________________
पारस्करगृह्यसूत्रम् ।
[पञ्चमी ज्ञानाधारं हृदयम् , चित्तिस्तत्रत्या चेतना, आकूतं चाभिमतम् , आकूतिश्चाभिमानः । यद्वा चित्तं ज्ञानेन्द्रियं जातादेकवचनं चित्तिस्तद्देवता आकूतं कर्मेन्द्रियम् आकूतिस्तद्देवता । विज्ञातं शिल्पादिज्ञानम् विज्ञातिमपरोक्षम् । मनः प्रसिद्धं, शकरीः शकर्यः तच्छक्तयः । दर्शपूर्णमासौ तद्देवते । वृहद्रथन्तरे सामनी तद्देवते वा । प्रथममन्त्रोक्तवाक्यार्थः सर्वत्र संबध्यते । 'प्रजापतिरिति परमेष्ठी० त्रिष्टुप्० इन्द्रो. जयाहोमे० । प्रजापतिः परमेश्वरः । जयन्ति शनिति जयान मन्त्रानिन्द्राय प्रायच्छद्ददौ किमर्थम् वृष्णे अभिमतार्थवर्षणाय । इन्द्रविशेषणं वा । ततः स इन्द्रः पृतनाजयेपु सेनाविज. याख्यकर्मसु उग्रः प्रचण्डो वभूव । कि च ततस्तस्मै इन्द्राय सर्वाविशः प्रजाः समनमन्त सम्यक्नेमुः । स इ इन्चार्थे सचेन्द्रो हव्यः हवनीय इन्य इति यावत् बभूव स्वाहा तस्मै सुहुतमस्तु । तथा च तैत्तिरीया श्रुतिः। स इन्द्रः प्रजापतिमुपाधावत्स तस्मा एताजयान्प्रायच्छत् तान् अजुहोत् । ततो देवा असुरानजयन्त यदजयस्तज्जयानां जयात्वमिति । 'अग्निभूतानामिति' एवमादिष्वधिपतिः समावत्विति सर्वत्रानुषड्ः अस्मिन्ब्रह्मन्नित्यादेश्व। एवमेव स्मर्यत इति । एवं च सत्यन्न साम्राज्यानामधिपति मरुतो गणानामधिपतय इति च विशेषेणैव पाठः । अग्निभूतानामित्यष्टादश मन्त्रा अभ्यातानसंज्ञाः । तथा च श्रुतिः-यद्देवा अभ्यातानैरसुरान् अभ्यातन्वत तदभ्यातानानामभ्यातानत्वमिति । अभ्यातन्वत आयुधानि प्राहिण्वत । अथ मन्त्रार्थः । तत्रानिरित्यष्टादशानां प्रजापतिः पङ्किलिडोक्ता अभ्यातानहोमे । अग्निः प्रजापतिः भूतानास्थावरादीनामधिपतिरीशः स मा माम् अवतु पातु क अस्मिन् ब्रह्मन् ब्रह्मणि लुपसप्तम्यन्तं ह्येतत् । अस्मिन्ब्रह्मकर्मणि होमादौ पुनरस्मिन्क्षत्रे क्षत्रकर्मणि प्रजापालनादौ पुनरस्यामाशिषि ब्राह्मणैः संपादितेष्टाशंसने, पुत्रादिसुखकामनायां वा कुत्र अस्यां कन्यायां, किंभूतायां ? पुरोधायां पुरःस्थितायाम् । अस्मिन्कर्मणि विवाहे अस्यां देवहूत्याम् देवताहाने देवतोदेशेन होमे वा स्वाहा सुहुतमस्तु । अयं च वाक्यार्थ उपरिष्टादपि सप्तदशसु संवध्यते शिष्टं स्पष्टम् । ततो अग्निरैत्वित्यादि परं मृत्यवित्यन्तैश्च मन्नोमः कार्यः । अथ मन्त्रार्थः । तत्र चतुर्णा प्रजापतिस्त्रिष्टुप् लिङ्गोक्ता आज्यहोमे । अग्निः ऐतु आ एतु आगच्छतु । कि भूतः देवतानां यज्ञभुजां प्रथम आद्यः प्रधानत्वात् । सचाग्निः अस्यै अस्याः कन्यायाः प्रजा भाविपुत्रादिरूपां मुञ्चतु मोचयतु कुतः मृत्युपाशात् यद्वा मृत्युपाशान् अत्ति भस्मीकरोतीति मृत्युपाशात् । अस्यै कन्याय प्रजां मुञ्चतु ददातु । तच प्रजामोचनं राजा वरुणोऽनुमन्यतामनुजानातु । यथा येनानुज्ञानेन प्रकारेण च इयं कन्या पौत्रं पुत्रभवम् अचं दुःखं नरोदात् नरोदिति । अस्यै अस्याः प्रजाः दीर्घमायुः निर्दुष्टबहुकालजीवनं नयतु प्रापयतु । इयं च अशून्योपस्था सफलप्रसवा अवन्ध्यात्वायेति यावत् अवन्ध्योत्सना वा अस्तु भवतु । जीवतामेव दीर्घायुपां माता चास्तु जीवपुत्रा भववित्यर्थः । किं च पौत्रं पुत्रसंवन्धनम् आनन्दं सुखसंदोहम् अभि अधिगम्य आभिमुख्येन सर्वभावेन वा प्राप्य विविधं बुध्यतां जानातु सर्वज्ञाऽस्वित्यर्थ. । यद्वा पौत्रमानन्दं प्राप्य विशिप्रतया बुध्यतां निद्रासुखापेक्षा त्यक्त्वा जागविति । हे अग्ने यजन्तं वायत इति है चनत्र । यस्गत्वं सर्वप्रत्यक् अतो नोऽस्माकं विश्वानि सर्वाणि कर्माणि अयथा अन्यया वा कृतानि प्रतिपिद्धत्वेन प्रतिकूलानि वा तानि स्वस्ति यथा स्यात्तथा घेहि अनुकूलानि कृत्वा स्थापय । किंच दिव आ स्वर्गमभिन्याप्य आ पृथिव्याः पृथिवीमभिव्याप्य च चन्महि महिमा तमस्मासु धेहि स्थापय। किंच अस्यां थिव्यां जातं यत् दविणं वसु चित्रं नानारूपं स्वर्णरत्नादिभेदेन प्रगस्तं पवित्रं यत्र दिवि स्वर्ग मृतादि तदप्यमासु घेहि । हे अग्ने नोऽस्मान् एहि आगच्छ अस्मगृहानागत्य नोऽस्माकं सु१ सर्वग पन्धानम् अचिरादिमार्ग प्रदिशन् उपदिशन संपादयन्निति यावत् , आयु: निर्दुष्टनी। दहि । किभूतम् अवरम् जरारोगादिपराभवरहितम् । अजरमित्यग्निविशेषणं