________________
५६
पारस्करगृह्यसूत्रम् ।
[ तृतीया
ॐॐ
1
जनाय यूयं इमां गां मा वधिष्ट मा न्नत किंतु गोपशुं विधातुं नतेति तात्पर्यार्थः । किंभूतामनागामनपराधाम् । अदितिं देवमातरं पयोदानात् । अहं ममामुष्याघयितुश्च पाप्मानं गोस्थान हनोमि हन्मीति । 'अथ यद्युत्सिब्रूयात् ' यद्यध्यों गामुत्त्रष्टुमिच्छेत्तदैवं प्रयोगः । मातारुद्राणामित्युक्त्वा मम चामुष्य च पाप्मा ह्तः औ उत्सृजत तृणान्यत्तु । अत्राप्यमुप्यस्थाने अर्थ - यितुर्नामग्रहणम् । उत्सृजत तृणान्यत्विति उच्चैर्ब्रयात् शेषमुपांशु । एवं गवालम्भस्य सर्वत्र विकल्पे प्राप्ते कचिन्नियममाह 'नत्वेवा तेत्येव श्रूयात् ' यज्ञविवाहयोरमासोऽघ न भवति । यज्ञमधिकृत्य विवाहमधिकृत्य कुरुतेत्येवं प्रयोगः । अतश्चालम्भनियमो यज्ञविवाहयोः । गोरालम्भश्च कलिवर्जितं काले भवति 'यज्ञाधानं गवालम्भं संन्यासं पलपैतृक्रम् । देवाराच सुतोत्पत्तिः कलौ पञ्च विवर्जयेत्' इति परागरस्मृतेः । अतश्च गवालम्भस्य कलाँ निपित्वादुत्सर्गस्य च यज्ञविवाहयो रप्राप्तत्वाद्गौरित्युच्चारणादि यज्ञविवाहयोः कलौ न प्रवर्तते । यज्ञविवाहयोरन्यत्र तत्सर्गपक्ष एव कलौ | कलौ गोपशोर्निषेधात्तत्स्थाने अजालम्भः पायसं वेति जयरामः । परिगतसंवत्सरा अर्ध्या भवन्तीत्युक्तं तदपवादमाह -- ' यद्यप्यसइति श्रुतेः ' यद्यपि संवत्सरस्य मध्ये असकृत्पुनः पुनः सोमेन यजेत तथाप्येनं यजमानं कृतार्ध्या एव ऋत्विजो याजयेयुः नाकृतार्थ्याः कुतः श्रुते । एतत्सूत्रादेवं ज्ञायते सोमयागार्थमेव वृता ऋत्विजोऽर्ध्या नेतरयागार्थमिति । यक्ष्यमाणास्त्वृत्विज इत्यनेनैव गतार्थत्वात्सोमेन यक्ष्यमाणा एवार्ष्या इति नियमविद्यानाथै पृथगारम्भः । ननु वसन्ते वसन्ते ज्योतिपा यजेतेत्येकस्मिन्संवत्सर एक एव सोमयाग प्राप्तस्तत्कथमुच्यते असकृत्संवत्सरस्य सोमेन यजेतेति । सत्यम्, उच्यते । यद्यपि नित्यः सोमयागः सकृदेचानुष्टातव्यस्तथापि कामनाया चोदिताया पुनः पुनरनुष्ठानं संभवत्येव द्वादशाहादीनाम् । यद्वा नित्यो वाजपेयस्तस्यानुष्टाने तदङ्गभूतानां परियज्ञानामनुष्टानं भवति । तस्मात्साधूक्तमसकृत्संवरस्य सोमेन यजेतेति । वरशाखया मधुपर्कदानं गृह्यपरिशिष्टे -- वरस्य या भवेच्छाखा तच्छाखा गृहाचोदितः । मधुपर्कः प्रदातव्यां नान्यशाखेऽपि दातरि ' इति । अत्र ऋत्विगाद्युपलक्षणार्थ वरदातृशब्दौ । तदुक्तम्- अर्च्यशाखया मधुपर्कइति । याज्ञिकास्तु अर्च्यस्य यच्छाखीयं कर्म तच्छाखीयो मधुपर्क इति वदन्ति । तथा जगन्नाथकारिकायाम् । तत्तद्गृह्येोक्तविधिना विष्टराद्यर्हणं तत इति । सर्वत्र यजमानशाखयैव मधुपर्क इति जयन्तः, तत्तु कैरपि नाहतम् ॥ ३ ॥ *॥
}
( विश्व० ) - आवसथ्याधानं दारकाल इत्युक्तं दारक्रिया च विना विवाहं न निष्पद्यत इत्युपोढा • तसंगत्या विवाहं सूत्रयन्प्रसङ्गादर्ध्यानाह - ' पडर्ध्या भवन्ति ' | आचार्यत्वादयः पदसंख्याकाः उपाधयः सन्ति तैरवच्छिन्नाः सर्वेऽपि अर्ध्याः अर्धयोग्या भवन्तीत्यर्थः । ननु आचार्यत्वादयो धर्माः जातय एव किन स्युः । न स्युः । जातिसंकरप्रसंगात् । तथाहि - आचार्यत्वपरिहारेणान्यत्र ऋत्विक्त्वम् । ऋत्विक्त्वपरिहारेणान्यत्राचार्यत्वम् । एकत्रोभयं संकीर्ण तस्मादुपाधय एते । उपधेयाः क इत्यपेक्ष यामाह—— आचार्यं ऋत्विग्विवाह्यो राजा प्रियः स्नातक इति ' उपनयनपूर्वकवेदाध्यापकत्वमाचार्यत्वं तस्याधार. आचार्यः। एवं श्रौतस्मार्तादिक्रियोद्देशेन वृतत्वमृत्विक्त्वं तदाश्रय ऋत्विक् । कूकुदकर्तृः ककन्याप्रदानसंप्रदानत्वं वैवाह्यत्वम्, तदाश्रयो वरः । राजसूयान्तर्गताभिषेकाभिषिक्तत्वे सति प्रजापालनाधिकृतत्वाश्रयो राजा । मैत्र्याश्रय प्रियः स्वानपकृष्टजात्यवच्छिन्नः । विद्याव्रतोभयत्रातकत्वाद्यन्यतमोपाध्यवच्छिन्नः स्नातक.' । इतिशब्दः पडुपाध्युपधेयसमाप्तिद्योतकः । कस्मिन्काल इत्यपेक्षायामाह - प्रतिसंवत्सरानर्हयेयु । निमित्तमन्तरा समागतानिति शेप । संवत्सरं संत्सव र प्रत्यागताः प्रतिसंवत्सराः तान् आचार्यादीनयेयुः मधुपर्केण पूजयेयुः । अर्चकानामृत्विगर्चने विशेपमाह - ' यक्ष्यमाणास्त्वृत्विजः ' यज्ञारम्भं करिष्यन्त । तुशब्द. प्रतिसंवत्सरानित्यादिनोक्तं व्यवच्छ
1
1