________________
६२
पारस्करगृह्यसूत्रम् ।
[ चतुर्थी
यो मनुष्याः तेषां मध्ये शतं च शरदो वर्षाणि जीव प्राणिहि । सुवर्चाः पातित्रत्यतेजोयुक्ता भूत्वा रयि च धनं पुत्रांच अनु संव्ययस्त्र उत्पाद्य राशीकुरु । हे आयुष्मति इदं वासः परिधत्स्वेत्यनुचाद: । ' अथोत्तरीयं ' वास: या अकृन्तन्निति मन्त्रेण परिधापयतीत्यनुवर्तते । अस्यार्थः- तत्र प्रजापतिर्गायत्री विधात्र्यो वस्त्रधारणे । या देवीः देव्यः इदं वासः अकृन्तन् कर्तितवत्यः तत्तत्सामर्थ्यवाहा: या अवयन् वीतवत्यः तन्तुसंतानं कृतवत्यः ओतवत्य इत्यर्थः, यास्तन्तून्सूत्राणि अतन्वत प्रोतवत्यः तिर्यक्तन्तून् विस्तारितवत्य इत्यर्थः । चकारात् या ओतान् प्रोतॉश्च तन्तूनभितउभयपार्श्वयोरपि ततन्थ तेनु : तुरीवेमा दिव्यापारेण प्रथितवत्य इत्यर्थः । ताः तत्तसामर्थ्यदात्र्यो देव्यः स्वकार्य रूपवदिदं वासः त्वा त्वां जरसे दीर्घकालनिर्दुष्टजीवनाय संव्ययस्त्र परिधापर्यंतु । पुरुषादिव्यत्ययश्छान्दसः । अतो हे आयुष्मति इदमेतादृशं वासः परिधत्स्व उत्तरीयत्वेन वृणीष्व । ' अथैनौ' वधूवरौ कन्यापिता समञ्जयति परस्परं संमुखीकरोति 'समञ्जन्तु विश्वे - देवा' इति मन्त्रेण । समञ्जनं च युवां परस्परं समञ्जयामिति प्रेषितयोः परस्परं संमुखीकरणं सत्यपि कारितत्वे वरस्यैव मन्त्रपाठो मन्त्रलिङ्गात् । कारयितृत्वं च सन्निधानात्कन्यापितुरेव । संनिहितो ह्यसौ प्रदातृत्वात् । मन्त्रपाठश्च कन्यासंमुखमेव । अथ मन्त्रार्थः- तत्र अथर्वणोऽनुष्टुप् लिङ्गोक्ता मैत्रीकरणे । हे कन्ये नौ आवयोः हृदयादीनि मनांसि तद्धर्मान् वा संकल्पादीन् विश्वे सर्वे देवाः तथा सम्यग्भूता आपः समञ्जन्तु गुणातिशयाऽऽधानेन संस्कुर्वन्तु । तथा सम्यग्भूतो मातरिश्वा अनुकूलो वायुः, तथा संधाता कनुकूलः प्रजापतिः, उ अप्यर्थे, देष्ट्री धर्माद्युपदेशकत्र वाक्संदधातु सुस्थितानि करोतु । पित्रा प्रत्तामित्यत्राऽऽदाय गृहीत्वेति उभयग्रहणम् अप्रतिग्रहस्यापि प्रतिग्रहविधिना दानं यथा स्यादिति । अप्रतिग्रहश्च क्षत्रियादिः । तत्र मन्त्र: ' यद्वैपीति ' अस्यार्थः- तत्राथर्वणोऽऽनुष्टुप् पवमानो निष्क्रमणे । हे कन्ये यद्यतस्त्वं पितृगृहाद्दूरमेपि आगच्छसि मनसा अनुकूलया मनोवृत्त्या दिशः प्राच्याद्या अनु पवमानो वायुरिव । वाशब्द उपमार्थे । अतः स वायुः त्वा त्वां मन्मनसां मदेकनिष्टचित्तां करोतु, किंभूत: हिरण्यम् ऊर्जस्वत्पर्ण पतनं यस्य, विशिष्टः कर्ण आश्रयो यस्य सः । वायोरपि स्वकारणगुणसंवन्धात् कर्णाश्रयत्वम् । विकर्ण एव वैकर्णः स्वार्थे अण् । असाविति कन्याना - मग्रहणं वरेणैव मन्त्रान्ते हे अमुकीत्येवम् । अथैनौ वधूवरौ समीक्षणक्रियां कारयति अघोर चक्षुरिति मन्त्रेण । कारितार्थे चाध्येपणा, युवां परस्परं समीक्ष्येथामिति । मन्त्रपाठस्तु मन्त्रलिङ्गाद्वरस्यैव । अथ मन्त्रार्थ. । तत्र चतुर्णां प्रजापतिर्द्वितीयस्यानुष्टुप् शेषाणां त्रिष्टुप् कुमारी समीक्षणे । हे कन्ये वं अघोरचक्षुः सौम्यदृष्टि. अपापदृष्टिर्वा एव भव । तथा अपतिघ्नी अकार्यकरणेन पत्यर्थघातिनी तथा मा भव एतस्मात्संस्कारात्तथा पशुभ्यः पशुवदाश्रितेभ्यः शिवा हितैषिणी च भव सुमनाः सुप्रसन्नचित्ता सुवर्चा: सुप्रभावयुक्ता वीरसू. सुपुत्रजननी देवकामा देवान् अग्न्यादीन् कामयते संवार्थमते यद्वा देवं देवनं क्रीडां कामयते । स्योना सुखवती नोऽस्माकं शं सुखहेतुः द्विपदे मनुष्यवर्गाय मनुष्यवर्गमुपाकर्तुम् तथा चतुष्पदे पशुवर्गाय पशुवर्गमुपाकर्तु च शं सुसहेतुर्भव । हे कन्ये ते त्वां सोमचन्द्रस्ते तव प्रथम, आद्यः पतिः विविदे जन्मदिने लब्धवान् ॥ विदुर लामे धातु । ततः सार्द्धवद्वयानन्तरं गन्धर्वः सूर्यो विविदे । अत उत्तर' तव द्वितीयोऽयं पति ं । ततोऽग्निरपि नावत्कालेन विविदे । अतोऽयं तव तृतीयः पतिः । यथाहुः पूर्व स्त्रियः सुरैर्मुफा. सोमगन्धर्ववह्निभिरिति । तथा ते तव तुरीयचतुर्थश्चिरकालभोगाय पतिर्मनुष्यजा: मानुपः अह भवेत्यर्थः । किमिदानीं चतुर्णामपि इयं पत्नी नेत्याह सोमो ऽददृदितिमन्त्रार्थ ख्यापयन् । अस्यार्थ ।
मन्मासान्मुक्त्वा गन्धर्वः सूर्यस्तस्मै अददत ददौ सोऽपि तावत्कालं भुक्त्वाऽनयेऽददन मनानिमिमामदान दत्तवान । न केवलमिमां किं तु पुत्रान् सुतान् रयिं धनं च चकाराद्वर्मा