________________
९]
परिशिष्टम् ।
५४५
देशात् । तथा च स्मृतिदर्पणे- एकस्मिन् वा द्वयोर्वापि विद्युच्छत्रेण वा मृतौ । एकोद्दिष्टं सुतः कुर्यात्रयाणां दर्शवद्भवेत् । तथा पित्रादयस्त्रयो यस्य शस्त्रघाता अनुक्रमात् । स सुतः पार्वणं कुर्यात्पत्रादेर्न पृथक् पृथगिति । एकोद्दिष्टमिति शेषः । स्मृतिचन्द्रिकायामपि --- एकस्मिन् द्वयोर्वैकोद्दिष्टविधिरिति । त्रयाणां पार्वणमित्यर्थः । अनेक आहुः रणे संमुखप्रहारैर्हतशूराणामपि शत्रहतत्वाच - तुर्दश्यामेवेति । तदयुक्तम् । तेषां परमगतित्वात् । तथा च पुराणसमुइये - वितत्य रणयज्ञं ये गोब्राह्मण हितैषिणः । स्वामिपादाग्रसंलग्ना यन्निशखैश्च खण्डशः । न ते शस्त्रहतैस्तुल्या पुराणज्ञैरुदाहृताः । न च तिर्यत् (?)क्रामयन्ति सुरमन्दिरम् । श्रूयते चात्र गाथेयं भार्गवाङ्गिरसे मतम् । द्वाविमौ पुरुपौ लोके सूर्यमण्डलभेदिनौ । परिव्राड् योगयुक्तश्च रणे चाभिमुखो हतः । इति । यत्तु प्रीयन्ते पितरश्चास्य ये शस्त्रेण रणे हताः । इति मनुना चतुर्दश्यामुक्तं तत्पराङ्मुखहतादिविषयमित्यविरोधः । न च संमुखपराङ्मुखादिशस्त्रहतयोः साम्यमुचितम् । तस्मात्संमुखरणहतानां चतुर्दश्यां श्रद्धं नेति । अत्रान्येऽप्यपवादाः पुराणसमुच्चये मृताश्चान्याश्च बहुशो ब्रह्मक्षत्रविशां स्त्रियः । गताश्च पतिभिः सार्धं सतलोकं सनातनम् । नैता शस्त्रहतैस्तुल्याः याश्चान्याः पतिना सह । म्रियन्ते पतिभक्त्या तु J लोकं प्राप्नुवन्ति ताः । न च संन्यासिनां श्रद्धं कर्तव्यं च चतुर्दशीम् । तपः संन्यासयोगेन ते यान्ति परां गतिम् | ये म्रियन्त्यातुरत्वेन भृग्वग्न्यनशनाम्बुभिः । नैव शस्त्रहतास्तेऽपि मवस्थान्तरगर्हिताः । न शत्रहतभिस्तुल्या आतुरत्वान्मृता यतः । एतेषां नापमृत्युं तं पुराणज्ञा वदन्ति हि । अत्यातुर्त्वात्संन्यासिनोऽत्र श्रुतिविरोधनम् । यथाऽत्र श्रूयते गीतं पुराणज्ञैः पुरातनैः । न देववचनात्तात न लोकवचनादपि । मतिरुत्क्रमणीया ते प्रयागमरणं प्रतीति । एतव्यतिरिक्तेभ्यश्चतुर्दश्यां श्राद्धाकरणे तत्रैवोक्तम् | जन्मान्वपङ्गुविकला वाग्जडा लुमचूचुकाः । न कुर्वन्ति च ये श्रद्धं कृष्णपक्षे चतुर्दशीम् । दद्याच्छाहतेभ्यश्व इति प्राह पुरा श्रुतिरिति । चतुर्दश्याः पूर्वमष्टम्यादौ पश्चादमायामित्यर्थः । कात्यायत्तोऽपि --- शस्त्रादिभिर्हतस्यापि कुर्यात्प्रतिदिनं सुतः । पार्वणं कृष्णपक्षे तु वर्जयित्वा चतुर्दशीम् । उशनाः:--यदि कालान्तरे वाऽपि यदा शस्त्राद्विपद्यते । सोऽपि शस्त्रहतो ज्ञेयस्तस्य शस्ता चतुर्दशी । बृहन्मनुः -- महालये चतुर्दश्यां मघायां पुत्रवानपि । पिण्डनिर्वपणं कुर्यात् नृत्यर्थं शस्त्रघातिनः । इति । अत्र विशेषो वृद्धयाज्ञवल्क्येनोक्त:-- स्वस्थमृत्युः पिता यस्य शस्त्रधाती पितामहः । पार्वणं तस्य विज्ञेयं त्रयस्ते शस्त्रघातकाः । यथा विहङ्गः पक्षाभ्यामङ्गमाश्रित्य तिष्टति । तथा पिता च वृद्धश्च पितामहसमाश्रिताविति तत्सदाचाराभावा चिन्त्यम् । यदि त्वस्यामेव चतुर्दश्यां पित्रोः क्षयाहस्तदापि प्रेतपक्षमृतत्वात्पार्वणसेवेति चेत् तन्न । आपाढ्याः पश्चमे पक्षे प्रेताख्ये तु क्षयो यदि । पार्वणं तत्र कुर्त्रीत वर्जयित्वा चतुर्दशीमिति गौतमोक्तेः । साग्निविषयं पार्वणं चेत्यविरोधः | 'अमावास्यायार्थं सर्वमित्यमावास्यायार्थं सर्वमिति' सर्वे सर्वे कामा: । अमावास्यायां श्राद्धकरणेन सर्वकामांभत इत्यर्थः । तथा च पुराणसमुच्चये --- श्राद्धं कुर्वन्नमात्रास्यां यत्नेन पुरुषः शुचिः । सर्वान्कामानवा - प्नोति · · · तिथ्यामुदायतः । इति । अस्य निरुक्तिस्तत्रैव । कलानामाप्यायनार्थे रविविंशतिचन्द्रमाः । सुपुन्नाख्या कला यासौ सूर्यस्यास्यचमा स्मृताः । विंशतिद्वौ ल्वौ तस्यां चन्द्रमाः सूर्यमण्डले । अमाचन्द्रस्य संयोगादमावास्यां विदुर्बुधाः । इति । अपरपक्षे श्राद्धमाह यमः --- -हंसे वर्षासु कन्यास्ये शाकेनापि गृहे वसन् । पञ्चम्योरन्तरे दद्यादुभयोरपि पक्षयोः । सुमन्तुः कन्याराशौ महाराज यावत्ति - ष्ठेद्विभावसुः । तावत्कालं भवेदेवं वृश्चिकं यावदागतम् । येयं दीपान्त्रिता राजन ख्याता पञ्चदशी भुवि । तस्यां देयं न वेद्दत्तं पितॄणां वै महालय इति । अत्र शुद्धपञ्चमी तुलासंक्रान्तिदीपा मावास्यावृचिकसंक्रान्तिश्चेति पूर्वपूर्वासंभव उत्तरोत्तरं श्राद्धकाला इत्यर्थ. । द्विरुक्तिर्मङ्गलार्था । इतिशब्दः समातौ । अत्रैतचिन्त्यते - विश्व कर्ताचे तदा किमपरपक्षे श्राद्धं त्रिपिण्डकं कुर्यादुत पपिण्डकमिनि ।
•
}
૬૬