________________
कण्डिका]
प्रथमकाण्डम् । रिष्टात् । एतच्चतुर्दशाहुतिकं नित्यं सर्वकर्मसु भवति यत्र यत्र होमोऽस्ति । यथा घृतात्तानि कुशेण्ड्वानि जुहुयादिति । यत्र पुनहोंम एव नास्ति यथा स्रस्तरारोहणे लागलयोनने च तत्रैतन्न भवति । 'प्राइमहा...."ज्याद्धविः । यत्राज्यव्यतिरिक्तमन्यदपि हविर्भवति तत्र महाव्याहृतिहोमात्प्राक् स्विष्टकृद्धोमः यथा पक्षादाविति । ' सर्वप्रा...."विवाहे । आगन्तुकत्वादन्ते निवेशो माभूदिति सूत्रमारब्धम् । राष्ट्रभृत इच्छन् । विवाह एव जुहोति । 'जया..."जानन् । चित्तं च चित्तिश्चेत्येवमादि-प्रजापतिर्जयानिन्द्रायेत्येवमन्ता जयाः मन्त्रलिङ्गात् । शेपा अभ्याताना मन्त्राः । एतॉश्च इच्छन्नेव जुहोति । जानञ्छब्दो विकल्पार्थः । चशब्दो राष्ट्रभृद्धिः संनियोगार्थः । चित्तं च चित्तिश्चेत्यत्र केचिचतुर्थ्यन्तेन प्रयोगमिच्छन्ति । तद्युक्तम् । न तानि देवतापदानि किं तर्हि मन्त्रा एव, मन्त्राणां च यथाऽऽन्नातानामेव प्रयोग इष्यते इति । जयाभ्यातानांश्वेच्छया जुहोतीति कुत एतत् । ' येन कर्मणेर्सेदिति वचनात् । येन कर्मणाऋद्धिमिच्छेत्तत्र जयान् जुहोतीति वचनं भवति । अतश्चान्यत्रापि ऋद्धिमिच्छता जयाहोमः कर्तव्य इति गम्यते । अग्निभूतानामित्येवमादिष्वधिपतिः समावत्विति सर्वत्रानुपनः । एवमेव स्मर्यते इति । एवञ्च सति अन्न साम्राज्यानां मरुतो गणानामिति च विशेषेणैव पाठः, पितरः पितामहा इत्येवमादि परं मृत्यविति चैक इति यावत्सूत्रम् । एतैश्च मन्त्रैहोंमः कर्तव्य इति । एके प्राशनान्ते परं मृत्यविति जुह्वति । एवमपि हि स्मर्यत इति ॥ ५॥ ॥ॐ॥.
(जयरामः )-'प्रदक्षिणमग्निम् । अग्नि प्रदक्षिणं कृत्वाऽऽनीय कन्यां वासःपरिधापनादिन कुर्वन्त्येक आचार्याः एके नेति विकल्पः । अग्नेः पश्चात्तेजनी तृणपूलकं कटं वा प्रसिद्धं तयोरन्यतरं दक्षिणपादेन प्रवृत्य आक्रम्य तदुपरि पादं कृत्वेति यावत् , उपविशति वरः अन्वारन्धो ब्रह्मणा संस्पृष्टः। आघारौ पूर्वोत्तरौ उत्तराधारे प्रतिनिगद्य होमत्वम् , नात्र मन्त्रोऽस्ति । आध्यभागी आग्नेयसौम्यो महाव्यातयस्तिस्रो भूर्भुवः स्वरिति । त्वन्नो अग्न इत्यादिमन्त्रपञ्चकं सर्वप्रायश्चित्तं, प्राजापत्यं प्रजापतिदेवत्यो होमः, स्विष्टकृत् अग्नये खिष्टकृते स्वाहेत्युपरिष्टावक्ष्यति । एतच्चतुर्दशाहुतिकं नित्यं सर्वकर्मसु भवति यत्र यत्र होमोऽस्ति , यथा घृताक्तानि कुशेण्ड्वानि जुहुयादिति । यत्र पुनः त्रस्तरारोहणलाइलयोजनादौ होमो नास्ति तत्रैतन्न भवति । 'प्राड्महाव्याहृतिभ्य इति' यत्राज्यव्यतिरिक्तमन्यद्धविर्भवति पक्षादाविव तत्र महाव्याहृतिहोमायाक् स्त्रिष्टकृद्धोमः अन्यत्र सर्वाहुत्यन्ते । सर्वप्रायश्चित्तेतिसूत्रारम्भो राष्ट्रभृदादीनामागन्तुकत्वादन्ते निवेशो मा भूदिति । तेन सर्व प्रायश्चित्तं त्वन्नो अग्ने इत्यादिमन्त्रपञ्चकं प्राजापत्यं तद्देवत्यो होमः तयोरन्तरं मध्यं वक्ष्यमाणहोमस्य स्थानं विवाहे एव दर्शितम् । राष्ट्रभृतः ऋताषाडित्यादिद्वादशमन्त्रानिच्छन्नपि विवाहे एव जुहोति । 'जयाभ्यातानॉश्च' मन्त्रलिङ्गाचित्तं च चित्तिश्चेत्यादि प्रजापतिर्जयानिन्द्रायेत्येवमन्ता जयामन्त्राः, शेषा अभिभूतानामित्यादयोऽभ्यातानसंज्ञाः, ते च ते च तॉश्वेच्छन्नपि विवाहे एव जुहोति । जान
शब्दो विकल्पार्थः । चशब्दो राष्ट्रभृद्धिः संनियोगार्थः । जयाभ्यातानान् स्वेच्छया जुहोतीति कुत: ? येन कर्मणा ईर्सेत् भाद्धिमिच्छेत्तत्र जयान् जुहुयादिति वचनमस्ति । ततश्चान्यत्रापि ऋद्धिमिच्छता जयाहोमः कार्य इति गम्यते । ' चित्तंचेति । अत्र केचिचतुर्थ्यन्तेन प्रयोगमिच्छन्ति तद्युक्त, नह्येतानि देवतापदानि कितु मन्त्रा एव मन्त्राणां च यथाम्नातानामेव प्रयोग इष्यते इति । स्वाहाकारस्त्वन्ते भवत्येव । स्वाहाकारप्रदाना इति श्रुतेः । त्यागे तु भवत्येव चतुर्थ्यन्तम् अमन्त्रत्वात्त्यागस्य । अथ मन्त्रार्थः । चित्तमित्यादिद्वादशमन्त्राणां परमेष्टी० यजुः० लिड्डोक्ता जयाहोमे । चित्तं चेति प्रजापतिर्यथेन्द्राय जयान् प्रायच्छत् चकारोऽप्यर्थः, तथा चित्तादि च मह्यमपि प्रयच्छत्विति क्रियां विपरिणमय्योत्तरत्र संवन्धः । तस्मै च सुहुतमस्तु । तत्र चित्तं