________________
कण्डिका]
प्रथमकाण्डम् । नत्ति । ऋत्विजः याजकानर्चयेयुरित्यर्थः । एतेन क्रत्वारम्भप्रवृत्तेनैवारम्भकाले ऋत्विगर्चनं विधेयं नान्यदेत्यर्थः । तथाच ऋत्विक्त्वप्रयोज्यं नान्यदार्चन मिति ध्येयम् । कथमहयेयुरित्यपेक्षायामाह'आसनमाहार्याह साधु भवानास्तामर्चयिष्यामो भवन्तमिति' आसनं यत्रियदारुनिर्मितं पीठादि आहार्य आनाय्य आह ब्रवीति अर्चक इति शेपः । किमित्यत उक्तं, साधु भवानित्यादि भवन्तमित्यन्तम् । विवाहे तु वरसमानशाखाध्यायिनाऽऽचार्येण प्राङ्मुखोपविष्टेन मध्येचतुरिकमुपलिप्त उद्धतावोक्षितेऽनावाहिते साधु भवानास्तामित्याद्यर्चकः श्वशुरादियादिति विशेपमाहुः । अग्निमुपसमाधायेत्यादि कुमार्याः पाणिं गृह्णीयादित्यन्तसूत्रे साङ्गपाणिग्रहणविधेरग्निस्थापनोत्तरकालीनत्वस्य क्त्वाप्रत्ययवललभ्यत्वेन मधुपर्ककरणकार्चनस्यापि विवाहाङ्गत्वादग्निस्थापनोत्तरकालतेत्याशयादेवमाहुः। 'आहरन्ति विष्टरं पाद्यं पादार्थमुदकमर्चमाचमनीयं मधुपर्क दधिमधुघृतमपिहितं कांस्ये कांस्येन । आहरन्ति अर्चकपुरुपाः । विष्टरौ पादार्थमुदकमष्टाङ्गमधमाचमनीयपात्रं, मधुपर्कमित्येतस्यैव विवरणं दधिमधुघृतं कांस्येनापिहितम् । पुनः कीदृशं कांस्ये स्थितम् । अन्यस्त्रिः त्रिः प्राह विष्टरादीनि । अार्चकाभ्यामन्यः अर्चकपुरुषः विष्टरादीनि त्रिस्त्रिः प्राह विष्टरः आदिउँपां तानि त्रिविः त्रीस्त्रीन् वारान् एकैकं प्राह अनुब्रूयात् । प्रयोगश्चैवं, विष्टराविति वारत्रयमाहान्यः । प्रतिगृह्यतामित्याहार्चकः । प्रतिगृह्णामीत्यर्च्यः प्रतिगृह्णातीत्यर्थः । किमित्यत उक्तं विष्टरमिति । 'वोऽस्मि समानानामुद्यतामिव सूर्यः । इमं तमभितिष्ठामि योमाकश्चाभिदासतीत्येनमभ्युपविशति' निगदव्याख्यातम् । पादयोरन्यं विष्टर आसीनाय, अन्यं द्वितीयं पादयोरध: विष्टर स्थापयेदW इत्यर्थः । कथंभूतः विष्टर आसीनः चतुर्थ्यत्र न विवक्षितेत्याहुः । केचित्तु चतुर्थीवलात्क्रमिकं दानमाहुः । 'सव्यं पादं प्रक्षाल्य दक्षिणं प्रक्षालयति ब्राह्मणश्वेदक्षिणं प्रथमं ततोऽन्येन पादार्थमुदकमिति निरुक्तेऽर्चकेन प्रतिगृह्यतामित्युक्ते प्रतिगृह्णामीति प्रतिगृह्याय॑ इति शेषः । मन्त्रेण वा तूष्णीं वेत्यत आह-'विराजो..... "दोह इति । दोह इत्यन्तेन मन्त्रेण पादौ प्रक्षालयेदर्च्य इत्यर्थः । अर्घ प्रतिगृह्णाति ' ततोऽर्षमापःस्थ अर्घमित्यन्येन त्रिरुक्ते प्रतिगृह्यतामित्यर्चकेनोक्ते आपःस्थ इत्यमुं मन्त्रं पठित्वा प्रतिगृह्णामीति । अधै प्रतिगृहामीत्यर्थः । मन्त्रमाह-'आपः स्थ'वानि' इति । निनयन्नभिमन्त्रयते, 'समुद्रं वः..... 'मत्पयः इति' शिरसाभिवन्द्य संमुखं निनयन्समुद्रं व इत्यभिमन्त्रयत इत्यर्थः । आचामत्यामाग...."तनूनामिति' आचमनीयमित्यन्येन त्रिरक्त प्रतिगृह्यतामित्यर्चकेनोक्ते प्रतिगृह्णामीति गृहीत्वा आमागन्नित्याचामतीत्यर्थः । ततः स्मार्ताचमनम् । 'मित्रस्य त्वेति मधुपकै प्रतीक्षते । मधुपर्क इत्यन्येन विरुक्ते प्रतिगृह्यतामित्यर्चकेनोक्ते मित्रस्यत्वेति अर्चकहस्तस्थं मधुपर्कमीक्षते उद्घाटितं पूर्व कातीयसूत्रे उक्तत्वादिह मन्त्रो नोक्तः संहितायामविद्यमानोऽप्ययाश्चाग्न इतिवत् । देवस्यत्वेति प्रतिगृह्णाति प्रतिगृह्णामीत्यन्तेन देवस्यत्वेति मन्त्रेण यजमानहस्तागृहातीत्यर्थः । ' सव्ये पाणौ....."तत्तेनिकृन्तामीति ' मधुपकै वामहस्ते निधाय दक्षिणहस्तस्यानामिकयाङ्गुल्या त्रिवारमालोडयति नमः श्यावेतिमन्त्रेण । 'अनामिकाङ्गुष्ठेन च त्रिनिरुक्षयति । दक्षिणहस्तानामिकाङ्गुष्ठाभ्यां त्रिवारं निरुअक्षयति वहिःप्रक्षिपतीत्यर्थः । चकारः समुच्चयार्थः । तस्य त्रिः प्रामा.... 'दोऽसानीति' यन्मधुन
इति मन्त्रेण त्रिवारं मधुपर्क प्राश्नातीत्यर्थः । उच्छिष्टोऽपि मन्त्रानुचरेत् । मधुमतीभिर्वा प्रत्यूचं। मधुवाता इतितृचेन वा प्रत्यूचं प्राभाति । 'पुत्राया""""निनयेत् । असंचरे जनसंचारवर्जिते देशे। शेष सुगमम् । इयं च प्रतिपत्तिः पूर्वाभावे उत्तरा ज्ञेया । ' आचम्य प्राणान्संमृशति । आचमनं कृत्वा वक्ष्यमाणान् प्राणान् स्पृशतीत्यर्थः । 'वाङ्म आस्ये' अनेनास्यं स्पृशति, : नसोमें प्राणः । अनेन नासारन्ध्रे सहैव स्पृशति, ' अक्ष्णोमें चक्षुः । अनेन चक्षुषी, । कर्णयोमें श्रोत्रम् । अनेन कौँ मन्त्रावृत्तिः दक्षिणोत्तरे, 'बाह्रोमें बलम् । अनेन बाहू मन्त्रावृत्त्या स्पृशति,