________________
६८
पारस्करगृह्यसूत्रम् ।
[चतुर्थी चौले मौजीनिवन्धे परिणयनविधौ सर्वदा त्याज्यमेव । ज्योतिःप्रकाशे । अर्वाक् पोडशनाड्यः संक्रान्तेः पुण्यदाः परतः । उपनयनव्रतयात्रापरिणयनादौ विवास्ताः । गर्गः । दिग्दाहे दिनमेक च ग्रहे सप्तदिनानि तु । भूकम्पे च समुत्पन्ने व्यहमेव तु वर्जयेत् । उल्कापाते त्रिदिवसं धूमे पश्च दिनानि च । वज्रपाते चैकदिनं वर्जयेत्सर्वकर्मसु । दर्शनादर्शनाद्रा केस्योः सप्तदिनं त्यजेत् । यावकेतूदमस्तावदशुभः समयो भवेत् । अद्भुतसागरेऽस्यापवादः-अथ यदि दिवसत्रयमध्ये मृदुपानीयं यदा भवति । उत्पातदोपशमनं तैदव शं प्राहुराचार्याः । संवन्धतत्वे च-भूकम्पादेन दोपोऽस्ति वृद्धिश्राद्धे कृते सति । अथ प्रतिकूलादिः । मेधातिथिः । वधूवरार्थ घटिते सुनिश्चिते वरस्य गेहेऽप्यथ कन्यकायाः । मृत्युर्यदि स्यान्मनुजस्य कस्यचित्तदा न कार्य खलु मङ्गलं बुधैः । मङ्गलं विवाहः । तथा गर्ग:-कृते तु निश्चये पश्चान्मृत्युर्भवति कस्यचित् । तदा न मङ्गलं कुर्याकृते वैधव्यमाग्नु यात् । स्मृतिचन्द्रिकायाम् कृते वानियमे पश्चान्मृत्युर्मर्त्यस्य गोत्रिणः । तदा न मङ्गलं कार्य नारीवैधव्यदं ध्रुवम् । भूगुः । वाग्दानानन्तरं यत्र कुलयोः कस्यचिन्मृतिः । तदोद्वाहो नैव कार्यः स्ववंशक्षयदो यतः । शौनकः । वरवध्वोः पिता माता पितृव्यश्च सहोदरः । एतेषां प्रतिकूलं हि महाविनप्रदं भवेत् । पिता पितामहश्चैव माता चैव पितामही। पितृव्यः श्री सुतो भ्राता भगिनी चाविवाहिता । एभिरत्र विपन्नैश्च प्रतिकूलं चुधैः स्मृतम् । अन्यैरपि विपन्नस्तु केचिदूचुन तद्भवेत् । संकटे मेधातिथिराह । वाग्दानानन्तरं यत्र कुलयोः कस्यचिन्मृतिः । तदा संवत्सरादूर्व विवाहः शुभदो भवेत् । स्मृतिरत्नावल्याम् । पितुरब्दमशौचं स्यात्तदई मातुरेव च । मासत्रयं तु भार्यायास्त? भ्रातृपुत्रयोः । अन्येषां तु सपिण्डानामाशौचं मासमीरितम् । तदन्ते शान्तिकं कृत्वा ततो लमं विधीयते । ज्योति प्रकाशे । प्रतिकूलेऽपि कर्तव्यो विवाहो मासतः परः । शान्ति विधाय गां दत्त्वा वाग्दानादि चरेत्पुनः । शान्तिरले विनायकशान्तिः । तथा च मेधातिथिः । संकटे समनुप्राप्ते याज्ञवल्क्येन योगिना । शान्तिरुक्ता गणेशस्य कृत्वा तां शुभमाचरेत् । स्मृत्यन्तरे । प्रतिकूले न कर्तव्यो गच्छेद्यावहतुत्रयम् । प्रतिकूलेऽपि कर्तव्यमित्याहुवहुविप्लवे । प्रतिकूले सपिण्डस्य मासमेकं विवर्जयेत् । ज्योतिःसागरेऽपि । दुर्भिक्षे राष्ट्रभते च पित्रोर्वा प्राणसंशये । प्रौढायामपि कन्यायां नानुकूल्यं प्रतीक्ष्यते । मेघातिथिः । पुरुपत्रयपर्यन्तं प्रतिकूलं स्वगोत्रिणाम् । प्रवेशनिर्गमस्तद्वत्तथा मुण्डनमण्डने । प्रेतकर्माण्यनिवर्त्य चरेन्नाभ्युदयक्रियाम् । आचतुर्थ ततः पुंसि पञ्चमे शुभदं भवेत् । मासिकविपये शाट्यायनिः । प्रेतश्राद्धानि सर्वाणि सपिण्डीकरणं तथा । अपकृष्यापि कुर्वीत कर्त नान्दीमुखं द्विनः । वृद्धयभावे अपकर्षे दोपमाहोशनाः । वृद्धिश्राद्धविहीनस्तु प्रेतश्राद्धानि यश्चरेत् । स श्राद्धी नरके घोरे पितृभिः सह मजति इति । स्मृत्यन्तरे । सपिण्डीकरणादागपकृष्य कृतान्यपि । पुनरप्यपकृष्यन्ते वृद्धधुत्तरनिषेधनात् । विवाहदिनादारभ्य चतुर्थीपर्यन्तं मध्ये श्राद्धदिनं दर्शदिनं च नायाति तादृशः कालो ग्राह्यः । तदुक्तं ज्योतिर्निबन्धे । विवाहमारभ्य चतुर्थिमध्ये श्राद्धदिनं दर्शदिनं यदि स्यात् । वैधव्यमाप्नोति तदाशु कन्या जीवेत्पतिश्चेदनपत्यता स्यात् । तथा-विवाहमध्ये यदि चेक्षयाहस्तत्र स्वमुख्या:(१)पितरो न यान्ति । वृत्ते विवाहे परतस्तु कुर्याच्छाद्धं स्वधामिर्न तु दूषयेत्तम् । श्रुतावपि । ये वै भद्रं दूषयन्ति स्वधाभिरिति । 'तिस्रो".."पूर्येण ' ब्राह्मणस्य वर्णानुपूर्येण वर्णक्रमेण ब्राह्मणी क्षत्रिया वैश्येति तिस्रो भार्या भवन्ति । वर्णानुपूर्व्यग्रहणात् न व्युत्क्रमेण विवाहः । प्रथमा ब्राह्मणी । तत इतरे वर्णक्रमेण । 'द्वे राजन्यस्य वर्णानुपूव्येण क्षत्रिया वैश्या चेति राजन्यस्य भार्ये भवतः । 'एका वैश्यस्य । सवर्णा एका वैश्यस्य भार्या भवति । 'सर्वेपार्छ....."अवर्जम् । सर्वेषां ब्राह्मणादीनां शूद्रामप्येके भार्यामिच्छन्ति तस्यास्तु मन्त्रवर्ज विवाहकर्म भवति । एके पुनः शूद्वापरिणयनं नेच्छन्ति । न शूद्राया