________________
fusar ]
प्रथमकाण्डम् ।
४९
ज्ञमधिविवाहं कुरुतेत्येव ब्रूयात् । यज्ञमधिकृत्य विवाहं चाधिकृत्य कुरुतेत्येवं वक्तव्यम् । पाप्मानहनोमि कुरुतेत्येवम्, यस्माद्यज्ञविवाहयोरमांसोऽर्धो न भवतीति स्मरणम् । यज्ञविवाह वर्जमन्यत्र पशोरालम्भविकल्पः । ' यद्यप्यसकृत्संवत्सरस्य सोमेन यजेत कृतार्व्या एवेनं याजयेयुर्नाकृतार्थ्या इति श्रुतेः' परिगतसंवत्सरा अर्ध्या भवन्तीत्युक्तं तदपवादोऽयम् । अत एवावगम्यते सोमेन यक्ष्यमाणा एव विजोऽ नेतरैर्यागैरिति ॥ ३ ॥ * ॥
( जयरामः ) -- आवसथ्याधानं दारकाल इत्युक्तं ताराहरणमेव कथं क्रियते इति तदभिधीयते । तत्र च वैवाहिकस्यार्घदानं स्मर्यंते । तत्प्रसङ्गेन यावन्तोऽर्थ्यास्तानाह 'पटू अर्ध्या अर्घा भवन्तीति । तान्विभजते । ' आचार्यः ' उपनयनपूर्वकं वेदाध्यापकः । ' ऋत्विक् ' प्रसिद्धः । 'वैवाह्यो ' जामाता । राजा च प्रियोऽपि । स्नातकः वेदमधीत्य यः स्नातस्तस्याचार्योऽर्घदानं करोत्यादौ ।' प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः । स्रग्विणं तल्प आसीनमर्हयेत्प्रथमं गवा' इत्याचार्यस्योपदेशात् । प्रियस्नातकयोः पृथक्त्वज्ञापनार्थ पड्ग्रहणम् । ' प्रतिसंवत्सरान् ' प्रतिरत्रात्यर्थ: अतिसंवत्सरानित्यर्थः, तेन संवत्सरोपर्यागतानाचार्यादीनप्ययेयुः अर्धदानेन पूजयेयुः नत्वर्वाक्त्संवत्सरादागतान् । यक्ष्यमा - णास्तु यागं करिष्यन्त एवर्लिजोऽर्हयेयुः । संवत्सरो पर्यागतानपि न ततोऽन्यत्रेत्यर्थः । कथमित्यपेक्षायामाह ' आसनमिति ' आसनं पीठादि महार्य स्त्रपुरुपैरानाय्याहार्धयिता ' साधु भवानास्ता - मिति' । अर्घ्यं प्रत्ययेषणमेतत् । ' आहरन्तीति' स्वपुरुपा एव विष्टरमुपवेशनार्थ पञ्चविशच्छलाकारचितं कुशपुलकं पद्यं च विष्टरमेव तादृशम् । पादार्थमुदकं सुखोष्णम् | अर्धशब्देनोदपात्रमुच्यते । तथा च लिङ्गम् —यथा राज़ आगतायोदकमाहरेदेवमेतदिति सोमस्योदपात्र निनयनं विवाथैतदुक्तम् । आचमनीयमुदकमेव, तथा मधुपर्क तस्यैव प्रपञ्चः दधिमधुघृतं, कांस्यभाजने स्थितं कांस्यभाजनेनैवापि हितमाच्छादितम् । अन्यः अर्धयितुर्व्यतिरिक्तः कश्चिद्विष्टरादीनि त्रित्रिः प्राह विष्ट विष्ट विष्टर इत्येवम् । ततोऽर्घयित्राऽर्पितमुभाभ्यां हस्ताभ्यामर्थ्यो गृह्णाति तूष्णीं, ग्रहणमात्रोपदेशात् । वर्मोऽस्मीति मन्त्रेणैनं विष्टरमेवाभ्युपविशति । ग्रहणोपवेशनयोर्मध्ये पठितोऽपि मन्त्रो लिङ्गादुपवेशने विनियुज्यते । लिङ्गं च – ' इमं तमभितिष्ठामि ' इति । अथ मन्त्रार्थः -- तत्र अथर्वणोऽनुष्टुप् धिष्टरो देवता उपवेशने । आत्मानमर्घ्यत्वायार्घ्यः स्तौति कुलज्ञानाचारवपुर्वयो गुणैरहं समानानां सजातीयानां मध्ये वः श्रेष्ठः ज्येष्ठ इति यावत् । अस्मि भवामि । उद्यतां उदयं प्रकाशं कुर्वतां ग्रहनक्षत्रादीनां मध्ये सूर्य इव किंच इमं विष्टरं तं पुरुषमुद्दिश्य विष्टरवद्वद्धम् अभिलक्ष्यीकृत्य अभिभूय वा तिष्ठामि अधः कृत्वा उपर्युपविशामि य: कश्चन मा माम् अभिदासति उपक्षीणं कर्तुमिच्छति । दसु उपक्षये । पादयोरन्यं द्वितीयं विष्टरं ददातीति वाक्यशेपः । स चायमुपदेशो नानुक्रमः प्रक्षाल्य हि पादौ विष्टरे कियेते इति, तस्मात्पाद्योत्तरकालं द्वितीयं विष्टरं ददातीति पाठोऽर्थेन वाध्यते । तथा चोत्तरसूत्र --- ' विष्टर आसीनायेति ' तेनैकस्मिन्विष्टरे आसीनस्य पादप्रक्षालनं ततो द्वितीयविष्टरदानमिति । अर्घ्यश्च पूर्ववत्तूष्णी प्रतिगृह्य पुनर्वष्मोंऽस्मीति मन्त्रेण निदधाति प्रक्षालितपादयोरधस्तात् । प्रक्षालनं चाञ्जलिना विराजोदोहोऽसीति मन्त्रेण स्वयमेव । यदि ब्राह्मणोऽस्तदा दक्षिणं प्रथमं प्रक्षालयेन्नान्यः । अनेन मन्त्रावृत्तिरवगम्यते । तत्र मन्त्रः । ' विराजो दोहोऽसीति ' अस्यार्थः तत्र प्रजापतिर्यजुरापः पादयोर्जलप्रक्षेपे । प्राणधारणादिगुणैः सकलसौहित्येन विविधतया राजत इति विराडन्नं तस्य विराजो दोहः परिणामसारो रसः स त्वम् असि भवसि । हे उदक तं त्वां विराजो दोहम् अशीय अश्नुवै । छान्दसो विकरणलोपः । किंच मयि विषये या पाद्या पादयोः साध्वी सपर्या तस्यै तदर्थं विराजोदोहः मन्त्रसंस्कृतं जलं भवेति शेषः । अर्धोऽयोंऽर्वः प्रतिगृह्यतामित्यन्येनोक्ते अर्थोऽर्यं प्रतिगृह्णाति आपः स्थेति मन्त्रेण । अर्व्यतेऽनेनेत्यर्थः आप एव मन्त्रलिङ्गात् ।
1
19