________________
४६
पारस्करगृह्यसूत्रम् ।
[ तृतीया
1
मासानां तु हुताशनम् । त्यक्त्वातिकृछ्रं कुर्वीत ततः पापात्प्रमुच्यते । तथा । पण्मासास्त्यजते योऽग्निं पाराकं स समाचरेत् । ऊर्ध्वं पयोव्रतं कुर्यान्मासमेकं समाहितः । इति । संवत्सर राधिककालातिक्रमे पयोव्रतं कृत्वा द्वैमासिकादि समाचरेत् । तदुक्तं स्कंदपुराणे - ऊ संवत्सरादग्निं यस्त्यजेल्स पयोव्रतम् । द्वैमासिकं ततः कृत्वा त्रैमासिकमथापि वा । एवमधिकोन कालीनाग्निपरित्यागे प्रायश्चित्ताधिक्यं न्यूनत्वं च परिकल्पनीयम् । त्यागकालीनहौम्यं च विप्रेभ्यो देयम् । तदुक्तं भारद्वाजगृहे, यावत्कालमहोमी स्यात्तावद्द्रव्यमत्रेपतः । तहानं चैव विप्रेभ्यो यथा होमस्तथैव तदिति । एवं प्रायचित्ताचरणं कृत्वा हौम्यं च दत्त्वा पुनराधानं कुर्यात् । एतच नास्तिक्यादग्निपरित्यागे । विपत्तौ तु शरीरशुद्धि संपाद्य हौम्यं दत्त्वा पुनराधानं कुर्यात् । प्रसङ्गात्पुनराधाननिमित्तान्युच्यन्तेअग्नावनुगते यस्य होमकालद्वयं व्रजेत् । उभयोर्विप्रवासे वा लौकिकाग्निर्विधीयते ॥ १ ॥ एवं, विहायाग्निं सभार्यश्वत्सी मामुल्लङ्घय गछति । होमकालात्यये तस्य पुनराधानमिष्यते ॥ २ ॥ अनो विना समारूढ ऊर्द्ध शम्यापरासनात् । हृतोऽभिलौकिको ज्ञेयः श्रुतौ सर्वत्र दर्शनात् ॥ ३ ॥ कुरुक्षेत्रादितीर्थानां गमने देशविप्लवे । समारोपं विनैवानि नोद्वहेयुर्विपश्चितः ॥ ४ ॥ आरोप्याऽनीनरण्योः स्वानुदवस्येत्सहाग्निभिः । मध्यमानस्य दृष्टस्य नाशे, प्रत्यक्षस्य सीमान्तरनयने होमं विना वर्षातिक्रमे, उदकेनोपगमे, शिक्येनोद्वहनेऽग्नि विना शतयोजनपर्याप्तमार्गातिक्रमे, अन्त्य - जादिनाग्नेरुपघाते प्रसिद्धक्रियालोपे प्रवासादिनाऽग्नेरुपेक्षायां प्रमादादधारणे, यजमानयोः प्रवासे होमसमयेऽनागतयोरेकपत्नीके पत्यौ प्रवसिते पत्न्याः अग्नि विना समुद्रगनदीसंतरणे भयेन च विनानिना सहापि तादृगनदीसंतरणे पत्न्याः सीमातिक्रमणे पत्यावनागते एके, एवं पत्न्या रजोदोषे सूतके मृतके वा होमकाले वा पर्वणि वा यजमानस्य प्रवासे धूपदीपादिकरणे, स्वेदादिकरणे प्रत्यहीयपाकाकरणे, अव्यवधानं पक्षत्रयसमारोपेऽनुपहताभ्यां पूर्वारणिभ्यां पुनराधानं कुर्यात् । अनुपहतेति पूर्वारणी मन्थनादिना मन्थनायोग्ये चेत्तदाऽन्ये शास्त्रोक्तलक्षणे नूतने ग्राह्ये । अनुपहते अयोग्ये शकलीकृत्य दाो । उपहते तु अप्सु निक्षेप्तव्ये । नष्टायामप्यरणौ अग्निश्चेद्वेश्मनि तिष्ठेत्तदाग्निस्थितिपर्यन्तं होमादि सर्वं कुर्यात् । उपशान्ते तस्मिन्पुनराधानं कुर्यात् । पुनराधानमप्याधानवद्भवति । प्रवसिते भर्तरि आधानं पुनराधानं च न भवति । काम्यनित्यनैमित्तिकानुष्ठानं भवति । साग्निकस्य धनार्थमेव प्रवास इति केचित् । अपरे तु सहाग्नि' सपत्नीकस्तीर्थानि व्रजेदित्याहुः । वचनसद्भावादुभयं समूलम् । यस्तु नास्तिक्यादग्नि परित्यज्य पुनराधानादि न कुर्यात् स पतितवद्बहिः कार्यः । पुनश्चेचिरकालेन व्यवहर्तुमिच्छति तदा द्वादशाब्दं कारयित्वा व्यवहर्तव्यम् । तदुक्तं स्वकर्महानौ नास्तिक्यान्मासेन पतनं स्मृतम् । द्वादशाब्दव्रतेनैव शुद्धिस्तस्य तु नान्यथा । नास्तिक्यं तु वेदप्रामाण्यानभ्युपगमः । अन्यथा क्रियावाहुल्यपरित्यागे स्वल्पप्रायश्चित्तानुपदेशप्रसङ्ग इति पश्यामः ॥ २ ॥
षडर्ष्या भवन्त्याचार्य ऋत्विग्वैवाह्यो राजा प्रियः स्नातक इति ॥ १ ॥ प्रतिसंवत्सरानर्हयैः ॥ २ ॥ यक्ष्यमाणास्त्वृत्विजः ॥ ३ ॥ आसनमाहायह साधु भवानास्तामर्चयिष्यामो भवन्तमिति ॥ ४ ॥ आहरन्ति विष्टरं पद्यं पादार्थमुदकमर्घमाचमनीयं मधुपर्क दधिमधुघृतमपिहितं कास्ये कांस्येन ॥ ५ ॥ अन्यस्त्रिस्त्रिः प्राह विष्टरादीनि ॥ ६ ॥ विष्टरं प्रति - गृह्णाति ॥ ७ ॥ वर्मोऽस्मि समानानामुद्यतामिव सूर्यः । इमं तमभितिष्ठामि