________________
पारस्करगृह्यसूत्रम् ।
[चतुर्थी य एवापूर्यतेऽर्धमासः स देवाइनामिति श्रुतेः । पुण्याहोऽपि । उद्गयनादीनां समुच्चयः, तेन सर्व देवकोदः गयन आपूर्यमाणपक्षे पुण्याहे कार्यम् । इदं चानुक्तकालविषयं सूत्रम् । यत्र नियतः कालो यथा सायं जुहोति प्रातर्जुहोतिः पौर्णमास्यां पौर्णमास्या यजेतामावास्यायाममावास्यया यजेतेत्यादौ तत्तकाले कार्यम् । नहि शुक्लपक्षे पुण्याहादावग्निहोत्राद्यनुष्ठानमिष्टमहरहरनुष्ठातव्यत्वात् । अत उपनयनचूडाकरणादीनि उद्गयनादौ कार्याणि । अन्यानि तु येपु न समुच्चयः संभवति तानि यथासंभवमेतेपु कर्तव्यानि । यथा सर्पवलिरनाहिताग्न्याग्रयणमित्यादीनीति तन्त्ररत्ने । एवं पित्र्याणि दक्षिणायनेऽपराहे च । 'कुमार्याः पाणिं गृहीयात् ' कुमार्या अक्षतयोन्याः पाणिं गृहीयात् वक्ष्यमाणेन विधिना विवाहं कुर्यात् । विंशतिप्रसूताव्युदासाथै कुमारीग्रहणम् । स्मर्यते हि तस्याः पुनविवाहः । 'त्रिषु त्रिपूत्तरादिपु ' उत्तरा आदिउँपां तान्युत्तरादीनि तेषु तेपु त्रिपु । अयमर्थः । उत्तराफल्गुन्या हस्ते चित्रायां च । एव मुत्तराषाढायां श्रवणे धनिष्ठायां च । एवमुत्तराप्रोष्टपदि रेवत्यामश्विन्यां च । 'स्वातौहिण्यां वा एतेषामन्यतमे वा नक्षत्रे विवाहो भवतीत्यर्थः । उद्गयन आपूर्यमाणपक्षे पुण्याहे इत्युक्तत्वात्कालप्रसंगाच स्मृत्यन्तरोक्तसंवत्सरादिकन्याविवाहकालोऽत्र निरूप्यते । तत्र ज्योतिर्निबन्धे । षडव्दमध्ये नोद्वाह्या कन्या वर्षद्वयं यतः । सोमो भुते ततस्तद्वद्गन्धर्वश्व तथाऽनलः । तथा यमः । सप्तसंवत्सरादूर्व विवाहः सार्ववर्णिकः । कन्यायाः शस्यते राजन्नन्यथा धर्मगर्हितः । राजमार्तण्डे । अयुग्मे दुभंगा नारी युग्मे तु विधवा भवेत् । तस्माद्गर्भान्विते युग्मे विवाहे सा पतिव्रता । मासत्रयादूर्ध्वमयुग्मवर्षे युग्मेऽपि मासत्रयमेव यावत् । विवाहशुद्धिं प्रवदन्ति सन्तो वात्स्यादयः स्त्रीजनिजन्यमासात्(1) । स्मृत्यन्तरे तु-जन्मतो गर्भाधानाद्वा पञ्चमाब्दात्परं शुभम् । कुमारीवरणं दानं मेखलावन्धनं तथेत्युक्तम् । सर्वसंग्रहवाक्यानि कारिकायाम् । अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी । दशवर्षा भवेत्कन्या अत ऊबै रजस्वला । दशमे नग्निका वा स्याद् द्वादशे वृषली स्मृता । अपरा वृषली ज्ञेया कुमारी या रजस्वला । प्राप्ते तु द्वादशे वर्षे यः कन्या न प्रयच्छति । मासि मासि रजस्तस्याः पिता पिवति शोणितम् । एतच्च प्रायिक ज्ञेयं न रजोदर्शनं भवेत् । स्त्रीणां कासांचिद्वर्षेऽस्मिन्नामाणि मनुनाऽपि तत् । उद्बहेत्रिंशदन्दस्तु कन्यां द्वादशवार्षिकीम् । व्यष्टवर्षोऽष्टवर्षी वा धर्मे सीदति सत्वरः । एकविंशतिवर्षों वा सप्तवर्षामवाप्नुयात् । वषेरेकगुणां भार्यामुग्रहेत्रिगुणः स्वयम् । त्रिंशद्वर्षों दशाब्दां च भार्या विंदति नग्निकाम् । तस्माद्वाहयेकन्यां यावन्नर्तुमती भवेत् । प्रदान प्रागृतोस्तस्या ऊर्ध्वं कुर्वन्स दोपभाक् । ज्येष्ठो भ्राता पिता माता दृष्ट्वा कन्यां रजस्वलाम् । त्रयस्ते नरकं यान्ति स्वयमित्यब्रवीद्यमः । यस्ता विवाहयेत्कन्या ब्राह्मणो मदमोहितः । असंभाष्यो ह्यपालेयः स विप्रो वृषलीपतिः । वृषलीसंग्रहीता यो ब्राह्मणो मद्मोहितः । सततं सूतकं तस्य ब्रह्महत्या दिने दिने । पितुर्गुहे तु या कन्या रजः पश्यत्यसंस्कृता । भ्रूणहत्या पितुस्तस्याः सा कन्या वृषली स्मृता । दद्याद्गुणवते कन्यां नग्निकां ब्रह्मचारिणीम् । अपि वा गुणहीनाय नोपरुन्ध्याद्रजस्वलामिति । अथ मासः । व्यासः । माधफाल्गुनवैशाखे ययूढा मार्गशीपके । ज्येष्ठे चाषाढके चैव सुभगा वित्तसंयुता । श्रावणेऽपि च पौषे वा कन्या भाद्रपदे तथा । चैत्राश्वयुकार्तिकेषु याति वैधव्यतां लघु । नारदः । माघफाल्गुनवैशाखज्येष्ठमासाः शुभावहाः। कार्तिको मार्गशीर्पश्च मध्यमौ निन्दिताः परे। पौषेऽपि कुर्यान्मकरस्थितेऽर्के चैत्रे भवेन्मेषगतो यदा स्यात् । प्रशस्तमापाढकृतं विवाहं वदन्ति गर्गा मिथुने स्थितेऽकें । मार्गे मासि तथा ज्येष्ठे क्षौर परिणयं ब्रतम् । ज्येष्ठपुत्रदुहित्रोस्तु यत्नेन परिवर्जयेत् । कृत्तिकास्थं रविं त्यक्त्वा ज्येष्ठपुत्रस्य कारयेत् । उत्सवादिपु कार्येषु दिनानि दश वर्जयेत् । तथा रत्नकोशे । जन्मः जन्मदिवसे जन्ममासे शुभं त्यजेन् । ज्येप्टे मास्यादिगर्भस्य शुभं वज्यै स्त्रिया अपि । राजमार्तण्डे । जातं दिनं दूषयते