________________
कण्डिका
प्रथमकाण्डम् । वा आयुः पुष्यन्नित्यर्थः । पुनः किंभूतम् ज्योतिष्मत् प्रकाशकम् ऊर्जस्करमित्यर्थः । तत्प्रतिषन्धको मृत्युरपि नोऽस्माकं भवत्प्रसादादपैतु अपगच्छतु । अमृतम् आनन्दं च नोऽस्मान् आगात् आगच्छतु । वैवस्वतो यमश्च नोऽस्माकमभयं त्वत्संवन्धन पापाभावाहुःखहेतुभयाभावं कृणोतु करोतु । परं मृत्यविति च जुहोति । एके परं मृत्यविति प्राशनान्ते जुह्वति तेन विकल्पः । तत्र संकसुकस्त्रिष्टुप् मृत्युराज्यहोमे विनियोगः ॥ ५॥ ॥ * ॥
(हरिहरः)-'प्रदक्षि...."णीयक ' एके आचार्याः अग्नेः प्रदक्षिणं कारयित्वा वास:परिधानं समंञ्जनं समीक्षणं च मन्यन्ते एके न मन्यन्ते ततो विकल्पः । ‘पश्चाद"त्योपविशति । समीक्षणानन्तरमग्निं प्रदक्षिणीकृत्याग्नेः पश्चिमतः प्राड्मुख उपविशति दक्षिणतो वरस्य वधूः । किं कृत्वा दक्षिणपादेन तेजनी तृणपूलिकां कटं वा तृणमयं त्रस्तरं प्रवृत्य प्रक्रम्य उल्लङ्घयेत्यर्थः । दक्षिणपादेनोल्लङ्घयन् चलन् चलित्वा उभयोः संस्कार्यत्वात्सवधूकः । ' अन्वार'... 'सर्वत्र' अत्र वैवाहिकहोमप्रसङ्केन सर्वकर्मसाधारणी परिभाषां करोत्याचार्यः । तद्यथा ब्रह्मणा दक्षिणवाही दक्षिणहस्तेन अन्वारब्धे कर्तरि आघारसंज्ञके आज्याहुती यथा मनसा प्रजापतये स्वाहा इदं प्रजापतये मनसा त्यागमपि, इन्द्राय स्वाहा इदमिन्द्राय । आज्यभागौ आज्यभागसंज्ञको होमौ यथा अग्नये स्वाहा इदमग्नये सोमाय स्वाहा इदं सोमाय । महाव्याहृतयः भूराद्यास्तितः यथा ॐ भूः स्वाहा इदमन० इदं भूरितिवा त्यागः । तथैव ॐ भुवः स्वाहा इदं वाय० इदं भुव इति वा । ॐ स्वः स्वाहा इदं सूर्याय इदं स्वरिति वा । सर्वप्रायश्चित्तसंजकाः पञ्चाहुतयः । यथा त्वन्नो अग्न इत्यादि प्रमुमुग्ध्यस्मत्स्वाहा । सत्वन्नो अग्ने० सुहवो न एधि स्वाहा इदमनीवरुणाभ्यां । द्वाभ्यां त्यागः । अयाश्चाग्नेस्यनभिशस्तिपाञ्च सत्यमित्वमया असि । अयानोयजं वहास्ययानोधेहि भेपजथं स्वाहा इदमग्नये अयसे । ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभिन्नों अद्य सवितो. ऽतविष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यश्च न मम । उदुत्तममित्यादि अदितये स्याम स्वाहा इदं वरुणाय० । प्राजापत्यं प्रजापतिदेवताको होमः यथा प्रजापतये स्वाहा इदं प्रजापतये० । स्विष्टकृञ्च स्विष्टकृद्धोमः यथा अग्नये स्विष्टकृते स्वाहा इदमग्नये स्विष्टकृ० चकारः सर्वसमुच्चयार्थः । एतन्नित्यर्छ सर्वत्र । एतदाधारादिस्विष्टकृदवसानं सर्वत्र सर्वे होमात्मकेपु कर्मसु नित्यं, यत्र होमाभावस्तत्र नास्ति । यथा स्रस्तरारोहणलागलयोजनपायसव्राह्मणभोजनेषु । अन्ते विहितस्य स्विष्टकृद्धोमस्य कर्मविशेष स्थानान्तरमाह 'प्रामहा... 'ज्याद्धविः । । महाव्याहृतिभ्यः प्राक् पूर्व स्विष्टकृद्धोमो भवति चेद्यदि आज्यात्सकाशादन्यदपि चरुप्रभृति हविर्भवति । केवलाज्ययागे साहुतिशेषे भवति । ' सर्वप्रा....."वाहे । सर्वप्रा. यश्चित्तं त्वन्नो अग्न इत्यारभ्य उदुत्तममित्यन्तमाहुतिपञ्चकम् । प्राजापत्यः प्राजापत्याहुतिः सर्वप्रायश्चित्तं च प्राजापत्यश्च सर्वप्रायश्चित्तप्राजापत्यौ तयोरन्तरम् सर्वप्रायश्चित्तप्राजापत्यान्तरम् एतदावापस्थानं कस्मिन्कर्मणि विवाहे । आवापस्थानम् आवापश्चान्यत्र विहितस्य होमजपादेः कर्मणः कर्मान्तरे प्रक्षेपः । आवापस्य आगन्तुकत्वेन अन्ते निवेशो युक्तः न्यायात् तन्निवृत्त्यर्थं तमेवाह । 'राष्ट्रभृत इच्छन् । विवाहे वैवाहिके होमकर्मणि राष्ट्रभृतः राष्ट्रभृत्संज्ञकाः आहुतीः आवपेदित्यध्याहारः । जयाभ्यातानॉश्च' जयाश्च अभ्यातानाश्च जयाभ्यातानाः तान् जयाभ्यातानॉन्च आवपेत् । किंकुर्वन् इच्छन् राष्ट्रभृजयाभ्यातानानां होमफलं कामयन् । किं प्रमाणमितिचेत् 'जानन्येन....'वचनात् । येन कर्मणा अस्मिन्कर्मणि ओप्य तेन यत्फलं भवतीति जानन् विदन तकर्मफलमिच्छेस्तस्मिन् कर्मणि तत्कर्म आवपेदिति वचनात् श्रुतेरित्यर्थः । तत्र राष्ट्रभृतो यथा । तापाड् ऋतधामाग्निर्गन्धर्व इत्यादिका द्वादश मन्त्रा राष्ट्रभृत्संज्ञकाः । 'चित्तं च "वभूव स्वाहा'