________________
कण्डिका]
प्रथमकाण्डम् । सम्यक् प्रीतौ परस्परं प्रेमशालिनौ रोचिष्णू सुदीप्तौ शोभमानौ वा सुमनस्यमानौ शोभनमनोवृत्ति कुर्वाणौ सुमनसो भावः सौमनस्यं सुमनस्यं वा तत्कुर्वाणावित्यर्थः । (आस्वे ? असावे ) ति संतुक्रियां योज्यम् । इन्द्रियपाटवमाशास्ते त्रयं च । पुत्रादिसहिताः शतं शरदो वत्सरान्पश्येम रूपग्रहणसमर्थाः विपरिणमय्य (आस्म, ? असाम ) तथा शतं शरदो जीवेम निरुपद्रुतं प्राणान्धारयाम, तथैव शरदः शतं शृणुयाम निर्दुष्टं शब्दप्रहणसमर्थमस्माकं अवणेन्द्रियं भवत्वित्यर्थः ।। ६ ।। ।।*॥
( हरिहरः )-'कुमार्या..."तिष्ठती' । कुमार्याः कन्यायाः भ्राता शमीपलाशमिश्रान् शमीपत्रयुक्तान् लाजान भ्रष्टानि धान्यानि अञ्जलिना कृत्वा वध्वा अञ्जलौ आवपति निक्षिपति तान् जुहोति सा च अञ्जलिस्थान लाजान् संहतेन भिलितेनाञ्जलिना जुहोति वियाहाग्नौ प्रक्षिपति तिष्टती ऊर्ध्वा । ' अर्यमणं...."स्वाहेति । अर्यमणं देवमिति प्रथमम्, इयन्नायुपत इति द्वितीयम्, इमाँलाजानावपामीति तृतीयम् । अथास्यै...'शतमिति' । अथ लाजाहोमानन्तरं अस्यै अस्याः कुमार्या दक्षिणं हस्तं गृह्णाति स्वदक्षिणहस्तेन आदत्ते । कीदृशं हतं साङ्गुष्टं अङ्गुष्टेन सहितं गृभ्णामि ते सौभगत्वायेत्यादि शृणुयाम शरदः शतमित्यन्तं मन्त्रं पठति वरः । इति हरिहरभाष्ये प्रथमकाण्डे पष्ठी कण्डिका ॥ ६॥ ॥ॐ॥
(गदाधरः)-'कुमार्या' ..'वपति' । कुमार्याः कन्याया वध्या भ्राता शमीपत्रमिश्रितान् लाजानञ्जलिना कन्यायाः अञ्चलौ आवपति प्रक्षिपति लाजशब्देन भ्रष्टव्रीय उच्यन्ते । 'ता
जुहोति....."स्वाहेति' ततः कुमारी तिष्टती ऊर्वा ताल्लाजान् स्वाञ्चलौ स्थितान् सठन्हतेन अविरलाङ्गुलिना अर्यमणमित्यादित्रिभिमन्त्रैर्जुहोति । अविच्छिन्दत्यचलि सुचेव जुहुयादित्याश्वलायनः । तत्रैकैकेन मन्त्रेण प्रक्षिप्तलाजानां तृतीयांशं तृतीयांशं जुहोति । एवं च होमत्रयं भवति । अत्र कारिकाकारः तिष्ठन्त्यास्तिष्टता पत्या गृहीताञ्जलिनैव सा । अञ्जलिस्थांत्रिधा सर्वान् प्राङ्मुखी प्रतिमन्त्रतः।।प्राजापत्येन तीर्थेन देवेनैवेति वहचाः । अन्यो भ्रातुरभावे स्याद्वान्धवो जातिरेव च ' इति ।भ्राता भ्रातृस्थानो वेत्याश्वलायनगृह्ये । 'भ्रातृस्थाने पितृव्यस्य मातुलस्य च यः सुतः । मातृष्वसुः सुतस्तद्वत्सुतस्तद्वपितृष्वसुः' इति वचकारिकायाम् । द्रव्यत्यागे तु वरस्य कर्तृत्वं प्रधान स्वामी फलयोगादित्युक्तत्वात् । मन्त्रार्थः कन्याः पूर्वाः प्रथममर्यमणं सूर्य देवं कान्तम् अग्निमग्निस्वरूपं वरलाभाय अयक्षत अयजन् । लिङि छान्दसं रूपम् । स चार्यमा देवस्तामिरिष्टो यतोऽतो नोऽस्मान् इदानींपरिणीयमानाः कन्याः, इतः पितृकुलात् प्रमुञ्चतु प्रमोचयतु मा पतेः पत्यु: कुलात्सहचरित्वाद्वा मा प्रमोचयतु । यद्वा वरो ब्रूते कन्याः यम् अर्यमणमग्निरूपेणायजन् सोऽयमा देवः पतेः पत्युमत्तः सकाशादिमां नो प्रमुञ्चतु मा प्रमोचयतु इत अस्याः कन्यायाः सकाशान्मा मां नो प्रमुश्चतु । अत्रेदं मन्नत्रयं कन्यैव वरपाठिता पठति । इयं नारी वधूः उप पत्युःसमीपे ब्रूते । किं कुर्वती लाजान् भ्रष्टत्रीहीन आवपन्तिका अग्नौ विभागशः प्रक्षिपन्ती स्वार्थे कः । किं ब्रूते तदाह-मे मम पतिरायुष्मान् सकलदीर्घायुरस्तु भवतु । मम ज्ञातयः एषन्तां वर्द्धन्तामिति । किं च हे पते इमाननौ आवपामि प्रक्षिपामि । किं. भूतान् तव समृद्धिकरणं समृद्धिहेतवे अतो मम कन्यायाः तुभ्य च तव च भर्तुः मलोपश्छादसः, संवननं वशीकरणमन्योन्यमनुरागः तदयमग्निरर्यमा अनुमन्यतामनुमोदन कुरुताम् । इयं च स्वाहा तत्पत्नी अनुमन्यताम् । 'अथास्यै ...""शतमिति ' अस्यै इति , चतुर्थी षष्ठ्यर्थे, अस्याः कुमार्याः दक्षिणं साङ्गुष्ठमङ्गुष्ठसहितं हस्तं गृह्णाति वरः स्वहस्तेनादत्ते गृभ्णामि ते इतिमन्त्रेण । अथशब्दोऽत्र स्वस्थाने तिष्ठता कर्तव्यमिति द्योतनार्थः । मन्त्रार्थ:-हे कन्ये ते तव हस्तं करं गृभ्णामि गृहामि । 'हग्रहोर्भश्छन्दसि ' इति भत्त्रम् । यथा येन गृहीतहस्तेन मया पत्या भर्ना सह जरदष्टिः जरच्छरीरा वहुवर्षायुष्मत्ती आसः भवतीत्यर्थे निपातः । ग्रहणमेव तावत्कृत्यं(?)
११