________________
कण्डिका)
प्रथमकाण्डम् । श्राद्धं च तत्सकृत् । अभ्यासा वैश्वदेवे च पूर्वस्यैव हि कर्मणः । अतश्चत्वार एवैते नाष्टौ स्युः कालभेदतः । 'पञ्चसु वहि:शालायां विवाहे चूडाकरण उपनयने केशान्ते सीमतोन्नयने पञ्चसु संस्कारकर्मसु बहि:शालायां शालायाः वहिः मण्डप इति यावत् । तथा च विवाहादिकर्मपञ्चकं मण्डपे भवतीत्यर्थः । पूर्व परिभाषासूत्रे पञ्चसंस्कारा भुवः उक्ताः । अधुना लौकिकाग्निसाध्ये विवाहादौ तेषामपवादमाह-उपलि"माधाय । लौकिकाग्निसाध्यं विवाहादिक्रियाकलापं कुर्यादिति शेषः । 'निर्मन्थ्यमेके विवाहे एके आचार्या विवाहे निर्मन्थ्यमारणेयमग्निमिच्छन्ति । एतच्च कृताधानस्य भार्यायां विद्यमानायां द्वितीयापरिणयनविषयम् । तदुक्तंभार्यायां विद्यमानायां द्वितीयामुदहेद्यदि । तदा वैवाहिकं कर्म कुर्यादावसथ्येऽग्निमान् । अन्ये तु विवाहमात्रविषयमेतदाहुः । विवाहकालमाह-उदग'..."गृह्णीयात् । उत्तरायणे शुक्लपक्षे पुण्याहे कुमार्याः अनन्यपूर्विकायाः पाणि गृहीयादित्यर्थः । स्वगृह्योक्तविधिनेति शेपः । नक्षत्रविशेषानाह-'त्रिपु"हिण्यां वा' उत्तरा आदियेषां तानि उत्तरादीनि तेयु । एक त्रित्वमुत्तरायामन्वेति । अपरं त्रित्वं तदादिषु । तथाचोत्तरात्रय येषां नक्षत्राणामादिभूतं तत्रिक ग्राह्यमित्यर्थः । तथाहि । उत्तराहस्तचित्राः, उत्तराश्रवणधनिष्ठाः, उत्तरारेवत्यश्चिन्यः । 'स्वातौ....."हिण्यां वा । वाशब्दोऽवधारणे । एध्वन्यतमस्मिन्विवाहं कुर्यादित्यर्थः । यद्वा वाशब्दः चकारार्थः । चशब्दश्च ज्योतिःशाखाद्युपात्तनक्षत्रसमुच्चयार्थः । वैवाह्याः स्त्रीराह-'तिस्रो'..."श्यस्य' वर्णानुपूर्येण वर्णक्रमेण ब्राह्मणस्य तिस्रः ब्राह्मणी क्षत्रिया वैश्या च भार्या भवन्ति । एवं द्वे राजन्यस्य, क्षत्रिया वैश्या च । एका वैश्या समानवणव वैश्यस्य । 'सवें पाई..."वजे। चतुर्णामपि वर्णानामेके शूद्रापरिणयनमिच्छन्ति । अपरे नेच्छन्ति । अन्यवर्णासमुचयार्थोऽपिशब्दः । इदानी प्रकृतमाह-'अथैनां...."वास इति । अत्रायमथशब्दः कौतुकागारप्रवेशाद्यानन्तर्यवाचकः । एनां कुमारी वासः परिधापयति परिहितं कारयति । केन मन्त्रेणेत्यत उक्तं 'जरां गच्छ' इत्यादि । इतिशब्दो मन्त्रसमाप्तिद्योतकः । अथोत्तरी... "वास इति' अथ अन्तरीयपरिधानानन्तरमुत्तरीयं परिधापयति । या अकृन्तन्निति मन्त्रेणेत्यर्थः । अत्र परिधापयिता वर एव । अथैनौ...''धातु नाविति । अथ वस्त्रपरिधानानन्तरं एनौ कन्यावरौ आचार्यः समजयति परस्परं समजाथामिति प्रैषपूर्वम् । तत्र मन्त्रमाह समक्षत्वित्यादि । इतिशब्दः मन्त्रसमात्यर्थे । ततः कङ्कणवन्धनं प्ररस्परम् । 'पित्रा प्रत्ता'.."त्यसाविति' नाम गृहाति । पित्रा जनकेन, उपलक्षणमेतत् । पितुरमावे पितामहादिस्मृत्युक्तदानाधिकारिणा प्रत्तां कन्यादानकाले दत्ताम् । केचिदमुमेव कन्यादानावसरमाहुः । आदाय प्रतिगृह्य गृहीत्वा वरः स्वदक्षिणहस्तेन कन्यादक्षिणहस्तं गृहीत्वा निष्कामति चतुरिकायां गन्तुं कौतुकागारान्निगच्छति । केन मन्त्रेणेत्यत उक्तं यदैपीत्यादि । असौस्थाने कन्यानामग्रहणम् । अमुकि देविदेत्येवं प्रयोगः । अथैनो....."निविष्ट्या इति ' अथ निष्क्रमणानन्तरमेनौ कन्यावरौ आचार्यः समीक्षयति समीक्षणं कारयति परस्परं समीक्षेथामिति प्रैषपूर्वम् । केनेत्यत उक्तम् अघोरचक्षुरिति । तथा चाघोरचक्षुरित्यारभ्य यस्यामु कामा बहवो निविट्या इत्यन्तेन सौत्रमन्त्रसमुदायेन वरः कन्यामीक्षत इत्यर्थः ।। इति चतुर्थकण्डिका ॥ ४ ॥ * ॥
प्रदक्षिणमग्निं पर्याणीयैके ॥ १ ॥ पश्चादग्नेस्तेजनी कटं वा दक्षिणपादेन प्रवृत्त्योपविशति ॥ २ ॥ अन्वारब्ध आधारावाज्यभागौ महाव्या। हृतयः सर्वप्रायश्चित्तं प्राजापत्यर्थस्विष्टकृच्च ॥ ३ ॥ एतन्नित्यर्छ सर्वत्र
॥४॥ प्राङ्महाव्याहृतिभ्यः स्विष्टकृदन्यच्चेदाज्याडविः ॥ ५ ॥ सर्वप्राय- .