________________
६४
पारस्करगृह्यसूत्रम् ।
[ चतुर्थी
1
सति षण्मासदीक्षाद्यनन्तरमग्नि चित्वा प्रथमं न रामामुपेयादिति निषेध उपपद्यते प्राप्तं हि प्रतिषेधस्य विषयः यदि रामोढा न स्यात्तदा अग्निचितः कथं तत्प्रथमगमनं प्रतिपिष्येत । तस्माच्छूद्रापरिणयनमुपभोगार्थमिच्छया कुर्वतो न शास्त्रातिक्रमः धर्मप्रजारत्यर्थो हि विवाहः । प्रासङ्गिकमभिधायेदानीं प्रकृतमाह । तत्र पुण्येऽहनि । 'अथैनां ..... वास इति ' अथानिस्थापनानन्तरमेनां कुमारी वासः अहतं सदृशं वस्त्रं परिधापयति परिहितं कारयति वरो जरां गच्छेति मन्त्रं पठित्वा । कुमारी 'च स्वयं परिधत्ते । 'अथोत्तरीवत्स्व वास इति । अथोत्तरीयं वस्त्रपरिधानानन्तरमुत्तरीयं वासः परिधापयति वरो या अकृन्तन्निति मन्त्रमुक्त्वा अत्र परिधापयतीति णिजन्तस्य कारितार्थ - त्वात्परिधत्स्व वास इति मन्त्रस्यापि तदर्थत्वात्परिधापयिताऽन्य इत्यवगम्यते स किं वरः अध्वर्युर्वा इति संशयः । तत्राध्वर्युः कर्मसु वेदयोगादिति परिभापावलात् अध्वर्युः परिधापयितेति चेत्तन्न, स्मार्तेषु कर्मसु अध्वयोः कर्तृत्वयोगाभावात् । समाख्यया हि अध्वयों ः कर्मसु योगः समाख्या च वेद• योगात्, न च स्मृतिर्वेदः स्मरणादेव स्मृतीनां प्रामाण्यान्न पुनर्वेदमूलत्वेन । अतः समाख्याया अमावात्स्वयंकर्तृत्वं पाकयज्ञेपु, अतो वर एव परिधापयिता । ननु पूर्णपात्रो दक्षिणा वरो वेति पाकयज्ञेषु परिक्रयार्थी दक्षिणा श्रूयते सा च दक्षिणा परिक्रेतव्याभावे नोपपद्यते । अतस्तदन्यथानुपपत्त्या अन्यस्य कर्तृत्वं कल्प्यताम् । नैतदेवम् । अन्यस्य ब्रह्मणः परिक्रेतव्यस्य कर्तुर्विद्यमानत्वात् परिक्रया - दक्षिणाश्रवणस्योपपत्तेः । किंच वचनाभावे परः परस्य कर्म कर्तुं न प्रवर्तते नात्र वचनमस्ति पाक• यज्ञेषु स्वतोऽन्यकर्तृत्वविधायकम् । श्रतवत्समाख्यापि नास्ति । ननु स्मृतीनां वेदमूलत्वात् यद्वेदमूलं स्मार्त कर्म उद्भेदसमाख्यया अन्यस्य कर्तृत्वं कल्प्यताम् । मैवम् । यतः स्मृतयोऽनिश्चितवेदमूला: अतो न ज्ञायते किंवेदमूलमिदं कर्म, यद्वेदसमाख्यया अन्यः कर्ता कल्प्यते । मन्त्रलिङ्गविरोधोऽपि परकर्तृत्वे, कथं-सा मामनुव्रता भव, प्रजापतिष्ठा नियुनक्तु माम्, अमोहमस्मीत्यादि सा नः पूपाशिवतमेत्यादयो वैवाहिकमन्त्राः आत्मलिङ्गास्ते च परकर्तृत्वे विरुद्धयन्ते तस्मात्पाकयज्ञेषु स्वयं यजमानस्यैव कर्तृत्वमिति सिद्धम् । अत्र वरोऽपि वाससी परिधत्ते परिधास्यै यशसामेति मन्त्राभ्याम् । ' अथैनौ''''''नाविति' अथ वस्त्रपरिधानानन्तरं परस्परं समजेथामिति प्रेषेण कन्यापिता एनौ वधूवरौ समञ्जयति संमुखौ वरकुमायौँ करोति । अत्र विशेषमाह ऋष्यशृङ्गः “वरगोत्रं समुच्चार्य प्रपितामहपूर्वकम् । नाम संकीर्तयेद्विद्वान्कन्यायाश्चैवमेव हि” तत्र वरः - समञ्जन्तु विश्वेदेवा इत्यादिकं मन्त्रं कन्यासंमुखीभूतः पठति । अत्र कन्यादानप्रयोगो लिख्यते, उत्तरत्र पित्रा प्रत्तामिति सूत्रस्मरणात् । तद्यथा अमुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः प्रपौत्राय अमुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः प्रौत्राय अमुकगोन्त्रस्यामुकप्रवरस्यामुकशर्मणः पुत्राय इति वरपक्षे अमुकगोत्रस्यामुक प्रवरस्यामुकशर्मणः प्रपौत्रीम्, अमुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः पौत्रीम्, अमुकगोत्रस्यामुक रस्यामुकशर्मणः पुत्रीम्, इति कन्यापक्षे । एवमेव पुनर्वारद्वयमुच्चार्यामुकगोत्रायामुकप्रवरायामुकम ब्राह्मणाय इति ब्राह्मणवरपक्षे । इतरवरपक्षे वर्मणे अमुकगोत्रगुप्ताय अमुकदासायेति विशेषः । अमुकगोत्राममुकप्रवराममुकनान्नीमिमां कन्यां प्रजापतिदैवतां यथाशक्यलंकृतां पुराणोक्तकन्यादानफलकामो भार्यात्वेन तुभ्यमहं संप्रददे इति सकुशेन जलेन कन्याहस्तं वरस्य हस्ते दद्यात् । वरश्च–यौस्त्वा ददातु पृथिवी त्वा प्रतिगृह्णात्विति मन्त्रेण प्रतिगृह्णीयात् । ततः कोऽदादिति कामस्तुतिं पठेन् । ततः कन्यापिता कृतैतत्कन्यादानप्रतिष्ठा सिद्धपर्य सुवर्ण गोमिथुनं च दक्षिणां दद्यात् । अत्राचारादन्यदपि यौतैकत्वेन सुवर्णरजवता गोमहिष्यश्वमामादि कन्यापिता यथासंभवं ददाति
१ यौतकादि तु यद्देय सुदायो हरण न्च यत् । इत्यमरः । युतकं योनिसंबन्धस्तत्र भव तत्र भव इत्यण् । बुतयोर्वरवयोर्वा इद तस्येदमित्यण् । आदिना त्रतभिक्षादि ।