________________
५२
पारस्करगृह्यसूत्रम् ।
[ तृतीया
-
3
......
तम् ॥ १ ॥ विष्टराखिवृतो दर्भकूर्चदा इति । पद्यं पद्भथामाक्रमणीयमुक्तलक्षणं द्वितीयं विष्टरम् | पादार्थमुदकं पादप्रक्षालनार्थं ताम्नादिपात्रस्थं जलं सुखोष्णम् । अर्धं गन्धपुष्पाक्षतकुश तिलशुभ्रसर्षपद्धिदूर्वान्वितं सुवर्णादिपात्रस्थमुदकम् । आचमनीयम् आचमनाथै कमण्डलु संभृतं जलम् । मधुपर्क कांस्यपात्रस्थं दधिमधुघृतं कांस्यपात्रेणाच्छादितम् । 'अन्यखिखिः प्राह विष्टरादीनि ' अन्य: अर्चकादपरः विष्टरो विष्टरो विष्टर. इत्येवमेकैकं त्रित्रिः त्रींस्त्रीन्वारान् ब्रूयात् विष्टरादीनि विष्टरप्रभृतीन्पद्यपादार्थोदकार्घा चमनीयमधुपर्कान् । 'विष्टरं प्रतिगृह्णाति । प्रत्यङ्मुखेन यजमानेन तिष्ठता दत्तमासनात्पश्चिमे प्राङ्मुखस्तिष्ठन्नर्घ्यः पूर्वोक्तलक्षणं विष्टरं तूष्णीं पाणिभ्यामुद्गग्रमादत्ते - वष्र्मोऽस्मिभ्युपविशति' । वष्र्मोऽस्मीति मन्त्रान्ते एनं विष्टरमुद्गप्रमासने निधायाभ्युपविशति । ' पादयोरन्यं विष्टर आसीनाय ' विष्टरे आसीनायार्ध्यायान्यं विष्टरं यजमानः पूर्ववददाति स च तं पूर्ववत्प्रतिगृह्य प्रक्षालितयोः पादयोरधस्ताद्वष्र्मोऽस्मीत्यनेन मन्त्रेण निदधाति । 'सव्यं पा प्रथमम् । ततोऽन्येन प्राद्यमिति त्रिरुक्ते यजमानार्पितं पाद्योदकमादाय वामं चरणं प्रक्षाल्य इतरं प्रक्षालयति क्षत्रियादिरर्ध्यः यदि ब्राह्मणोऽर्घ्यः स्यात्तदा प्रथमं दक्षिणं प्रक्षाल्य वामं प्रक्षालयति ' विराजो .... दोह इति' विराजो दोहोऽसीत्यावृत्तेन मन्त्रेण । ' अर्ध प्रतिगृह्णाति ततोऽर्घ इत्येतत्रिरुक्ते यजमानदुत्तमर्घम् —' आपः स्थ .. "वानीति ' आपः स्थ युष्माभिरित्यनेन मन्त्रेण प्रतिगृह्णाति । ' निनयन्नभि "त्पय इति ' प्रतिगृहीतम शिरसाऽभिवन्द्य निनयन् भूमौ प्रवाहयन् अभिमन्त्रयते समुद्रव इति मन्त्रेण । 'आचाम. "न्तनूनामिति तत आचमनीयभिति त्रिरन्याते यजमानदत्तमाचमनीयं प्रतिगृह्य - आमागन्यशसेत्यनेन मन्त्रेणाचामति सकृत्प्राश्नाति जलम् । ततः स्मार्तमाचमनं करोति एवं सर्वत्र । ' मित्रस्यत्वेति मधुपर्क प्रतीक्षते ' ततो मधुपर्क इति त्रिरन्येनोक्ते यजमानहस्तगतमुद्घाटितं मधुपर्कं मित्रस्य त्वेति मन्त्रेणायः प्रतीक्षते पश्यति । 'देवस्य त्वेति प्रतिगृह्णाति ' देवस्यत्वेति मन्त्रेण यजमानदत्तं मधुपर्क दक्षिणहस्तेन प्रतिगृह्णाति । ' सव्ये - पाणौ..................धकृन्तामीति ' तं मधुपर्क वामहस्ते निधाय दक्षिणस्य पाणेरनामिकाङ्गुल्या त्रिवारमा - लोडयति नमः व्यावास्येति मन्त्रेण । 'अनामिकाङ्गुष्टेन च त्रिर्निरुक्षयति अनामिका च अङ्गुटच अनयोः समाहार अनामिकाङ्गुष्टं तेन त्रिवारं निरुक्षयति पात्राद्बहिर्निर्गमयति चकारात्प्रतिसंयवनं निरुक्षणम् । ' तस्य त्रिः न्नादोऽसानीति' तस्य मधुपर्कस्यैकदेशमादाय यन्मधुनो मधव्यमित्यादिना मन्त्रेण सकृत्प्राश्य पुनरनेनैव मन्त्रेण उच्छिष्ट एव द्वितीयं प्राश्य तथैव तृतीयं प्राश्नाति ।' मधुमतीभिर्वा प्रत्यृचम् ' मधुव्वाता इति तिसृभिर्ऋग्भिः प्रत्यृचं प्रतिमन्त्रं वा पूर्ववत्रिः प्राश्नाति । ' पुत्रायानिनयेत् ' मधुपर्कस्य शेपप्रतिपत्तिमाह-पुत्राय सूनवे अन्तेवासिने उपनयनप्रभृतिविद्यार्थित्वेन आचार्यकुलवासिने शिष्याय वा कथंभूताय उत्तरत आसीनाय उच्छिष्टं प्राशितशेषं मधुपर्कं प्रयच्छेत् । अथवा सर्वे भक्षयेत् । यद्वा प्राक् पूर्वस्यां दिशि असंचरे जनसंचारवर्जितदेशे त्यजेत् । अत्र पूर्वपूर्वासंभवे उत्तरोत्तरां प्रतिपत्तिं कुर्यात् । 'आचम्य''''''सहेति' आचम्य प्राणान्संसृशति वाड्म इत्यादिभिर्मन्त्रैः । तद्यथा । आचमनं सकृन्मन्त्रेण । ततस्त्रिराचम्य एवं सर्वत्र स्मार्तमाचमनं कृत्वा प्राणानिन्द्रियाणि संमृशति सजलमालभते । तद्यथा । वाङ्म आस्येऽस्त्विति मुखं, कराग्रेण नसो में प्राणोऽस्त्विति तर्जन्यङ्गुष्ठाभ्यां युगपद्दक्षिणादिनासारन्ध्रे, अक्ष्णोर्मे चक्षुरस्त्विति अनामिकाङ्गुष्ठाभ्यां युगपञ्चक्षुपी, कर्णयोमें श्रोत्रमस्त्विति मन्त्रावृत्त्या दक्षि णोत्तरौ कर्णौ, बाह्वोर्मे बलमस्त्विति कर्णवद्बाहू, ऊयोंमें ओजोऽस्त्विति युगपद्धस्तेनोरू, अरिष्टानि मेऽङ्गानि तनुस्तन्या मे सह सन्त्विति शिरःप्रभृतीनि पादान्तानि सर्वाण्यङ्गान्युभाभ्यां हस्ताभ्या मालभते । 'आचान्तो प्रत्याह ' आचान्तमुदकं येन स आचान्तोदकस्तस्मै अर्ध्यायशासं
2
3