________________
कण्डिका]
प्रथमकाण्डम् । (जयरामः)- चत्वा...यज्ञाः' भवन्तीति शेपः। कोऽस्याभिसंधिः । उच्यते विवाह उपक्रान्तस्तत्र बहि:शालायां कर्मष्यते तत्प्रसंगेनान्यत्रापि यत्र यत्र बहिःशाला तदर्थमभिधीयते, चतुष्प्रकाराः पाकयज्ञाः । तदाह । 'हुत इति । यत्र होम एव स हुत: यथाऽक्षतहोमः । अहुतश्च यत्र न होमः यथा स्रस्तरारोहणम् । प्रहुतो यत्र होमो वलिहरणं च यथा पक्षादिः । प्राशितो यत्र प्राशनमात्रं न होमादिः यथा सर्वासां पयसि पायस अपयित्वा ब्राह्मणान्भोजयेदिति । 'पञ्चस्विति' विवाहादिपु पञ्चसु वहि:शालायां कर्म भवति । एषु वहि:शाला कार्येत्यर्थः । बहि:शालाशब्दसामर्थ्यान् अग्निरत्र लौकिक एव । 'उपलिप्त उद्धताबोक्षित इति' शक्यमेवावक्तुं परिसमूहनादेरुक्तत्वात् , अत: परिसमूहनादिव्युदासार्थमित्येके । अपरे तु-गृह्यस्थालीपाकानां कर्मणि परिसमूहनायुक्तम् । अतोऽगृह्यार्थोऽयमारम्भः विवाहादयश्चागृह्याग्निविषयाः येनैवाहितोऽग्निस्तदीयमेव कर्म तत्रेष्यते । उपग्रहविशेषात् , तस्मादगृह्यार्थमुद्धतावोक्षितग्रहणमिति तदपि न, यत्र कचिद्धोम इत्यनेन प्राप्तवान् । कथं तींदमुक्तम् ? श्रूयताम् , अयमभिप्रायः सुत्रकृतः । यत्र कचिद्धोम इत्यनेन परिसमूहनादीनामप्राप्तिः अग्न्यर्थत्वात्तेषां यत्र यत्राग्नेः स्थापनं तत्र तत्रैते कर्तव्या इति । तथा च लिङ्गम् । उद्धते । वा अवोक्षितेऽग्निमादधतीति । तस्मादेष एव विधिर्यत्र कचिद्धोम इत्यनेन स्थालीपाकादिपु परिसमूहनादेरप्राप्तिप्रज्ञप्त्यर्थमिदमुद्धतावोक्षितग्रणम् । 'निर्मन्थ्यमेके विवाहे ' निर्मन्थ्यः अचिरनिर्मथितो गृह्यते सर्वोऽप्यग्निर्मन्थनाजायत इति । यथा नवनीतेन भुङ्ग इत्यचिराहग्धेनेति गम्यते । एके लौकिकाग्निमेवात्रेच्छन्ति अतो विकल्पः । उदगयनादौ दैवानि कुर्वीतेति शेपः । तद्धि देवानामिति । स यत्रोदड्मुखो वर्तते देवेषु तर्हि भवति । देवानामुद्गयनं तस्मादे॒वं कर्म तत्रोचितमिति गम्यते । आपूर्यमाणपक्षोऽपि देवानामेव य एवापूर्यतेऽद्धमासः स देवा नामित्यनेन । पुण्याहस्तु स्मरणात् । सर्व दैवविषयमेव तद्वगम्यते । कुमार्याग्रहणं विंशतिप्रसूताव्युदासार्थम् । स्मयते हि-विंशतिप्रसूतायाः पुनर्विवाह इति । त्रिपु त्रिपु नक्षत्रेपूत्तरादिषु उत्तरासहितेपु तेषु त्रिष्वित्यर्थः । स्वात्यादिपु वेति विकल्प: । 'तिस्रो ब्राह्मणस्येति' वर्णानुपूर्व्यग्रहणान्न व्युत्क्रमेण भार्या भवन्ति । वर्णानुपूयेणेति राजन्यवैश्ययोरप्यनुवर्तते । सर्वेषां वर्णानां शूद्रामिच्छन्त्येके विना मन्त्रम् । एके न । नास्या धर्मकार्येष्वधिकार इति । तथाच यास्कः रामा रमणायोपेयते न धर्मायेति । एके तु रमणार्थतयेच्छन्ति । तथा चाह अग्नि चित्वा प्रथमं रामामुपेयादिति । प्राप्तिपूर्वको हि निषेधः अतोऽयं विकल्पः । अथैनां वधू वर एव वासः परिघापयति जरां गच्छेति मन्त्रेण मन्त्रस्य कारितार्थत्वात् । अपरे त्वध्वयुमत्र कर्तारं मन्यन्ते, परिभापितं ह्येतत् अध्वर्युः कर्मसु वेदयोगादिति । नैतदित्यन्ये । नहि स्मार्तेध्वध्वयोः कर्तृत्वम्, समाख्यया हि श्रौतेष्वध्वयोः कर्तृत्वमिष्यते । न चात्र समाख्याऽस्ति वेदयोगाभावात् स्मरणादेव स्मृतीनां प्रामाण्यमुक्तम् । अतः समाख्याया अभावात्स्वस्यैव कर्तृत्वम् । ननु पाकयज्ञेषु दक्षिणा श्रूयते पूर्णपात्रो दक्षिणा बरो वेति, दक्षिणाशब्दश्च परिक्रयार्थे द्रव्ये वर्तते नच परिक्रेतव्यमन्तरेण परिक्रयो भवति, ततोऽन्यस्य कर्तृत्वमिति । नैवम् । अस्ति पत्रान्योऽपि ब्रह्माख्यः परिक्रेतव्यस्तदर्थः परिक्रयोऽयमिति क्षीणाऽर्थापत्तिः । अपिच परकीये कर्मणि परो नैव प्रवर्तते वचनं विना, औतेषु च समाख्ययाऽन्यस्य कर्तृत्वम् । न चेह समाख्याऽस्तीति उक्तम् । वेदमूलकत्वेऽपि स्मृतीनां समाख्याऽपरिज्ञानादकर्तृनियमः । औतेषु तु परिक्रयाऽऽनानादन्यस्य कर्तृत्वमिति युक्तम् । अपिच परकर्तृत्वे 'सा मामनुव्रता भव' इत्येवमादीनि मन्त्रलिङ्गानि विरुध्यन्ते । तत्र मन्त्रमाह । 'जराङ्गच्छेति' अस्यार्थः-तत्र प्रजापतित्रिष्टुप् तन्तुदेव्यः परिधापने । हे कन्ये त्वं जरां निर्दुष्टं वृद्धत्वं मया सह गच्छ प्राप्नुहि । वासश्च मया संपादितं परिवस्त्र परिधेहि, अभिशस्तिरभिशापः शंसु प्रमादे तस्मात्पातीत्यभिशस्तिपावा भव । आकृष्यन्ते कामादिभिरित्याक