________________
प्रथमकाण्डम् |
hosar ]
६३
दि चादादिति संबन्ध: । या जगचक्षुः पूषा देवता साइमां शिवतमां कल्याणगुणशीलां कृत्वा नोऽस्माप्रत्यैरय ईरयतु । आटो दर्शनं विभक्तेरदर्शनं च छान्दसम् । अस्मास्वनुरक्तां करोत्वित्यर्थः । सा चास्मत्तः सुखं पुत्रांश्च कामयमाना ऊरू सक्थिनी विहर विवृणोतु प्रसारयत्वित्यर्थः । मध्यमपुरुषश्छान्दसः । प्रयोजनमाह यस्यां स्त्रीयोनौ उशन्तः पुत्रान् सुखं चेच्छन्तः शेपम् शिक्षं प्रहराम प्रवेशयाम वयं यस्यां च कन्यायाम् उ एवार्थे यस्यामेव वहवः कामाः धर्मपुत्ररतिसुखरूपाः सन्ति सन्तु वा । किमर्थ निविष्टयै अग्निहोत्रायुपासनयाऽन्तःकरणशुद्धिद्वारा सायुज्यमुक्तये ॥ ४ ॥ ॥ * ॥
"
( हरिहर: ) - ' चत्वारः पाकयज्ञाः पच्यते श्रप्यते ओदनादिकमस्मिन्निति पाको गृह्याग्निस्तस्मिन्पाके नान्यत्रेति भावः । पाके यज्ञाः पाकयज्ञा: । यतः, वैवाहिकेऽग्नौ कुर्वीत गाी कर्म यथाविधि । पञ्चयज्ञविधानं च पक्ति चान्वाहिकी गृहीति मनुना दैनंदिनपाको गृह्येऽग्नौ स्मर्यते । ते चत्वारः चतुर्विधा भवन्ति, कथम्, 'हुतोऽहुतः प्रहुतः प्राशित इति तत्र हुतो होममात्रं यथा सायंप्रतिमः । अहुत: होमवलिरहितं कर्म यथा स्रस्तरारोहणम् । प्रहुतो यत्र होमो वलिकर्म भक्षणं च या पक्षादिकर्म । प्राशितो यत्र प्राशनमात्रं न होमो न वलिः यथा सर्वासां गवां पयसि पायस - अपणानन्तरं ब्राह्मणभोजनम्, इत्थं चतुर्विधः । ' पश्ञ्चसु'" "न्नयन इति पञ्चसु संस्कारकर्मसु वहि:शालायां गृहाद्बहिः शाला वहिःशाला मण्डप इति यावत् । तस्यां कर्म भवति । यथा विवाहे परिणयने चूडाकरणे क्षौरकर्मणि उपनयने मेखलावन्धे केशान्ते गोदानकर्मणि सीमन्तोन्नयने गर्भसंस्कारे । एते पञ्च वहि:शालायामनुष्ठानम् । अन्यत्र गृहाभ्यन्तरे मुख्यशालायामेव । ' उपलि. धाय' उपलिप्ते गोमयोदकेन उद्धते सम्येनोल्लिखितेनेति तिभी रेखाभिः अवोक्षिते उदकेनाभ्युक्षिते वहिःशालागृहयोः अन्यतरस्मिन्प्रदेशे अग्निमुपसमाधाय अग्निं लौकिकमावसथ्यं वा उपसमाधाय स्थापयित्वा । अयं च लेपनादिविधिर्नापूर्वः । अपि तु परिसमुह्येत्यादिपूर्वोक्तस्यैवानुवादः, ततश्चात्रानुक्तमपि परिसमूहनमुद्धरणं च सर्वत्र भवति, एप एव विधिर्यत्र क्वचिद्धोम इति वचनात् । 'निर्म' "वाहे ' एके आचार्याः विवाहे पाणिग्रहे निर्मन्थ्यमारणेयमग्निं वैवाहिकहोमाधिकरणमिच्छन्ति । अथ विवाहाख्यं कर्माह । 'उद्ग" "हीयात् ' उद्गयने मकरादिराशिषट्कस्थिते रवौ आपूर्यमाणपक्षे शुक्लपक्षे पुण्याहे ज्योतिःशास्त्रोतविद्यादिदोषरहिते कुमार्या: अनन्यपूर्विकायाः कन्यायाः । अनेन विशतिप्रसूतायाः स्मृत्यन्तरविहितस्य पुनर्विवाहस्यानियमः इच्छा चेत्करोति । पाणि गृहीयात् पाणि हस्तं स्वगृह्येोक्तविधिना गृहीयात् । अस्मिन् अयनपक्षदिनानि नियम्य नक्षत्रनियममाह - ' त्रिपु" "हिण्यां वा । उत्तरा आदिर्येषां तान्युत्तरादीनि तेषु कतिषु त्रिषु त्रिपु तथाहि उत्तराफाल्गुनी हस्तः चित्रा इति त्रीणि, उत्तराषाढा श्रवणं धनिष्ठा इति त्रीणि, तथा उत्तराभाद्रपदारेवत्यश्विन्य इति त्रीणि । स्वानौ मृगशिरसि रोहिण्यां वा । एतेषां नक्षत्राणामन्यतमे इत्यर्थः । कुमार्याः पाणिं गृह्णीयादिति सामान्येनोकं तत्र विशेषमाह - तिस्रो श्यस्य । ब्राह्मणस्य द्विजाग्र्यस्य वर्णानुपूर्व्येण वर्णक्रमेण तिस्रो ब्राह्मणक्षत्रियावैया विवाह्या भवन्ति । द्वे क्षत्रियावैश्ये राजन्यस्य विवाह्ये भवतः । एका वैश्यैव वैश्यस्य विवाह्या भवति । वर्णानुपूर्व्यग्रहणात् व्युत्क्रमो निपिद्धः । ' सर्वे ''वर्जम् ' सर्वेषां ब्राह्मणक्षत्रियविशां शूद्रामध्येके विवाह्यां मन्यन्ते तत्र विशेषः । मन्त्रवर्ज मन्त्ररहितं यथा भवति तथा । अत्र द्विजातीनामपि शूद्रापरिणयने आचार्येण मन्त्रवत्क्रियानिपेधात् । अतः शूद्रस्य शूद्रापरिणयने मन्त्रवत्क्रिया नास्ति किंतु मन्त्ररहितं क्रियामात्रमिति गम्यते । ततश्च शूद्रस्य शूद्रापरिणयने मन्त्रवद्धोमादि कर्म कुर्वन्ति तदशास्त्रीयम् । एके न मन्यन्ते शुद्राविद्याहम्, कुतः शूद्रायाः धर्मकार्येष्वनधिकारात् । कुतो नाधिकार इति चेत्, रामा रमणायोपेयते न धर्माय कृष्णजातीयेति निरुक्तकारयास्काचार्यवचनात् । अतो रमणार्थं शृङ्गापरिणयनं पक्षे । एवं