________________
५४
पारस्करगृह्यसूत्रम् ।
[तृतीया तबदराणीति भर्तृयज्ञः । गन्धपुष्पाक्षतकुशतिलशुभ्रसर्षपदूर्वादध्यन्वितं सुवर्णादिपात्रस्थमुदकमिति हरिहरः । आचमनीयमाचमनार्थमुदकमेव । दधिमधुघृतमेकस्मिन्कांस्यपात्रे कृतमपरेण कांस्यपात्रेणापिहितं मधुपर्कशब्देनोच्यते । मधुपर्के दध्यलामे पयो जलं वा प्रतिनिधिः । मध्वलाभे धृतं गुडो वेत्याश्वलायनः । 'अन्यनिस्त्रिः प्राह विष्टरादीनि । अर्धयितुर्व्यतिरिक्तोऽन्यो विष्टरादीनि द्रव्याणि त्रिस्त्रिारत्रयं वदति विष्टरो विष्टरो विष्टरः प्रतिगृह्यतामित्येवम् । 'विष्टरं....."पविशति । ततोऽध्योऽर्षयितुः सकाशाद्विष्टरं तूष्णीमेव प्रतिगृह्य तं विष्टरमासने निधाय वर्मोऽस्मीति मन्त्रेणोपविशति । ग्रहणोपवेशनयोर्मध्ये पठितोऽपि मन्त्र इम तमभितिष्ठामीति लिङ्गादुपवेशने विनियुज्यते । पाणिभ्यां विष्टरप्रतिग्रह इति हरिहरः । तदतीव मन्दं प्रमाणाभावात् । मन्त्रस्यायमर्थः-अर्घ्य आत्मानं स्तौति अय॑त्वाय। कुलजानाचारवपुर्वयोगुणैरहं समानानां सजातीयानां मध्ये वर्मः श्रेष्ठः ज्येष्ठः अस्मि भवामि उद्यतामुयं प्रकाशं कुर्वतां ग्रहनक्षत्रादीनां मध्ये सूर्य इव । किंच इमं विष्टरं तं पुरुपमुद्दिश्य विष्टरवत् बद्धमभिलक्ष्यीकृत्य तिष्ठामि अधः कृत्वोपर्युपविशामि । यः कश्चन मा मामभिदासति उपक्षीणं कर्तुमिच्छति । दसु उपक्ष्ये । 'पादयोरन्यं विष्टर आसीनाय' विष्टरे आसीनायोपविष्टायााय पादयोरधस्तान्निधानार्थमन्यं विष्टरं ददाति । एतच्च पादप्रक्षालनोत्तरं द्रष्टव्यम् । तथा सति दृष्टार्थता स्यात् । प्रक्षाल्य हि पादौ विष्टरे क्रियते इति । तेनात्रार्थेन पाठबाधः । तदुक्तं विरोधेऽर्थस्तत्परत्वादिति । 'सव्यं पाद....'दोह इति । ततः पाद्यं प्रतिगृह्य विराजोदोहोऽसीति मन्त्रेण सव्यं पादं प्रक्षाल्य दक्षिणं प्रक्षालयति क्षत्रियादिय॑श्चेत् , ब्राह्मणोऽयः स्यात्तदा दक्षिणं पाद प्रथमं प्रक्षाल्य ततः सव्यं प्रक्षालयति । मन्त्रार्थ:-प्राणधारणादिगुणैः सकलसौहित्येन विविधतया राजत इति विराडन्नं तस्य विराजो दोहः परिणामसारो रसः स त्वमसि भवसि । हे उदक तं त्वां विराजो दोहमशीय अश्नुवै व्याप्नुयाम् । किंच मयि विषये या पाधा पादयोः साध्वी सपर्या तस्यै तदर्थ विराजो दोहः मन्त्रसंस्कृतं जलं भवेति शेषः । ' अर्घप्रति..." वानवानीति अर्यसमर्पितमधैं प्रतिगृहात्यापःस्थ युष्माभिरिति मन्त्रेण । मन्त्रार्थः हे आपः यूयमापः स्थ आप्तिहेतवो भवथ । युष्माभिः कृत्वा सर्वान्कामानभीष्टार्थान् अवाप्रवानि लभेयम् । 'निनयन्न'मत्पय इति' तम भूमौ निनयन्प्रापयन्नमिमन्त्रयते समुद्र व इति मन्त्रेण नतु मन्त्रान्ते । अर्धे शिरसाऽभिवन्द्य प्रागुदग्वा निनयनमिति वासुदेवः । मन्त्रार्थः । हे आपः वो युष्मान समुद्रं प्रहिणोमि गमयामि । अतः स्वां योनि खकारणभूतं समुद्रं अभिलक्ष्यीकृत्य गच्छत ब्रजत । किंच युष्मत्प्रसादाचास्माकं वीराः पुत्रा भ्रातरः अरिष्टा अनुपहताः सन्तु । मत् मत्तः पयः अर्धादिमङ्गलं जलं मापरासेचि अपगतं मास्तु सदैवाहमयॊ भवानीत्यर्थः। 'आचाम..... तनूनामिति । ततो दुत्तमाचमनीयं प्रतिगृह्य-आमागन्नित्याचामति सकृद्भक्षयति । ततः स्मातोचमनम् । मन्त्रार्थः । हे वरुण जलेश तमेवंरूपेण त्वामाश्रितं मा मां यशसा सहभावं सामीप्यं वा अगन् आगमय । आडपसर्गः अगन्निति क्रियापदेन' संवध्यते । तथा वर्चसा ब्रह्मवर्चसेन संसृज संसृष्टं कुरु । किच प्रजानां पुत्रपौत्रादीनां प्रियं पशूनां गवावादीनामधिपति स्वामिनं च तथा तनूनां देहावयवानां शरीराणां वा अरिष्टिमहिसकं कुरु ।। हिंसाऽत्र अनभ्यासेन वेदानामाचारस्य च लङ्घनात् । आलस्यादन्नदोपाच मृत्युर्विप्रान् जिघांसती. त्यादिदर्शिता । 'मित्रस्य स्वेति मधुपर्क प्रतीक्षते । ततोऽयोऽर्धयितुर्हस्तस्थितमुद्घाटितं मधुपर्क मित्रस्य त्वेति प्राशिंत्रमन्त्रेण प्रतीक्षते पश्यतीत्यर्थः । देवस्य त्वेति प्रतिगृह्णाति । ततो देवस्य त्वेति प्राशिवप्रतिग्रहणमन्त्रेण मधुपर्क प्रतिगृहाति । 'सव्ये पाणी... 'कृन्तामीति ' तं मधुपर्क सव्य
हस्ते कृत्वा दक्षिणस्य हस्तस्यानामिकयाऽङ्गुल्या प्रदक्षिणं त्रिरालोडयति नम. इयावास्यायानिति ' मन्त्रेण । अत्र सव्यहस्तस्थितस्यैव दक्षिणम्यानामिकया विरालोडनं यथा स्यादित्येतदर्थ दक्षिणग्रह