________________
७० पारस्करगृह्यसूत्रम् ।
[चतुर्थी वृतौ । गम्यं त्वभावे दातृणां कन्या कुर्यात्स्वयंवरमिति । सकुल्यः प्रत्यासत्तिक्रमेणादौ पितृकुलस्थस्तदभावे मातामहकुलस्थः सर्वाभावे जननी इति प्रयोगरत्ने । प्रकृतिस्थ उन्माददोपरहितः । गम्यं गमनाई लावण्यादिगुणयुक्तम् । नारदोऽपि । पिता दद्यात्स्वयं कन्या भ्राता वाऽनुमते पितुः । मातामहो मातुलश्च सकुल्यो बान्धवास्तथा । माता त्वभावे सर्वेषां प्रकृतौ यदि वर्तते । तस्यामप्रकृ. तिस्थायां कन्यां दद्युः स्वजातयः । यदा तु नैव कश्चित्स्यात्कन्या राजानमात्रजेत् । अत्र प्रकृतिस्थग्रहणादप्रकृतिस्थेन यत्कृतं तदकृतमेव । तथाचापरार्के नारदवचनम् । स्वतन्त्रो यदि तत्वार्थ कुर्यादप्रकृतिं गतः । तदप्यकृतमेव स्यादस्वातन्त्र्यस्य हेतुत इति । यदि तु सप्तपदीविवाहहोमादि प्रधानं जातं तदाऽङ्सवैकल्येऽपि नावृत्तिर्विवाहस्येति दाक्षिणात्यगौडग्रन्थेषु । विवाहश्च कन्यास्वीकारोऽन्यदमिति स्मृत्यर्थसारे । 'अथैनौ ...."निविष्ट्या इति । अथ निष्क्रमणोत्तरं कारितोपदेशात् कन्यापिता परस्परं समजेथामित्यध्येषणेन समीक्षणं कारयति । ततस्तौ वधूवरौ परस्परसमीक्षणं कुरुतः । लिङ्गाद्वरः समीक्षमाणां कन्यां समीक्षमाण अघोरचक्षुरित्येतांश्चतुरो मन्त्रान्पठति । मन्त्रार्थः । हे कन्ये त्वम् अघोरचक्षुः सौम्यदृष्टिरपापदृष्टिवा एधि भव । तथा अपतित्री अकार्यकरणेन पत्यर्थघातिनी तथा मा भव । तथा पशुभ्यः पशुवदाश्रितेभ्यः शिवा हितैषिणी च भव सुमनाः प्रसन्नचिचा सुवर्चाः सुप्रभावयुक्ता वीरसूः सत्पुत्रजननी देवकामा देवानगन्यादीन कामयते स्योना सुखवती नोऽस्माकं शं सुखहेतुः द्विपदे मनुष्यवर्गाय चतुष्पदे पशुवर्गाय शं सुखहेतुर्भव ॥१॥ हे कन्ये ते त्वां सोमश्चन्द्रः ते तव प्रथम आद्यः पतिः विविदे जन्मदिने लब्धवान् । विद्ल लाभे । ततः सार्द्धवर्षद्वयानन्तरं गन्धर्वः सूर्यों विविदे उत्तरः तद्वद् द्वितीयोऽयं पतिः । ततोऽग्निरपि तावता कालेन विविदे । अतोऽयं तव तृतीयः पतिः । यथाऽऽहुः । पूर्व स्त्रियः स्युर्मुक्ताश्च सोमगन्धर्ववह्निभिरिति । तथा ते तव तुरीयश्चतुर्थः मनुष्यजाः मानुषः अहमेवेत्यर्थः ॥ २ ॥ किमिदानी चतुर्णामपीयं पत्नी नेत्याह । सोमश्चन्द्रस्त्रिंशन्मासान्मुक्त्वा गन्धर्वः सूर्यस्तस्मै अददद्ददौ सोऽपि तावत्कालं भुक्त्वा अग्नयेऽददत् स चाग्निर्मामिमामदात दत्तवान् । न केवलमिमां किंतु पुत्रान् सुतान् रयिं धनं च । चकाराद्धर्मादि च, अदादिति संबन्धः । या सर्वलोकसाक्षिणी पूषा देवता सा इमां शिवतमां कल्याणगुणशीलां कृत्वा नोऽस्मान्प्रति ऐरय ईरयतु । आटो दर्शनं विभक्तेरदर्शनं च छान्दसम् । अस्मास्वनुरक्तां करोत्वित्यर्थः । साचास्मत्तः सुखं पुत्रांश्च कामयमाना ऊरू सक्थिनी जानुनोरूर्वभागदण्डौ विहरताम् विवृणोतु प्रसारयत्वित्यर्थः । मध्यमपुरुषश्छान्दसः । प्रयोजनमाह । यस्यां स्त्रीयोनौ उशन्तः सुखमिच्छन्तः शेपं शिश्नं प्रहराम प्रवेशयाम वयम् , यस्यां कन्यायाम् उ एवार्थे । यस्यामेव वहवः कामाः धर्मपुत्ररतिसुखरूपाः सन्तु वा । किमर्थम् , निविष्यै अग्निहोत्राद्युपासनयाऽन्तःकरणशु. द्धिद्वारा सायुज्यमुक्तये ॥ चतुर्थी कण्डिका ॥ ४ ॥ * ॥
(विश्व०)-पाकयज्ञानाह- चत्वारः पाकयज्ञाः' चत्वारः चतुर्विधाः । पाकः अग्निस्तद्वन्तो यज्ञाः । तथाच साग्नेश्चतुःप्रकाराः पाकयज्ञा भवन्तीत्यर्थः । तान्प्रकारानाह । 'हुतो'.... इति' हुतः सायंप्रातःक्रियमाणोऽक्षतहोमः होममात्रात्मकः । अहुतः स्वस्तरारोहणादि होमवलिप्राशनैर्वर्जितः । प्रहुत: पक्षाद्यादिः, होमवलिप्राशनान्वितः । प्राशितः । सर्वासां पयसि पायसं अपयित्वा ब्राह्मणान्भोजयेदित्यादिः केवलं प्राशनात्मकः । अपरे तु प्रत्यहमभ्यस्यमानान् ब्रह्मयज्ञव्यतिरिक्तान्महायज्ञानेव पाकयज्ञानाहुः । सूत्रार्थस्तु हुत इत्यादिसूत्राच्चतुःसंख्यालामेऽपि सायंप्रातरभ्यासादिना द्विगुणसंख्याप्रसक्तिमपवदितुं चत्वार इति पदम् । तथाच चत्वारः पाकयज्ञा इति सिद्धे हुतइत्यादिसू.
पक्षाद्यादिसंग्रहार्थम् । तथाच कारिकायां चत्वारः पाकयज्ञाः स्युर्ब्रह्मयज्ञश्च पञ्चमः । एते पञ्चमहायज्ञाः प्रत्यहं सूतकादृते । जनादियादा(?)सिद्धेपि चत्वार इति सूत्रितम् । चतुर्णा सायमभ्यास आये