________________
षष्ठी
पारस्करगृह्यसूत्रम् । जरदष्टयः संप्रियौ रोचिष्णू सुमनस्यमानौ पश्येम शरदः शतं जीवेम शरदः शतठ शृणुयाम शरदः शतमिति ॥ ३ ॥ ७ ॥ ६ ॥
(कर्क:)-'कुमार्या भ्रा'..,"तिष्ठती । संहतेनाञ्जलिना तिष्ठती प्रतिमन्त्रं लाजान् जुहोति । अर्यमणं देवमित्येवमादिभिर्मन्त्रैः । तान् जुहोतीति वचनात्तुरीयायां वेलायां सर्वहोमः । अथास्यै...'गृभ्णामि त । इति । अनेन मन्त्रेण । अस्यै इति चतुर्थी पष्ठयों ॥ ६॥ ॥ * ॥
(जयरामः )-'कुमार्या भ्राता इति । स्वाञ्जलिना कुमार्या अखलौ आक्पत्ति प्रक्षिपति । सा च संहतेन मिलितेनाञ्जलिना तिष्ठतीति तिष्ठन्ती तान् लाजान् चतुर्थाशमितान् जुहोति । अर्यमणं देवमित्येवमादिभिर्मन्त्रैः प्रतिमन्त्रं तान् जुहोतीति वचनात् तृतीयवेलायामञ्जलिस्थसर्वहोमः । चतुर्थ शूर्पकुष्ठयेति शूविशिष्टानां सर्वहोमस्य वक्ष्यमाणत्वात् । आवपनं तु सकृदेव आवृत्तेरश्रवणात् । अथ मन्त्रार्थः तत्राथर्वणोऽनुष्टुप् अग्निाजहोमे । एवं त्रयाणामपि । कन्यायाः पूर्वः प्रथममर्यमणं सूर्य देवं कान्तमग्निमग्निस्वरूपं वरलाभाय अयच्छत् अयजत् । लिडि छान्दसं रूपम् । स चार्यमा देवस्ताभिरिष्टो इतो नोऽस्मान् इदानीं परिणीता कन्या इतः पितृकुलात् प्रमुश्चतु प्रमोचयतु मा पतेः पत्युः कुलत्वात्सहचरीत्वाद्वा मा प्रमोचयतु । यद्वा वरो ब्रूते । कन्येयमर्यमणमग्निरूपेणायजत् । सोर्यमा देवः पतेः पत्युः मत्तः सकाशात् इमा नो प्रमुञ्चतु मा प्रमोचयतु । इतः अस्याः कन्यायाः सकाशात् मा मां नो प्रमुञ्चत्विति । अत्रेदं मन्त्रत्रयं कन्यैत्र वरपाठिता पठति । इयं नारी वधूः उप पत्युःसमीपे ब्रूते । कि कुर्वती लाजान भ्रष्टत्रीहीन आवपन्तिका अग्नौ विभागशः प्रक्षिपन्ती स्वार्थे कः । किं ब्रूते तदाह-मे मम पतिरायुष्मान् सकलदीर्घायुरस्तु भवतु मम ज्ञातयो बान्धवा एधन्तां वर्द्धन्तामिति । कि च हे पते इमाल्लाजान् अग्नौ आवपामि प्रक्षिपामि किभूतान तव समृद्धिकरणं समृद्धिहेतूनित्यर्थः । अतो मम कन्यायाः तुभ्य च तव च भर्तुः मलोपश्छान्दसः । संवननं वशीकरणमन्योन्यमनुरागः तदयमनिरयेमा अनुमन्यताम् अनुमोदनं कुरुताम् । इयं च स्वाहा तत्पत्नी अनुमन्यताम् । अथास्य अस्याः पष्टयर्थे चतुर्थी । हस्तं साङ्गुष्ठं गृभ्णामीति मन्त्रेण वरो गृह्णाति । अथ मन्त्रार्थः-तत्र याज्ञवल्क्यस्त्रिष्टुप् लिसोक्ता हस्तग्रहणे । हे कन्ये ते तव साङ्गुष्ठं हस्तं करं गृभ्णामि गृह्णामि हृयहोर्भश्छन्दसि इति भत्नम् । यथा येन गृहीतेन हस्तेन मया पत्या सह जरदष्टिः जरच्छरीरा बहुवर्षायुष्मती आसः भवसीत्यर्थे 'निपातः । ग्रहणमेव तावत्कृत्यं तत्राह भगादयस्त्रयो देवास्त्वा त्वां मह्यमदुः इत्तवन्तः । किमर्थ गार्हपत्याय गृहस्वामिनीत्वाय भाविगार्हपत्यं सेवितुं वा । किच सौभगत्वाय सुभगानां समूहः सौभगं तस्य भावस्तत्वं तस्मै तदर्थ निरतिशयानन्दावाप्तये इत्यर्थः । किंभूता त्वाम् पुरन्धिः पुरन्धिम् द्वितीयार्थे प्रथमा । श्रेष्ठां सुरूपवती वा । तथा च श्रुतिः-पुरन्धियोंषेति योपित्येव रूपं दधातीति । (भगत्वादिविशेपणैरेव विशिष्टार्थनिष्पादकत्वद्योतनार्थम् ) । अमोहमिति भरद्वाज उष्णिक विष्णुर्हस्तग्रहणे । हे कन्ये यत: अमो विष्णुरहमस्मि अमति सर्वत्र गच्छति सर्व जानाति वेति, न मिनोति हिनस्तीति वा अमः, तथा सौति सुवति सूते वा विश्वमिति सा लक्ष्मीस्त्वमसि । किंच सा देवी त्रयीरूपा त्वमसि अमो देवत्रयरूपोऽहमस्मि किंच अहं सामास्मि त्वं च . गसि अहं द्यौरस्मि त्वं च पृथिव्यसि तद्गणाश्रितावावामित्यर्थः । 'ताविति' अथर्वणोऽनुष्टुप् विष्णुहस्तग्रहणे । तावेव आवां विवहावहै विवाह करवावहै । सह संयुक्तो भूत्वा रेतः पुत्रदेहरूपं दधाव धारयाव । ततः प्रजां पुत्रं प्रजनयावहै तत्पुत्रान् पुत्रपौत्रादीन् वहून् विन्द्यावहै लभावहै । ' सन्विति । प्रजापतिर्यजुर्विष्णुर्हन्तग्रहणे । ते च पुत्रा जरदृष्टयः शतायुपः सन्तु आवामपि सप्रिया