________________
कण्डिका]
प्रथमकाण्डम। धर्मकार्येष्वधिकार इति । तथा च यास्कः । रामा रमणाय विन्दते न धर्मायेति । अतः शूद्रापरिणयनं नेच्छन्ति रमणार्थमेव । अथैनां..... "स्ववासः' अथ वरो जरां गच्छेति मन्त्रेणैनां वधू वासः परिधापयति । भर्तृयज्ञमते तु आचार्यकर्तृकं परिधापनम् । अत्राचारादहतं वासो ग्राह्यम् । अहतलक्षणं कश्यपेनोचम् । अहतं यन्त्रनिर्मुक्तं वासः प्रोक्तं स्वयं भुवा । शस्तं तन्मङ्गले नूनं तावत्कालं न सर्वदेति । मन्त्रार्थः । हे कन्ये त्वं जरां निर्दृष्टवृद्धत्वं मया सह गच्छ प्राप्नुहि वासश्च मया संपादितं परिघेहि । आकृष्यन्ति कामादिभिरित्याकृष्टयो मनुष्याः तेप मध्ये अभिशस्तिरभिशापः शसु प्रमादे तस्मासातीत्यभिशस्तिपावा भव । शतं च शरदो वर्षाणि जीव प्राणिहि । सुवर्चाः तेजस्विनी रयिं च धनं पुत्रांश्च अनु पश्चात् संव्ययस्व अतिसुसंवृणीष्व उत्पाद्य राशिं कुरु । हे आयुष्मति इदं वासः परिधत्स्वेत्यनुवादः । मन्त्र एवात्र कारिताथ । 'अयोत्त... 'वासः । या अकृन्तन्नित्यनेन मन्त्रेणोत्तरीयं परिधापयति वर एव तदप्यहतमेव । अत्रापि कारितार्थे मन्त्रः । मन्त्रार्थः-या देवीः देव्यः इदं वासः अकृन्तन् कर्तितवत्यः या अवयन् वीतवत्यः । वेञ् तन्तुसंताने । ओतवत्य इत्यर्थः । यास्तन्तून् सूत्राणि अतन्वत प्रोतवत्यः तिर्यक् तन्तुसंताने ओतवत्य इत्यर्थः । चकाराद्या ओतान्योताँश्च तन्तूनभित उभयपार्श्वयोरपि ततन्थ तेनुः तुरीवेमादिव्यापारेण प्रथितवत्यः । ताः तत्तत्साम
यंदान्यो देव्यः स्वकार्यरूपवदिदं वासः त्वा त्वां जरसे दीर्घकालनिर्दुष्टजीवनाय संव्ययस्व परिधापयन्तु । पुरुषादिव्यत्ययश्छान्दसः अतो हेतोः आयुष्मति इदं एतादृशं वासः परिधत्स्व उत्तरीयत्वेन वृणीष्व । अथैनौ' ... 'धातु नौ कन्यापिता परस्परं समजेथामिति अध्येषणेनैनौ वधूवरौ समञ्जयति । समजनं नाम संमुखीकरणं, परस्परं गात्रविश्लेष इति भर्तृयज्ञः । परस्परानुलेपनमिति केचित् । सत्यपि कारितत्वे वरस्यैव मन्त्रो मन्त्रलिङ्गात् । कारयितृत्वं च संनिधानात् कन्यापितुः, संनिहितो ह्यसौ प्रदातृत्वात् । उभयोर्मत्रपाठ इति भर्तृयज्ञः । मन्त्रार्थः । हे कन्यके नौ आवयोः हृदयानि मनांसि तन्निष्ठव्यापारान् संकल्पविकल्पात्मकान् विश्वेदेवाः आपश्च समजन्तु गुणातिशयाधानेन संस्कुर्वन्तु । तथा सम्यग्भूतो मातरिश्वा अनुकूलो वायुः तथा अनुकूल: प्रजापतिः देष्ट्री धर्मोपदेष्ट्री देवता आवयोर्हृदयानि संद्धातु । उ अप्यर्थे । 'पित्रा प्रत्ता...'त्यसाविति' समजनोत्तरं कन्यायाः । पित्रा दत्तां कन्यामादाय वरः प्रतिग्रहविधिना प्रतिगृह्य वस्त्रान्ते गृहीत्वा यदैषि मनसा दूरमित्यनेन मन्त्रेण निष्कामति गृहमध्यावहि:शालायां स्थापितमग्निं प्रति गच्छति । असावित्यत्र संबुद्धयन्तं कन्यानामग्रहणम् । अत्र कर्कभाष्यम् । आदाय गृहीत्वेति चोभयं न वक्तव्यम् । उच्यते च तत्किमर्थमप्रतिग्रहस्यापि प्रतिग्रहविधिना दानं यथा स्यादिति । अयमर्थः । अप्रतिग्रहस्यापि कन्याद्रव्यस्य प्रतिग्रहविधिना आदानं प्रतिग्रहो यथा स्यादित्येतदर्थमुभयग्रहणम् । ननु कन्यां दद्यात्कन्यां प्रतिगृह्येति स्मरणात् कथमप्रतिग्रहयोग्यं कन्याद्रव्यमित्युच्यते । सत्यम् । उच्यते-स्वत्वत्यागपूर्वकं हि परस्वत्वापादनं दानम् । नच कन्या कथंचिदप्यस्वकन्या कर्तुं शक्यते नापि परस्य कन्या भवति विवाहोत्तरमपि ममेयं कन्येत्यभिधानादत्र गौणो ददातिः । यत्तु स्मृतिषु पुत्रदानं चोद्यते तत्रापि गौणो ददातिः । पितुरिव परस्यापि पिण्डदानं रिक्थभाक्त्वं च भवतीत्यर्थः । षष्ठाध्यायस्य सप्तमे पादे आद्याधिकरणे अयमर्थस्तन्त्ररत्ने। यद्वा । अप्रतिग्रहयोग्यस्य प्रतिग्रहविधानतः । क्षत्रियादेर्यथादानं स्यादादायेति सूत्रितमिति रेणुः । मन्त्रार्थः । हे कन्यके यत् एषि गच्छसि मनसा चित्तेन दूरं दूरदेशं दिशः ककुभः अनुलक्ष्यीकृत्य पवमान इव वायुवत् चित्तस्य वायुवचञ्चलत्वात् । ततः पवमानो वायुः हिरण्यपर्णः सुवर्णपक्षः विकर्णापत्यं गरुत्मान त्वा त्वां मन्मनसां मद्तचित्तां करोतु । ममायत्तां मय्यनुरागिणी विधातु । दातृक्रममाह याज्ञवल्क्यः । पिता पितामहो भ्राता सकुल्यो जननी तथा । कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः। अप्रयच्छन्समाप्नोति भ्रूणहत्यामृता