________________
६७
कण्डका ]
प्रथमकाण्डम् ।
वसिष्ठो ह्यष्टौ च गर्यो नियतं दशात्रिः । जातस्य पक्षं किल भागुरिव शेषाः प्रशस्ताः खलु जन्ममासि । जन्ममासे तिथौ भे च विपरीतदले सति । कार्य मङ्गलमित्याहुर्गर्गभार्गवशौनकाः । जन्ममासे निषेधेऽपि दिनानि दश वर्जयेत् । आरभ्य जन्मदिवसाच्छुभाः स्युस्तिथयोऽपरे । पराशरस्मृतौ विशेषः | अज्येष्ठा कन्यका यत्र ज्येष्ठपुत्रो वरो यदि । व्यत्ययोर्वा तयोस्तत्र ज्येष्टो मास: शुभप्रदः । ज्येष्ठस्य ज्येष्ठकन्याया विवाहो न प्रशस्यते । तयोरन्यतरे ज्येष्ठे ज्येष्टो मासः प्रशस्यते । तथा । द्वौ ज्येष्ठौ मध्यमौ प्रोक्तावेकज्येष्ठं शुभावहम् । ज्येष्ठत्रयं न कुर्वीत विवाहे सर्वसंमतम् । यत्तु सार्वकालमेके विवाह इति वदन्ति तत्प्रौढायां कन्यायां वेदितव्यम् । तथा च राजमार्तण्डे । राहुप्रस्ते तथा युद्धे पितॄणां प्राणसंशये । अतिप्रौढा च या कन्या चन्द्रलग्नबलेन तु । यद्वा तदासुरादिविवाहविषयम् । तथा च गृह्यपरिशिष्टम् । धर्म्येषु विवाहेषु कालपरीक्षणं नाधर्म्येष्विति । अथ गुर्वा • दिवलम् । तत्र गर्गः । स्त्रीणां गुरुवलं श्रेष्टं पुरुषाणां खेर्बलम् । तयोश्चन्द्रबलं श्रेष्टमिति गण भाषितम् । देवलः । नष्टात्मजा धनवती विधवा कुशीला पुत्रान्विता हृतधवा सुभगा विपुन्त्रा । स्वामिप्रिया विगतपुत्रधवा धनाढ्या वन्ध्या भवेत्सुरगुरौ क्रमशोऽभिजन्म । गर्गः । जन्मत्रिदशमारिस्थः पूजया शुभदो गुरुः । विवाहेऽथ चतुर्थाष्टद्वादशस्थो मृतिप्रदः । अस्यापवादः । सर्वत्रापि शुभं दद्याद्वादशाब्दात्परं गुरुः । पञ्चषष्ठाव्दयोरेव शुभगोचरता मता । सप्तमात्पञ्चवर्षेषु स्त्रोचस्वर्क्ष
1
1
I
I
तो यदि । अशुभोऽपि शुभं दद्याच्छुभदक्षैपु किं पुनः । रजस्वलाया कन्याया गुरुशुद्धिं न चिन्तयेत् । अष्टमेऽपि प्रकर्तव्यो विवाह त्रिगुणार्चनात् । अर्कगुर्वोर्वलं गौर्या रोहिण्यर्कवला स्मृता । कन्या चन्द्रवला प्रोक्ता वृपली लग्नतो बला । अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी । दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला । बृहस्पतिः । झषचापकुलीरस्थो जीवोऽप्यशुभगोचरः । अतिशोभनतां दद्याद्विवाहोपनयादिनु । शौनकः । गुर्वादित्ये व्यतीपाते वक्रातीचारगे गुरौ । नष्टे शशिनि शुक्रे वा वाले वृद्धेऽथवा गुरौ । पौषे चैत्रेऽथ वर्पासु शरद्यधिकमासके | केतूमे निरंशेऽकें सिंहस्थे - ऽमरमन्त्रिणि । विवाहब्रतयात्रादि पुनर्हर्म्यगृहादिकम् | क्षौरं विद्योपविद्यां च यत्नतः परिवर्जयेत् । तथा । सिंहस्थं मकरस्थं च गुरुं यत्नेन वर्जयेत् । ललः । अतिचारगतो जीवस्तं राशि नैति चेत्पुनः । लुप्तसंवत्सरो ज्ञेयः सर्वकर्मवहिष्कृतः । सिंहस्थगुरोरपवादो वसिष्ठेनोक्तः । विवाहो दक्षिणे कूले गौतम्या नेतरत्र तु । भागीरथ्युत्तरे कूले गौतम्या दक्षिणे तथा । विवाहो व्रतवन्धश्व सिंहस्थेज्ये न दुष्यति । पराशरोऽपि । गोदाभागीरथीमध्ये नोद्वाह: सिंहगे गुरौ । मघास्ये सर्वदेशेषु तथा मीनगते रवौ । सर्वत्र गुरुबलालाभे शौनकोक्ता शान्तिः कार्या । सा चास्माभिः प्रयोगे लेखनीया । मतिचारगे गुरौ तु वसिष्ठः । अतिचारगते जीवे वर्जयेत्तदनन्तरम् । विवाहादिषु कार्येषु अष्टाविंशतिवासरान् । रत्नमालायाम् । एकपश्चनवयुग्मपड्दशत्रीणि सप्तचतुरष्टलाभदः । द्वादशाजवृषभादिराशितो घातचन्द्र इति कीर्तितो बुधैः । नारदः । भूबाणनवहस्ताश्च रसो दिग्वह्निशैलजाः । वेदा वसुशिवादित्या घातचन्द्रा यथाक्रमम् । यात्रायां शुभकार्येषु घातचन्द्रं विवर्जयेत् । विवाहे सर्व - माङ्गल्ये चौलादौ व्रतवन्धने । घातचन्द्रो नैव चिन्त्य इति पाराशरोऽब्रवीत् । ज्योतिर्निवन्धेऽप्युक्तम् । विवाहचौलव्रतवन्धयज्ञे महाभिषेके च तथैव राज्ञाम् । सीमन्तयात्रासु तथैव जाते नो चिन्तनीयः खलु घातचन्द्रः । अकालवृष्टौ नारदः । अकालजा भवेयुश्चेद् विद्युन्नीहारवृष्टयः । प्रत्यर्कपरिवेषेन्द्रचापाभ्रध्वनयो यदि । दोषाय मङ्गले नूनमदोषायैव कालजाः । अकालवृष्टिस्वरूपं च लल्लेनोकम् । पौषादिचतुरो मासान्प्रोक्ता वृष्टिरकालजेति । निर्घाते क्षितिचलने ग्रहयुद्धे राहुदर्शने चैव । आपश्चदिनात्कन्या परिणीता नाशमुपयाति । उल्कापातेन्द्रचापप्रवलघनर जोधूमनिर्घातविद्युदृष्टिप्रत्यर्कदोषादिषु सकलबुधैस्त्याज्यमेवैकरात्रम् । दुःस्वप्ने दुर्निमित्ते हाशुभतरदशे दुर्मनोभ्रान्तवृद्धौ
1