________________
कण्डिका]
प्रथमकाण्डम् । रिन्द्रियम् अक्षीशब्दोऽपि अक्षिवाचकोऽस्ति तपमिदम् । श्रोत्रं श्रवणोन्द्रियं वलं शक्तिः ओजः पाटवं मे मम तनूदेहः तन्वा देहस्याङ्गानि च सह युगपत् अरिष्टानि मे अनुपहतानि सन्तु । आचान्तोदकग्रहणात्पुनराचमनमित्येके । अपरे वाहु: आचान्तमुदकं येन स आचान्तोदकस्तदर्थ शासं शस्त्रमादाय तादर्थ्य च पश्वालम्भस्य तदर्थत्वात् , ततो गौगोगोंरिति त्रिः प्राहार्ययिता अर्यस्तु प्रत्याह 'मातारुद्राणाम् । इत्यमुं मन्त्रम् । अस्वार्थ:-तत्र ब्रह्मा त्रिष्टुप् गौः अभिमन्त्रणे । मातेत्यादि, निगदः अमृतस्य क्षीरस्य नाभिराश्रयः नु वितकै ' छन्दसि व्यवहिताश्च ' इति प्रयोचं ब्रवीमि । चिकितुषे चेतनावते जनाय पुम्मात्राय मां मां तोष्टुं यूयमिमां गां मा वषिष्ट मा नत किंतु गोपशुं विधातुं नतेति तात्पर्यार्थः । किभूतामनागामनागसमदितिमखण्डनीयां देवमातरं वा पयोदानात् । तदन्ते च ममेत्यादि हनोमीति प्रयोगः कार्य | आलम्भनपक्षे अहं च मम अमुप्यायितुश्च पाप्मानं गोस्थाने हनोमि हन्मीति । अथेति पक्षान्तरे । उत्सर्गपक्षे तु मम चामुष्य च पापमा हत उत्सृजत तृणान्यत्त्विति यादुवैः । मन्त्रपाठादिशेपमुपांश्वेव । नत्वेति, यम्माद्यज्ञविवाहयोरमासोऽधों न भवतीति स्मरणं तस्माधजमधिकृत्य विवाहं चाधिकृत्य च पा'मानं हनोमीत्येव वक्तव्यम् । यज्ञविवाहवर्जमन्यत्र पश्वालम्भविकल्प इति कर्काचार्याः । अपरेवाहु:-यज्ञविवाहयोरेवालम्भस्यावश्यकत्वेन विधानान् कलौ च गवालम्भस्यैव प्रतिपेयानोप्रतिनिवित्वेन पश्चन्तरं सातपशुः पायसं वा भवतीति । यक्ष्यमाणावृत्विज इत्युक्तम् । तन्नियममाह- यद्यपीति' यदि संवत्सरस्य मध्ये पुनः पुनः सोमेन यजेत तदा कृतार्ध्या एव ऋत्विजस्तं याजयेयुर्न यागान्तरेणेति गम्यते । अतः प्रतिसंवत्सरानिति संवत्सरोपर्येव यजत्रिविनोऽा इति यदुक्तं तदपवादोऽपि जातः ॥ ३ ॥
(हरिहरः)-पडा भवन्ति । । पटू पुरुपा अर्ध्या भवन्ति अर्धाही भवन्तीति शेपः । के ते । आचार्य....''तक इति । आचार्य उपनयनपूर्वकं वेदाध्यापकः । ऋत्विक् श्रौतस्मादिकमार्थे वृतो ब्रह्मादिः वैवाह्यो वरः । राजा अभिषेकादिगुणवान् प्रजापालनेऽधिकृतः क्षत्रियः । प्रिय: उत्कृष्टजाति: समानजातिर्वा सखा । सातकः ब्रह्मचर्यात्समावृतः आचार्यस्यायो नान्यस्य । तथा च मनुः-'तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः । स्रग्विणं तल्प आसीनमर्चयेत्प्रथमं गवा !' इति इत्येते । 'प्रतिसंवत्सरानहयेयुः। प्रतिसंवत्सरमागतानेतानाचार्यादीनपेण पूजयेयुर्नार्वाक् । 'यक्ष्यमाणास्त्वृत्विजः' । यक्ष्यमाणाः यज्ञं करिष्यन्तो यजमानाः 'ऋत्विजः' याजकान् तु पुनः अर्हयेयुरित्यनुषड्गः, न प्रतिसंवत्सरनियमः । कथमईयेयुरित्यपेक्षायामाह,-'आसन 'भवन्तमिति । आसनं वारणादिदारुमयं पीठादि आहार्य अनुचरैरानाय्य आह ब्रवीति अर्चकः किमिति एवं कथं भवान्पूज्यः साधु सुखं यथा भवति तथा आस्तां तिष्ठतु । अर्चयिष्यामः पूजयिष्यामो भवन्तमर्चनीयं यावत् । अर्चयिष्याम इति बहुवचनं भार्यापुत्रादिसर्वगृह्यापेक्षम् । तथा च श्रुतिः यत्र वा अर्हन्नागच्छति सर्वगृह्या इव वै तत्र चेष्टयन्तीति । ' आहरन्ति... 'कास्येन आहरन्ति आनयन्ति यजमानपुरुषाः विटंरादिमधुपर्कपर्यन्ताभ्यर्हणोपकरणानि । तत्र विष्टरं पञ्चविंशतिदर्भतरुणमयं कूर्चम् । पञ्चविंशतिदर्भाणां वेण्यग्रे ग्रन्थिभूपिता । विष्टरे सर्वयज्ञेषु लक्षणं परिकीर्ति
१ वरशाखया मधुपर्कदानमिति गृह्यपरिशिष्टे “ वरस्य या भवेच्छाखा तच्छाखागृह्यचोदित. । मधुपर्क. प्रदातन्यो नान्यथाखेऽपि दातरीति " ॥ अन ऋत्विगाग्रुपलक्षणार्थ वरदातृशब्दौ तदुक्तमय॑शाखया मधुपर्क इति ।
२ विष्टलक्षणं परिशिष्टे-पञ्चाशता भवेट्रह्मा तदद्धेन तु विष्टरः । उर्ध्वकेशो भवेद्ब्रह्मा लम्वकेगस्तु विष्टरः ॥ दक्षिणावर्तब्रह्मा च वामावर्तस्तु विष्टरः । यद्वा, पञ्चविशतिदर्भाणा वेण्यग्रे प्रन्थिभूपिता ॥ विष्टरेइत्यादि ॥