________________
कण्डिका]
प्रथमकाण्डम। णम् । मन्त्रार्थ:-हे अग्ने ते तुभ्यं नमः । किं भूताय श्यावास्याय कपिशमुखाय । ते तव अन्नशने अन्नाशने अद्यत इत्यन्नं तस्याशने अदनीये मधुपकें । ह्रस्वइछान्दसः । यद्रव्यमाविद्धं संशिष्टमनदनीयं तं निष्कृन्तामि निरस्यामि । 'अनामिकाङ्गुप्टेन च त्रिनिरुक्षयति । अनामिका चाङ्गुष्टश्चेत्यनामिकाङ्गुष्टं तेनानामिकाङ्गुष्ठेन वारत्रयं निरुक्षयति मधुपकैकदेशं पात्राहिः प्रक्षिपति । चशब्दाअतिसंयवनं निरुक्षणम् । एवं च निरुक्षणव्यवधानात्प्रतिसंयवनं मन्त्रावृत्तिः । तस्य त्रिः....."सानीति। तस्येत्यवयवलक्षणा पष्ठी । तस्य मधुपर्कस्य त्रिः प्राश्नीयाद्यन्सधुनो मधव्यमिति अनेन मन्त्रेण प्राशनत्रयेऽपि हविर्ग्रहणन्यायेन मन्त्रावृत्तिः । उच्छिष्टस्यैव मन्त्रोच्चारणम् । एवं हि स्मरन्ति । ताम्बूलेक्षुफले चैव मुक्तस्नेहानुलेपने । मधुपर्के च सोमे च नोच्छिष्टं मनुरब्रवीत् इति । मन्त्रार्थः हे देवाः मधुनो मकरन्दस्य यन्मधव्यं मधुनि साधु परममुत्कृष्टं रूपयति प्रकाशयति देहसंघातमिति रूपम् । अन्नायं ब्रीह्यादिवत्प्राणधारकमन्नोपादानकं च तेन सर्वरूपोपपन्नेन रसेनोक्तविशेषणविशिष्टेनाहं परमः सर्वेभ्यो गुणाधिकः मधव्यो मधुपर्कार्हः अन्नादः सदन्नभोक्ता च असानि भवानि । 'मधुमतीभिर्वा प्रत्यूचम् । वा विकल्पेन मधुव्वाताऋतायते इत्येताभित्रग्भिः प्रत्यूचं प्राभाति । ततश्चैवम् । मधुव्वाता इति प्रथमम । मधुनक्तमिति द्वितीयम् । मधुमान्न इति तृतीयम् । 'पुत्राया...'दद्यात् । अवशिष्टं मधुपर्कस्य उच्छिष्टं पुत्राय अन्तेवासिने शिष्याय वोत्तरत उपविष्टाय दद्यात् । 'सर्व वा प्राश्नीयात् ' अथवा सबै स्वयं प्राभाति । 'प्राग्वाऽसंचरे निनयेत् । प्राक् प्राच्यां यत्र जना न संचरन्ति तस्मिन्नसंचरे मधुपर्कशेष प्रक्षिपेत् । 'आचम्य... 'मेसहेति । आचम्य वाङ्म आस्य इत्येतैर्मन्त्रैः प्रतिमन्त्रं यथालिङ्गं प्राणायतनानि संमृशति हस्तेन स्पृशति । सर्वत्र साकाडूत्वादस्त्विध्याहारः । अरिष्टानि मेऽङ्गानि तनूरित्यत्र तु सन्त्वित्यध्याहारः । मेपदस्य सर्वत्रानुपनः । नन्वध्याहारानुपङ्गयोः को विशेषः । उच्यते । अनुपङ्गः श्रुतपदानयनम् । अध्याहारः अश्रुतपदस्य लौलिकस्यानयनं वाक्यनैराकासयार्थम् । प्रयोजन चाच्याहतपदस्य संहितावत्प्रयोगो न भवति । सावसानं प्रयोग इत्यर्थः । अयमर्थः कर्कोपाध्यायरपि पशुसमक्षनप्रकरणे प्रदर्शित: । अत्रैवं वाड्म आस्ये अस्त्विति मुखम् । नसोर्मे प्राणोऽस्त्विति नासिकाछिद्रद्वयं युगपत् । अक्ष्णोमें चक्षुरस्त्वित्यक्षिद्वयं युगपत् । कर्णयोर्मे श्रोत्रमस्त्विति दक्षिणं कर्णमभिमृश्य ततो वाममनेनैव मन्त्रेण । बाह्रोमें वलमस्त्विति दक्षिणं वाहुं ततो वाममनेनैव मन्त्रेण । ऊोंमें ओजोऽस्त्वित्यूरुद्वयं युगपदेव । अरिष्टानि० सहसन्त्विति शिरः प्रभृतिसर्वाडानां युपगत्। हरिहरेण प्राणायतनस्पर्शः सजलहस्तेन कर्तव्य इत्युक्तं तदतीव मन्दम् । नात्र सूत्रे जलग्रहणमस्ति । सर्वाङ्गालम्भे उभाभ्यां हस्ताभ्यामालम्भ उक्तः सोऽपि न युक्तः । आचम्येति ग्रहणमाचान्तोदकायेति वक्ष्यमाणत्वादनाचान्तस्यैव प्राणायतनसंमर्शनं मा भूदित्येतदर्थम् । मन्त्रार्थः-मे सम वागिन्द्रियमास्येऽस्तु । नसो सिकयोः प्राणः प्राणवायुः । अक्ष्णोनेत्रगोलकयोरिति यावत् चक्षुश्चक्षुरिन्द्रियम् । श्रोत्रं श्रवणेन्द्रियम् । वलं शक्तिः । ओजस्तेजः । मे मम तनूः 'देहः । तन्वा देहस्याङ्गानि च सह युगपत् अरिष्टानि अनुपह्तानि सन्तु । 'आचान्तो'..."प्राह' आचान्तमुदकं येनासौ आचान्तोदकः तदर्थ शासमसिमादाय गामानीय गौरित्ययिता त्रिः प्राह । आलभ्यतामित्यध्याहारः । आचान्तोदकग्रहणात्पुनराचमनमिति केचित् । आचान्तोदकायेति तादये चतुर्थी । शासादानस्य तादर्थ्य तु तदर्थपश्वालम्भनद्वारकम् । 'प्रत्याह... 'यद्यालभेत' अर्थ्यो यजमानं प्रत्याह मातेत्यमुं मत्रम् । यदि गामालभेत तदा मम चामुष्य च पाम्पान हनोमीति तदन्ते प्रयोगः । अत्रामुष्यशब्दमुद्धृत्यायितुर्नामग्रहणं कार्यम् । मन्त्रार्थः-अमृतस्य क्षीरस्य नाभिराश्रयः नु वितर्क, छन्दसि व्यवहिताश्चेत्युक्तरुपसर्गस्य वोचमित्यत्रान्वयः । प्रवोचं ब्रवीमि चिकितुपे चेतनावते