________________
८२
पारस्करगृह्यसूत्रम् ।
[ सप्तमी
तत्राह । भगादयस्त्रयो देवास्त्वा त्वां महामदुः दत्तवन्तः । किमर्थ गार्हपत्याय गृहस्वामिनीवाय भावि - गार्हपत्यं सेवितुं वा । किं च सौभगत्वाय सुभगानां समूहः सौभगं तस्य भावः सौभगत्वं तस्मै तदर्थम् निरतिशयानन्दावाप्तय इत्यर्थः । किभूतां त्वां पुरन्धिः पुरधिं द्वितीयार्थे प्रथमा । श्रेष्ठा सुरूपवती वा । तथाच श्रुतिः पुरन्धियोंषेति योषित्येवरूपं दधातीति । हे कन्ये यत अमो विष्णुरुद्रब्रह्माऽहमस्मि अमति सर्वत्र गच्छति सर्वं जानाति वेति, न मिनोति हिनस्तीति वा अम: तथा सौति सुवति सूते वा विश्वमिति सा लक्ष्मीस्त्वमसि । किंच सा देवीत्रयीरूपा त्वमसि ममो देवत्रयरूपोऽहमस्मि । किच अहं सामास्मि त्वं ऋगसि अहं द्यौरस्मि त्वं पृथिव्यसि तावेवावां विवहा वह विवाहं करवावहै । सह संयुक्तौ भूत्वा रेतः पुत्रदेहरूपं दधावहै धारयाव । ततः प्रजां स्त्रीरूपां संतति प्रजनयावहै उत्पादयाव | पुत्रान् पुत्रपौत्रादीन् बहून् विन्द्याव है लभावहै । ते च पुत्रा जरदष्टय : शतायुपः सन्तु । आवामपि संप्रियौ सम्यक् प्रीतौ परस्परप्रेमशालिनौ रोचिष्णू सुदीप्तौ शोभमानौ वा सुमनस्यमानौ शोभनमनोवृत्तिं कुर्वाणो सुमनसो भावः सौमनस्यं तत्कुर्वाणावित्यर्थः । सन्त्वितिक्रिया विपरिणमय्य योज्यम् । इन्द्रियपाटवमाशास्ते वयं च पुत्रादिसहिताः शतं शरदो वत्सरान्पश्येम रूपग्रहणसमर्थाः स्याम । तथा शतं शरदो जीवेम निरुपद्रवं प्राणान्धारयाम । तथैव शरदः शतं शृणुयाम निर्दुष्टं शब्दग्रहणसमर्थमस्माकं श्रवणेन्द्रियं भवत्वित्यर्थः । इति गदाधरकृते गृह्यभाष्ये प्रथमकाण्डे षष्ठी कण्डिका ॥ ६ ॥ ॥ * ॥
( विश्व० ) - कुमार्या भ्राता "सहतेन तिष्ठतीतिसूत्रम् । शमीपत्र मिश्राणि भ्रष्टानि धान्यानि कन्या भ्राता तिष्ठ॑त्याः कन्यायाः अञ्जलौ प्रक्षिपति सा च तिष्ठती मिलितेनाञ्जलिना अग्नौ जुहोतीत्यर्थः । केनेत्यत आह ' अर्यमणं देवमित्यारभ्य नुमन्यतामिय स्वाहेत्यन्तं सूत्रम् । एमिस्त्रिभिर्मत्र राहुति - त्रयं कन्या जुहोत्यञ्जलिनेत्यर्थः । विवाहप्रधानमाह - ' अथास्यै दक्षिण हस्तं गृह्णाति साङ्गुष्ठमि - त्यारभ्य शृणुयाम शरदः शतम्' इत्यन्तं सूत्रम् । अस्यै अस्याः इत्यर्थः । उद्गयन इत्याद्युपक्रम्य कुमार्याः पाणिगृह्णीयादित्यत्र लिङा पाणिग्रहणस्यैव प्राधान्यख्यापनादिह च मन्त्रकरणक पाणिग्रहस्य विधानादय पाणिग्रह: ज्योतिःशास्त्रप्रतिपाद्ये समये कर्तव्यः । अन्यत्सर्वं सूक्ष्मसमयासाध्यत्वेन समयान्तरे स्थूले कर्तव्यम् । शेषं निगद्व्याख्यातम् ॥ षष्ठी कण्डिका ॥ ६ ॥ ॥ ॥
अथैनामश्मानमारोहयत्युत्तरतोऽग्नेर्दक्षिणपादेन आरोहेममश्मानमश्मेव त्व ं स्थिरा भव । अभितिष्ठ पृतन्यतोऽवबाधस्व पृतनायत इति ॥ १ ॥ अथ गाथा गायति सरस्वति प्रेमव सुभगे वाजिनीवती । यां त्वा विश्वस्य भूतस्य प्रजायामस्याग्रतः । यस्यां भूत समभवद्यस्यां विश्वमिदं जगत् । तामद्य गाथां गास्यामि या स्त्रीणामुत्तमं यश इति ॥ २ ॥ अथ परिक्रामतः तुभ्यमग्रे पर्यवन्सूर्यं वहतु ना सह । पुनः पतिभ्यो जायां दाने प्रजया सहेति ॥ ३ ॥ एवं द्विरपरं लाजादि ॥ ४ ॥ चतुर्थ शूर्पकुष्ठया सर्वां - लाजानावपति भगाय स्वाहेति ॥ ५ ॥ त्रिः परिणीतां प्राजापत्यर्ट हुत्वा ॥ ६ ॥ ७ ॥ ॥ ॥