________________
६०
पारस्करगृह्यसूत्रम् ।
[ चतुर्थी
1
1
नयन इति' एतेषु बहिःशाला कार्या । 'उपलिप्त'... "समाधायेति' उपलेपनादि शक्यमेवावक्तुं परिसमूहनादेरुक्तत्वादतः परिसमूहनव्युदासार्थमिति केचित् । अपरे तु गृह्यस्थालीपाककर्मणि परिसमूहनाद्युक्तम् अगृह्यार्थोऽयमारम्भः । विवाहादयश्चागृह्याग्निविषयाः, येनैवाहितोऽग्निस्तदीयमेव हि कर्म तत्रेष्यते उपग्रहविशेषात् । तस्मादगृह्यार्थमुद्धतावोक्षितग्रहणमिति । तदेतदपि नोपपद्यते । यत्र कचिद्धोम इत्यनेनात्रापि प्राप्तत्वात् । कथं तर्ह्येतत् । अयमभिप्रायः सूत्रकारस्य । यत्र कचिद्धोम इत्यनेनाप्राप्तिः परिसमूहनादीनाम्, अग्न्यर्थत्वात्तेषां यत्र यत्राग्नः स्थापनं तत्र तत्रैते कर्तव्या इति स्मृतिः । तथा च लिङ्गम्, उद्धते अवोक्षितेऽभिमादधाति । एष एव विधिर्यत्र कचिद्धोम इत्यनेन स्थालीपाकादिषु परिसमूहनादेरप्राप्तिप्रज्ञप्त्यर्थमिदमुद्धतावोक्षितग्रहणम् । 'निर्मन्ध्यमेके विवाहे ' निर्मन्थ्योऽचिरनिर्मथित उच्यते । सर्व एव ह्यग्निर्मन्थनाज्जायते । यथा नवनीतेन भुङ्क इत्यचिरदग्धेनेति गम्यते । एके लौकिकमेवाग्निमिच्छन्ति । 'उद्गयन" ''पुण्याहे ' दैवानि कुर्वीतेति वाक्य'शेषः । देवानां चोदगयनमिष्यते । तद्धि देवानामिति । स यत्रोदावर्तते देवेषु तर्हि भवतीति देवानामुदगयनम् । नच देवा उदगयने न किंचित्कुर्वन्ति । तस्माद्दैवं कर्म तत्रोचितमिति गम्यते । आपूर्यमाणपक्ष गृहीतः सोऽपि देवानामेव य एवापूर्यतेऽर्द्धमासः स देवानामित्यनेन । पुण्याहस्तु स्मरणात् । सर्व दैवविषयमेतदभिधीयते । ' कुमार्याः पूत्तरादिपु ' नक्षत्रेषु । कुमारीग्रहणं विंशतिप्रसूताव्युदासार्थम् । स्मर्यते हि विंशतिप्रसूतायाः पुनर्विवाहः । ' स्वातौ वा ' इति विकल्पः ' ' तिस्रो ... पूर्व्येण भार्या भवन्ति । वर्णानुपूर्व्यग्रहणाच्च न व्युत्क्रमेणेति । 'द्वे राजन्यस्य ' वर्णानुपूर्व्येणेति वर्तते । ( एका वैश्यस्य ' ' सर्वेषां .... "वर्जम्' । सर्वेषां वर्णानामेवैके शूद्रामिच्छन्ति । एके नेच्छन्ति नास्या धर्मकार्येष्वधिकार इति । तथाच यास्काचार्याः - रामा रमणायोपेयते न धर्मायेति । एके तु रमणार्थतयेच्छन्ति । तथाचाह -अग्निं प्रथमं चित्वा न रामामुपेयादिति । प्राप्तिपूर्वको हि प्रतिषेधो भवति तस्माद्विकल्प एवायमिति । ' अथैनां धत्स्वेति । अनेन मन्त्रेण । मन्त्र कारितार्थे । परिधापयिता चात्र वर एव । अपरे त्वध्वर्युमत्र कर्तारमिच्छन्ति परिभाषितं ह्येतदध्वर्युः कर्मसु वेदयोगादिति । नैतदित्यपरे । नहि स्मर्तेष्वथ्र्योः कर्तृत्वं, समाख्यया हि श्रतेष्वध्वर्योः कर्तृत्वमिष्यते न चात्र समाख्याऽस्ति वेदयोगाभावात् । स्मरणादेव हि स्मृतीनां प्रामाण्यमुक्तम् । अतः समाख्याऽभावात्स्वयमेव कर्तृत्वम् । ननु च पाकयज्ञेषु दक्षिणा श्रूयते पूर्णपात्रो दक्षिणा वरो वेति । दक्षिणाशब्दश्च परिक्रयायें द्रव्ये वर्तते । न च परिक्रेयमन्तरेण परि
यो भवति । तस्मादन्यस्य कर्तृत्वमिति । नैतदेवम् । अस्ति त्रान्योऽपि ब्रह्माख्यः कर्ता परिक्रेतव्यस्तदर्थः परिक्रयोऽयमिति क्षीणार्थापत्तिः । अपि च परकीये कर्मणि परो नैव प्रवर्तते वचनमन्तरेणश्रौतेषु च समाख्ययाऽन्यस्य कर्तृत्वमिति । च्चेह समाख्याऽस्तीत्युक्तम् । वेदमूलत्वेऽपि हि स्मृतीनां समाख्याऽपरिज्ञानादकर्तृनियमः । श्रौतेषु तु परिक्रयाऽऽन्नानादन्यस्य कर्तृत्वमिति तदुक्तम् । अपि च परकर्तृत्वे सा मामनुव्रता भवेत्येवमादीनि मन्त्रलिङ्गानि विरुध्यन्ते । 'अथोत्तरीयम् या अकन्तन्न वयम्' इत्यनेन मन्त्रेण परिधापयतीत्यनुवर्तते । 'अथैनौ समञ्जयति ' समञ्जन्तु विश्वेदेवा इत्यनेन मन्त्रेण | सत्यपि कारितार्थत्वे वरस्यैव मन्त्रपाठो मन्त्रलिङ्गात् कारयितृत्वं च सन्निधानात्क न्यापितुः । सन्निहितोऽसौ प्रदातृत्वात् । 'पित्रा प्रत्तामादाय गृहीत्वा निष्क्रामति यदैषि मनसा' इत्यनेन मन्त्रेण । आदाय गृहीत्वेति चोभयं न वक्तव्यम् । उच्यते च किमर्थं तत् ? अप्रतिग्रहस्यापि प्रतिग्रहविधिना दानं यथा स्यादिति । असाविति कन्यानामग्रहणं मन्त्रान्ते । 'अथैनौयेधीति ' समीक्षणक्रियां कारयति । कारिते चाध्येपणा परस्परं समीक्षेयामिति । कारयितृत्वं कन्यादातुः संनिधानात् । मन्त्रस्तु वरस्यैव मन्त्रलिङ्गात् || ४ || || * ॥