वाल्ला जानापति कुमार्याः पाणौ, भगाय स्वाहेत्यनेन मन्त्रेण तानेव जुहोति कुमारी । 'त्रिः परिणीतां प्राजापत्यर्ठ हुत्वेति ' । न्निः परिणीतामिति त्रिर्ग्रहणमितरथावृत्तिन्युदासार्थम् । उक्तं हि परिभाषायाम्--- विवृत्त्यावृत्य वेतरथा वृत्तिरिति ॥ ७ ॥ ॥ * ॥
I
1
( जयरामः ) - अथैनां वधूमुत्तरतो ऽग्नेरवस्थापितमश्मानमारोहयति दक्षिणपादेन वर: ' आरोहेममश्मानमिति ' मन्त्रेण । प्रकृतं कर्तृत्वं चात्र वरस्य मन्त्रपाठश्च । तस्यार्थः । तत्राथर्वणोऽनुष्टुप् वधूर्देवता अश्मारोहणे । हे कन्ये इमं पुरोवर्तिनमग्मानं प्रस्तरमारोह आरुह अधितिष्ठेति यावत् । आरोहणेन संस्कृता त्वमश्मेव पापाणवत्स्थिरा दृढाङ्गी भव । किं च अभि अधिकृत्य आक्रम्य तिष्ठ कान् पृतनां संग्राममिच्छन्ति पृतन्यन्ति त एवं पृतन्यतः तान्पृतन्यतः कलहकारिण इत्यर्थः । ततश्च पृतनाभिः सेनाभिर्यतन्ते इति पृतनायतः तान्पृतनायतः मव अवाचीनान्कृत्वा बाधस्त्र भग्नोद्यमान् कुरुष्व । अथ अश्मारूढायां कन्यायां वरो गाथां गीयते स्तूयते अनयेति, गानं तिष्टत्यस्यामिति वा गाथा तां गायति । अस्यार्थः । तत्र विश्वावसुरनुष्टुप् सरस्वती गाने | हे सरस्वति वैखरीवाक् सुभगे कल्याणि वाजिनीवति वाजः अन्नं तदस्ति अस्यामिति वाजिनी अन्नशाला यद्वा वाजाः पक्षाः सन्त्यस्या इति वाजिनी हंसी तद्वति, इदं युग्मं कर्म च प्राव प्रकृष्टतया अव रक्ष यां त्वा त्वाम् अस्य विश्वस्य भूतस्य जातस्य पृथिव्यादेर्वा प्रजायां प्रकृष्टां जनित्रीमाहुः मन्त्राः । किंभूतामग्रतः प्रथमां, तदेव प्रपञ्चयति यस्याभिति यस्यां प्रकृतिरूपायां त्वयि इदं सर्व विश्वं तथा भूतं पृथिव्यादि सबै जगत् अस्तं गच्छत् आस प्रलये लीनमित्यर्थः । पुनः सृष्ट्यादौ च यस्याः सकाशात् समभवत् जातं, शेषं स्पष्टम् । अथ वधूवरौ अनि परिक्रामत प्रदक्षिणं कुरुतः ' तुभ्यमग्र ' इति मन्त्रेण । मन्त्रञ्च लिङ्गाद्वरस्यैव । तस्यार्थः – तत्राथर्वणोऽनुष्टुप् अग्निः तत्मादक्षिण्ये | अग्ने तुभ्यं त्वदर्थमेव सोमादयः अग्रे पूर्वं जन्मदिनादारभ्य पर्यंवहन परिगृहीतवन्तः ततः सूर्यो नवोद्गतकान्ति पतिभ्यः सोमादिभ्यः इमां भवान्वहतु प्राप्नोतु । किं भूतः ना पुरुष: परमपुरुषार्थहेतुरित्यर्थः ऊद्वा च तां जायां जायात्वेन पुनः पश्चात्स्वभो - गानन्तरं प्रजया पुत्रैः सह मह्यं त्वं दा: देहि संधिरार्षः । एवं द्विरपरं लाजादिकर्म भवति । चतुर्थहोमे शूर्पस्य कुष्टया कोणेन सर्वान् शूर्पावशिष्टॉल्लाजान् कुमार्या अञ्जलावावपति भ्राता त भगाय स्वाहेति कुमारी जुहोति । त्रिः परिणीतामिति त्रिर्ग्रहणमितरथावृत्तिव्युदासार्थम् । इतरथावृत्तियोक्ता परिभाषायाम् विवृत्त्यावृत्य वा इतरथावृत्तिरिति । परितोऽग्नेर्नीतां परिणीतामितिपदस्य प्राजापत्यं प्रजापतये हुत्वा उदीचीं प्रक्रामयतीत्यन्वयः । प्रक्रामयिता चात्र वर एव प्रस्तुतत्वात् ॥ ७ ॥ ॥ * ॥
1
6
( हरिहर: ) -- ' अथैनाम "तनायत इति ' । अथ पाणिग्रहणानन्तरमेनां वधूमश्मानं दृषदमुत्तरतोऽग्नेब्रियमाणं दक्षिणपादेन कृत्वा आरोहयति आरोहेममित्यादिपृतनायत इतिमन्त्रेण । ' अथ गाथा गायति' अथ अश्मारोहणानन्तरं गाथां गायति । तां गायामाह ' सरस्वति....यश इति ' । इमं मन्त्रं पठति गाथागाने । ' अथ परिक्रा "सहेति ' अथ गाथायां समाप्तायामग्निं प्रादक्षिण्येन परिक्रामतो वधूवरौ, तत्र मन्त्र: ' तुभ्यमग्रे पर्यवहन्नित्यादिकस्य प्रजया सहेत्यन्तस्य मन्त्रस्य वरपठितस्यान्ते । अत्र हस्तग्रहणादिपरिक्रमणान्तेषु कर्मसु वर एव मन्त्रान्पठति । ' एवं