________________
पारस्करगृह्यसूत्रम् ।
[ तृतीया
I
6
अथ मन्त्रार्थ:(:- तत्र प्रजापतिर्यजुरापः अपामादाने । हे आपः यतो यूयमापः आमिहेतवः स्थ भयथ तस्माद्युष्माभिः कृत्वा सर्वानशेपान्कामान् अभीष्टार्थान् अहम् अवाप्रवानि लभेयम् । ततोऽभ्योऽयै गृहीला उपमौलिमानीय निनयन नामयन् अभिमन्त्रयते समुद्र व इति मन्त्रेण, न तु मन्त्रान्ते । अस्यार्थः -- तत्र अथर्वणोऽनुष्टुप् आपोऽर्घप्रतिक्षेपे । हे आपः साधितार्थी वो युष्मान् समुद्रं प्रहिणोमि गमयामि, अतः स्वां योनि स्वकारणभूतं समुद्रमभिलक्ष्यीकृत्य गच्छत व्रजत । किच युत्मत्प्रसादाचास्माकं वीराः पुत्रा भ्रातरश्चारिष्टा अनुपहताः सन्तु मत् मत्तः पयः अर्घादिमङ्गलं जलं मापरासेचि अपगतं मास्तु, सदैवाहमयों भवानीत्यर्थः । ततोऽर्घ्य आचामति आमागन् यासेति मन्त्रण सकृद् । द्विस्तूष्णीम् । अस्यार्थः--- :---तत्र परमेष्ठी बृहती आचमने । हे जलेश वरुण तमेवंरूपेण लामाश्रितं मा मां यशसा आमा सह सहभावं सामीप्यं वा अगन् आगमय । तथा वर्चसा ब्रह्मवर्चसन संसृज संसृष्टं कुरु । किंच प्रजानां श्रेष्ठजनानां प्रियं श्रेष्ठं प्रीतं वा पशुना गवाश्वादीनामधिपतिं स्वामिनं च तथा तनूनां देहावयवानां शरीरिणां वा अरिष्टम् अहिंसकं मुखजनकं वा कुरु । हिंसा च अनभ्यासेन वेदानामित्यादिना दर्शिता । ततो 'मित्रस्यत्वंति' मन्त्रेणाय मधुपके प्रतीक्षते पश्यति, तत्र प्रजापतिः पङ्किमित्रो दर्शने । सर्वेषु चैपु त्रिविरतानि द्रव्याणि अभिधाय प्रतिगृह्यतामित्याहान्योऽर्घ्यम् । 'देवस्यत्वेति ' मन्त्रेणार्भ्यः प्रतिगृहाति मधुपर्कम् । अस्य परमेष्ठी गायत्री सूर्यो ग्रहणे । सव्ये पाणौ स्थितं मधुपर्क दक्षिणहस्तस्यानामिकया त्रिः प्रयोति प्रदक्षिणमालोडयति 'नमः श्यावास्यायेति ' मन्त्रेण । अस्यार्थः -- तत्र प्रजापतिर्यजुः सविता निरुक्षणे । हे अग्ने ते तुभ्यं नमः किंभूताय श्यावास्याय कपिशमुखाय ते तव अन्नाने अन्नाशने अद्यते इत्यन्नं तस्याशने । ह्रस्वश्छान्दसः । आविद्धं संलिष्टम् अनदनीयं यत् तन्निष्कृन्तामि निरस्यामि अतः शुद्धमन्नं गृहाणंत्यर्थः । तमेव दक्षिणहस्तस्यानामिकाङ्गुष्ठाभ्या त्रिर्निरुक्षयति अपसारयति चशब्दात्प्रयौति च ader प्रतिप्रवणमेव निरुक्षणम्, एवं प्रयवणनिरुक्षणयोर्युगपद्भाव मन्त्रलिङ्गाच । एवं च निरुक्षव्यवधानात्प्रतिप्रयवणं मन्त्राभ्यासः । तस्य त्रिः प्राश्नाति ' यन्मधुन इति ' मन्त्रेण । तस्येत्यवयवलक्षणा पष्ठी । त्रिशब्दानुवृत्तौ पुनस्त्रिहणम् एकद्रव्ये कर्मावृत्तौ सकृन्मन्त्रवचनशङ्काव्युदासार्थम् । मधुमतीभिर्वा मधुव्वाता इति तिसृभिऋग्भिर्वा प्रत्यृचं प्राश्नात्यनाभिकाङ्गुष्ठाभ्यामेव । उच्छिष्टस्यैवापरं वारद्वयं मन्त्रोच्चारणम् । मधुपर्के च सोमे च नोच्छिष्टो भवति द्विज इति रमरणात् । अथ मन्त्रार्थः । ' यन्मधुन इति ' कुत्सो जगती मधुपर्को मधुपर्कप्राशने । हे देवाः मधुनः मकरन्दस्य यन्मधव्यं मधुनि साधु परममुत्कृष्टं रूपयति प्रकाशयति देहसंघातमिति रूपमन्नाद्यं व्रीह्यादिवत्प्राणधारकमन्नोपादानकं वा अन्नादिरसकदम्बं वा तेन सर्वरूपापन्नेन रसेन उक्तविशेषणविशिष्टेन अहं परमः सर्वेभ्यो गुणाधिको मधव्य. मधुपर्कार्हः अन्नादः सदन्नभोक्ता च असानि भवानि । मधुन्त्राता - त्रयस्य गौतमो गायत्री विश्वेदेवा मधुपर्कप्राशने । मधुपर्कशेपप्रतिपत्तिमाह ' पुत्रायेति' सुताय उत्त रत आसीनायोपविष्टाय अन्तेवासिने शिष्याय वोच्छिष्टं दद्यात् स्वयं वा सर्व प्राभीयादिति व्यवस्थाविकल्पः । व्यवस्था (? त्वच ) नियमितस्य नियमनम् । तेन आचार्यः शिष्याय ऋत्विकप्रियौ पुत्राय वरस्नातौ सर्व प्राश्नीयाताम् । राजा असंचरे जनसंचाररहिते देशे पूर्वस्यां दिशि निनयेदित्यपरे । सर्वेषां वा सर्वे पक्षा इत्यन्ये । आचम्य ' प्राणान् ' इन्द्रियस्थानानि संमृशति 'वाड्म आस्ये ' इन्त्येवमादिभिर्मन्त्रैर्यथालिङ्गं संमर्शनं जलेन स्पर्शनम् । अनाचान्तस्य प्राणायतनस्पर्शनं मा भूदिति आचम्येति ग्रहणम् । अस्त्वित्यध्याहारः साकाङ्क्षत्वात्, म इत्यस्य च सर्वत्रानुपङ्गः । अरिष्टानि मेऽङ्गानि तनूस्तन्वा मे सह इत्यत्र सन्त्वित्यध्याहारः । अथ मन्त्रार्थः, मम वाकू वागिन्द्रियमास्येऽस्तु नसोनसिकयोः प्राण. प्राणवायुः अक्ष्यो: अगोर्नेत्रगोलकयोरिति यावत्, चक्षुः चक्षु
1
५०