________________
४८
पारस्करगृहासूत्रम् ।
[ तृतीया
र्ष्या भवन्तीति पडर्घाह भवन्तीत्यर्थः । तानाह ' आचार्य: स्नातकः इति ' । प्रियस्नातकयोः पृथक्त्वज्ञापनार्थं पड्ङ्ग्रहणम् । उपनयनपूर्वकं यो वेदमध्यापयति स आचार्यः । ऋत्विक् प्रसिद्धः । वैवा जामाता । राजा च प्रियश्च प्रसिद्धौ । वेदमधीत्य यः स्नातस्तस्याचार्योऽर्घदानं करोति । एवं हि स्मरन्ति तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः । त्रग्विणं तल्प आसीनमर्हयेत्प्रथमं गवेति । आचार्यस्यायमुपदेशः । ' प्रतिसंवत्सरानर्हयेयुः ' आचार्यादीनपि । नत्वर्वाक् संवत्सरादागतान् । यक्ष्यमाणास्त्वृत्विजः । ऋत्विजः पुनर्यक्ष्यमाणा एवार्ध्याः न ततोऽन्यत्र । 'आसनमा भवन्तमिति' । अर्ध्य प्रत्यध्येपणमेतत् । आहार्येत्यानाय्येत्युच्यते । ' आहरन्ति कास्येन ' विष्टरः उपवेशनार्थ विष्टारिका । पद्यं च विष्टरम् । पादार्थमुदकं सुखोष्णम् । अर्वम् अर्थशन्देन च उदपात्रमेवोच्यतं । तथाच लिङ्गम् —यथा राज्ञ आगतायोदकमाहरेदेवमेतदिति सोमस्योदपात्रनिनयनं विधाय एतदुक्तम् | आचमनीयमुदकमेव । तथा मधुपर्क दधिमधुघृतं कास्यपात्रे स्थितं कांस्येनैचापिहितम् । 'एतान्याहरन्ति' बहुवचननिर्देशादर्धयितुः संबन्धिनः पुरुपाः । उधारणार्थे वा बहुवचनम् ।' अन्यस्त्रिस्त्रिः ग्राह विष्ठरादीनि ' अर्धयितुर्व्यतिरिक्तोऽन्यो विष्टादीनि त्रित्रिः प्राह विष्टरो विटगे विष्टरः प्रतिगृह्य - तामित्येवम् ।' विष्टरं प्रतिगृहाति : तूष्णीमेव । वर्मोऽस्मि समानानामित्यनेन मन्त्रेण विर एवाभ्युपविशति । ग्रहणोपवेशनयोर्मध्ये मन्त्रः पठितः स लिङ्गादुपवेशने विनियुज्यते, लिङ्गं हि भवति इमं तमभितिष्टामीति । पादयोरन्यं द्वितीयं विष्टरं ददातीति वाक्यशेपः । स चायमुपदेशः प्रक्षाल्य हि पादौ विष्ट क्रियेते, तस्मात्पाद्येोत्तरकालं द्वितीयं विष्टरं ददातीति पाठोऽर्थेन बाध्यते । तथाचोत्तरं सूत्रम् । विष्टर आप्रक्षालयतीति । एकस्मिन्नेव विष्टरे आसीनस्य पादप्रक्षालनम् । ततो द्वितीयो विष्टर इति । श्राह्मण दोहोऽसीति ' यदि ब्राह्मणोऽर्थस्तदा दक्षिणं प्रथमं प्रक्षालयेत् । विराजो दोहोऽसीत्यनेन मन्त्रेण । पादार्थमुदकं गृहीत्वा प्रक्षालयत्यर्घ्य एव । 'अर्ध प्रतिष्माभिः' इत्यनेन मन्त्रेणा एव । लिड्गादेवावगम्यते आप एवार्ध इति । ' निनयन्नभिमन्त्रयते समुद्रं वः प्रहिणोमीति 'न मन्त्रान्ते निनयनम् । 'आचामत्यामागन्यशसा ' इत्यनेन मन्त्रेण । 'मित्रस्य त्वेति मधुपर्के प्रतीक्षते ' अर्घ्यः । सर्वेषु चैतेषु त्रिस्त्रिरेतानि द्रव्याण्यभिधाय प्रतिगृह्यतामित्यर्घ्यमाहान्यः 'देवस्यत्वेति प्रतिगुहाति' मधुपर्कम् । 'सव्ये पाणी - "स्यायान्' इत्यनेन मन्त्रेण सव्ये पाणौ स्थितं तमेव मधुपकैं दक्षिणस्यानामिकया त्रिः प्रयौति । अनामि रुक्षयति' दक्षिणस्यैव, चराब्दात्प्रयौति च । अतश्च प्रतिप्रयवणं निरुक्षणम् । एवं च त्रिर्निरुक्षणं व्यवधानात्प्रतिप्रयवर्णं मन्त्राभ्यास. । ' तस्य त्रिः प्राभाति यन्मधुनो मधव्यमिति ' अनेन मन्त्रेण | 'मधुमतीभिर्वा प्रत्यृचं ' प्राश्नाति । उच्छिष्टस्यैव मन्त्रोच्चारणम् । एवं हि स्मरन्ति - मधुपर्के च सोमे च नोच्छिष्टो भवति इति । ' पुत्रायोच्छिष्टं दद्यात् ' यदवशिष्टं मधुपर्कस्य । ' सर्वे वा प्राश्नीयात् ' प्राग्वाऽसञ्चरे निनयेत्' इति विकल्पः । आचम्य प्राणान्संमृशति 'वाङ्म आस्य' इत्येवमादिभिर्मन्त्रैः प्रतिमन्त्रम् | अनाचान्तस्यैव प्राणायतनसंमर्शनं माभूदित्याचम्येति ग्रहणम् । साकाङ्क्षत्वादस्त्वित्यध्याहारः । मे इत्यस्य च सर्वत्रानुषङ्गः । अरिष्टानि मेऽङ्गानि तनूरित्यत्र सन्त्वित्यध्याहारः । ' आचान्तोदकाय शासमादाय गौरिति त्रिः प्राहेति ' आचान्तोदकग्रहणं पुनराचमनमिति केचित् । अपरे त्वाहु: - आचान्तमुदकं येनासावाचान्तोदकः तदर्थे शासादानमिति । वादयै च पश्वालम्भनस्य तदर्थत्वात् । गौरिति त्रिः प्राहार्धयिता । ' प्रत्याह माता रुद्राणामिति ' प्रत्याहाघ्यों मातारुद्राणामित्यमुं मन्त्रम् । तदन्ते च मम चामुष्य च पाप्मानर्थं हनोमीति प्रयोगः । अमुष्येति चार्चयितुर्नामग्रहणम् । यद्यालभेत पाप्मानं हनोमीति प्रयोगः । ' अथ यद्युत्सृब्रूयात् ' अत्राप्यमुष्येत्यर्थयितुर्नामादेशः । ॐ उत्सृजत तृणान्यत्वित्येतदुधैर्ऋयात् निगदो ह्ययमिति । शेषमुपाश्वेव । नत्वेवामांसोऽर्घः स्यादधिय
"
;
1
1