________________
aurat ]
प्रथमकाण्डम् ।
5
}
वरुणायादितये ७ । इदं जातवेदोभ्याम् ८ ' पुरस्तात् । एवमुपरिष्टात्स्थालीपाकस्याग्न्याधेयदेवताभ्यो हुत्वा जुहोति प्रागुक्ताभ्यः अग्निहोत्रदेवताभ्यः स्विष्टकृत्सहिताभ्यः स्थालीपार्क हुत्वा पुरस्ताद्यथाऽष्टचहोमः कृतः एवमुपरिष्टात्स्थालीपाकहोमानन्तरमचे जुहुयादित्यर्थः । ननु पुरस्तादित्येतत्पदं व्यर्थमाज्यभागाविष्ठाज्याहुतीरित्यनेनैव म्थालीपाकहोमात्प्राक्तस्य लब्धत्वादिति चेत् । न । उत्तरसूत्रातिदेशप्राप्त्यर्थत्वात् । स्विष्टकृते गातुविद् इति । अत्र चशन्दोऽप्यर्थः । अपिश्च समुच्चयार्थः पुरस्तादेवमुपरिष्टादित्येतत्सूत्रांशं समुचिनोति । स्विष्टकृद्धो मेऽप्ययास्यग्नेरित्यारभ्य विदः स्वाहेत्यन्तामाज्याहुतिं पुरस्तादेवमुपरिष्टाज्जुहोतीत्यन्वयः । तथाच स्थालीपाकेन प्रधानाश्चतस्त्र आहुतीर्हुत्वा अयास्यग्नेरित्याज्याहुतिं हुत्वा स्थालीपाकेन स्त्रिष्टकृद्धोमं कृत्वा पुनरयास्यग्न इत्याज्याहुति जुहुया - दित्यर्थः । ततः स्थालीपाकहोमोत्तरकालीनोऽप्रर्चहोमः । ततो महाव्याहृत्यादिप्राजापत्यान्ता नित्या वक्ष्यमाणा नवाहुतयः । वर्हिर्हत्वा प्राश्नाति पाकयज्ञेष्ववत्तस्यासर्वहोमो हुत्वा शेषप्राशनमित्यस्यानुवादोऽयं प्राश्नातीति । एतच कदा कर्तव्यमित्याकाङ्क्षायामुक्तं बर्हिर्हुत्वेति । प्राश्नातीत्यनेन श्रुतौ दृष्टानि प्रतिपत्तिकर्माणि लक्ष्यन्ते । तथाहि । मार्जनं पवित्रयोः स्मार्त्तग्नौ प्रक्षेपः, ततः पूर्णपात्रवरयोरन्यतरदावसध्याधानस्य सागतासिद्धर्थं पूर्णपात्रं वरं वा दक्षिणां चतुर्मुखप्रीतये संप्रददे इति संकल्प्य कस्मैचिद्विप्राय दद्यात् । चतुर्थी कर्मादौ उपविष्टाय ह्मणे दद्यात् । ततः सर्वप्रायश्चित्तहोमः । व्यस्ताः समस्ताश्चतस्त्रो महाव्याहृतयः, त्वन्नः सत्वन्नः, अयाश्चाग्ने, येतेशतं, उदुत्तमम् एतदाहुतिनवकं सर्वप्रायश्चित्तसंज्ञ, ततः प्रणीताविमोकः, तत एकस्मै चक्ष्यमाणलक्षणाय ब्राह्मणाय भोजनं दद्यात् । कर्मापवर्गे समित्प्रक्षेपोऽग्नौ । उत्सर्जनं ब्रह्मणः उपयमनकुशानामग्नौ प्रक्षेपः । अयं च पदार्थक्रमः प्राश्नातीत्येतत्सूत्रलक्षितो लभ्यते । ' ततो ब्राह्मणभोजनम्, आवसभ्ये त्रयस्त्रिशदिति परिशिष्टात्रयस्त्रिंशत्संख्याकेभ्यो ब्राह्मणेभ्यो भोजनदानम् । केचित्तु त्रयोविंशतिमिति पाठमाहुस्तन्मते त्रयोविंशतिसंकख्याकेभ्य एव भोजनदानम् । ते चाध्ययनशीलास्तपस्विनो ज्ञेयाः । शाङ्खायनगृह्यकारोऽपि । कर्मापवर्गे ब्राह्मणभोजनं वाग्रूपवयः श्रुतशीलवृत्तानि गुणाः श्रुतं तु सर्वानत्येति न श्रुतमतीयात् । मन्त्राश्च ब्राह्मणं चैव श्रुतमित्यभिधीयते । अधिदैवतमध्यात्ममधियज्ञमिति त्रयम् । क्रियावन्तमधीयानं श्रुतवृद्धं तपस्विनम् । भोजयेत्तं सकृद्यस्तु न तं भूयः दश्नुते (?) यांतितर्पयिषेकांचिद्देवतां सर्वकर्मसु । तस्या उद्दिश्य मनसा दद्यादेवंविधाय वै । नैवंविधे हविर्न्यस्तं न गच्छेद्देवतां कचित् । निधिरेष मनुष्याणां देवानां पात्रमुच्यते इति । तथा चैवंविधानां ब्राह्मणानां त्रयस्त्रिंशत्संख्याकानां त्रयोविंशतिसंख्याकानां वा भोजनमिति पष्ठीतत्पुरुषः । प्रयोगञ्चैवम् - देशकालौ संकीर्त्य कृतैतदावसथ्याधानकर्मणः साङ्गतासिद्ध्यर्थं यथासंपन्नेनान्नेनातृप्तिपर्याप्तेन त्रयस्त्रिंशत्संख्याकान् त्रयोविंशतिसंख्याकान्वा ब्राह्मणानहं तर्पयिष्ये इति । एतेन लाघवादेकमेव ब्राह्मणमावसथ्ये भोजयेदित्येवं वर्णयन्तो हरिहरादयः प्रत्युक्ता वेदितव्याः । ततः सुप्रोक्षितादि कृत्वा आत्मवाससी पत्नीवाससी च अध्वर्यो तुभ्यमहं संप्रदद् इत्यात्मपत्नीपरिहितवस्त्रदानमध्वयवे, बृहस्पतये त्वेति प्रतिग्रहः । ततो यजमानस्य माङ्गल्याद्याशीर्वादांश्च द्विजाः पठेयुः । इत्यावसध्याधानम् ।
J
प्रसङ्गात्किचिल्लिख्यते । अधिकारे सत्यालस्याद्वर्षमाधानाकरणे चान्द्रायणम् । मासातिक्रमे त्वेकमुपोषणम् । तदुक्तं --- कृतदारो गृहे ज्येष्ठो यो नादध्याद्भुताशनम् । चान्द्रायणं चरेद्वर्षे प्रतिमासमहोऽपि वा । अथ कृताधान आलस्याच्चेदग्निं त्यजति मासद्वयं स प्राजापत्यं चरेत् । मासचतुष्टयं चेदतिकृछ्रम् । मासषटुकं चेत्पाराकः । संवत्सरं चेत्पयोत्रतम् । तदाह व्याघ्रपादः ----मासद्वयं तु यो वह्निं त्यजेदेतत्समाचरेत् । नास्तिक्यात्कृछ्रमेकं तु होमद्रव्यं ददाति चेत् । तथा योऽग्निं त्यजति नास्तिक्यात्प्राजापत्यं चरेद्दिजः । अन्यत्र पुनराधानमुपदिष्टं मनीषिभिः । तथा । चतुष्टये तु संपूर्णे