________________
कण्डिका]
प्रथमकाण्डम् । दिति वचनात् ' आवापे येन कर्मणा यत्फलं साधयेत् तत्फलकामः तस्मिन् कर्मणि तत्कर्म आवपेदित्यर्थः । अपरे तु जानन्नित्यमुं शब्दं विकल्पार्थमाहुः । ईसेंदित्यस्यार्थ ऋद्धिमिच्छेदिति । जयाहुतीनां देवताः प्राह-'चित्तं च चितिश्चाकूतंचाकूतिश्चेत्यादि स इ हव्यो बभूव स्वाहेत्यन्तं सूत्रम् । प्रयोगश्चैवं-चित्ताय स्वाहा । इदं चित्ताय । चित्यै स्वाहा । इदं चित्यै । एवमन्यत्र । आकूताय स्वाहा । आफूत्यै स्वाहा । विज्ञाताय स्वाहा । विज्ञात्यै स्वाहा । मनसे स्वाहा शकयै स्वाहा । दर्शाय स्वाहा । पौर्णमासाय स्वाहा।वृहते स्वाहा । रथन्तराय स्वाहा । प्रजापतिर्जयानिन्द्राय वृष्णे प्रायच्छदुनः पृतना जयेपु । तस्मै विशः समनमन्त सर्वाः स उग्रः स इ हव्यो बभूव स्वाहेति । इदं प्रजापतय इति त्यागः । अथाभ्याताना:-अग्निभूतानामधिपतिःस मावविन्द्रो ज्येप्टानामित्यादिदेवहूत्या५ स्वाहेत्यन्तं सूत्रम्। एभिरष्टादशसंख्याकैर्मन्त्रैरभ्यातानसंज्ञका आहुतीर्जुहुयादित्यर्थः । “सर्वत्रानुपजति' अग्निभूतानामित्याद्यष्टादशमन्त्रेषु प्रतिमंत्रं यथालिंग स मावत्वस्मिन् ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मण्यस्यां देवहूत्यार स्वाहेत्यनुपङ्गं करोत्यर्थः । प्रयोगश्चैवम्-अग्निभूतानामविपतिः स माक्त्वस्मिन्त्र० देवहूत्या स्वाहा इदमग्नये भूतानामधिपतये १॥ एवमन्यत्र । त्यागस्तु इदमिन्द्राय ज्येष्ठानामधिपतये २ ॥ इदं यमाय पृथिव्या अधिपतये ३ ॥ इदं वायवेऽन्तरिक्षस्याधिपतये ४ ॥ इदं सूर्याय दिवोऽधिपतये ५ ॥ इदं चन्द्रमसे नक्षत्राणामधिपतये ६ ॥ इदं वृहस्पतये ब्रह्मणोधिपतये ७॥ इदं मित्राय सत्यानामधिपतये ८॥ इदं वरुणायापामधिपतये ९॥ इदं समुद्राय स्रोत्यानामधि. पतये १० ॥ अन्नर साम्राज्यानामत्रानुपनविशेपः अधिपति वन्मावविति । इदमन्नाय साम्राज्यानाम धिपतये ११ ॥ इदर सोमायौपधीनामधिपतये १२ ॥ इद सवित्रे प्रसवानामधिपतये १३ ॥ इदं रुद्राय पशूनामधिपतये १४ ॥ इदं त्वष्ट्रे रूपाणामधिपतये १५ ।। इदं विष्णवे पर्वतानामधिपतये १६ ॥ मरुतो गणानामत्रापि विशेषः गणानामधिपतयस्ते मावन्त्वस्मिन्निति, इदं मरुद्भ्यो गणानामधिपतिभ्यः १७ ॥ इदं पितृभ्यः १८ ॥ इत्यभ्यातानहोमः । ' अग्निरैत्वित्यारभ्य परं मृत्यविति चैके प्राशनान्त। इत्यन्तं सूत्रम् । अग्निरैतु, इमामग्निः, स्वास्तिनो अग्ने, सुगन्नुपन्था, परं मृत्यो एभिः पञ्चमन्त्रैः पञ्चाहुतीर्जुहुयादित्यर्थः । त्यागः इदमग्नये ३ इदं वैवस्वताय ४ इदं मृत्यवे ५ एके परं मृत्यविति पञ्चमीमाहुतिं प्राशनान्त इच्छन्ति ।। इति पञ्चमी कण्डिका ।। ५॥ ॥ * ॥
कुमायाँ भ्राता शमीपलाशमिश्राँल्लाजानञ्जलिनाञ्जलावावपति ॥ १ ॥ ताजुहोति सठन्हतेन तिष्ठती अर्यमणं देवं कन्याऽऽग्निमयक्षत । सनो अर्थमा देवः प्रेतो मुञ्चतु मा पतेः स्वाहा । इयं नायुपते लाजानावपन्तिका। आयुष्मानस्तु मे पतिरेधन्तां ज्ञातयो मम स्वाहा । इमाँल्लाजानावपाम्यग्नौ समृद्धिकरणं तव । मम तुभ्य च संवननं तदग्निरनुमन्यतामिय स्वाहेति ॥ २ ॥ अथास्यै दक्षिणर्छ हस्तं गृह्णाति साङ्गुष्ठं गृभ्णामि ते सौभगत्वाय हस्तं मयापत्या जरदष्टिर्यथा सः । भगोऽऽर्यमा सविता पुरन्धिर्मह्यं त्वाऽदुर्गार्हपत्याय देवाः । अमोऽहमस्मि सा त्वठ सा त्वमस्यमोऽहम् । सामाहमस्मि ऋक्त्वं धौरहं पृथिवी त्वं तावेहि विवहावहै सहरेतो दधावहै प्रजां प्रजनयावहै पुत्रान्विन्द्यावहै बहून ते सन्तु