________________
५४४ पारस्करगृह्यसूत्रम्।
[ श्राद्धसूत्रद्वयोरुद्देशः । तत्र लौगाक्षिः-मृताहनि समासेन पिण्डनिर्वपणं पृथक् । नवश्राद्धं तु दंपत्योरन्वारोहण एव तु । अस्यार्थः-दंपत्योरन्वारोहणे मृताहे समासेन पिण्डनिर्वपणम् । नवश्राद्धं पृथगित्यन्वयः । नवश्राद्धं श्राद्धषोडशोपलक्षणम् । समासः पाकाद्यैक्यम् । तुशब्दो विशेषे । ततश्च दंपत्योरेकचित्यन्वारोहणे षोडशश्राद्धेष्वेव पृथक्पृथक्पाकपिण्डौ अन्यत्र पाकैकेनैक पिण्डे द्वयोरुद्देशः । मृततिथौ भिन्ने त्वाब्दिकप्रेतश्राद्धयोः पृथपिण्ड एवेति । निश्चितमेतदित्येवशब्दार्थः । तथा च-एकचित्यां समारूढौ दम्पती निधनं गतौ । पृथकू श्राद्धं तयोः कुर्यादोदनं च पृथक् पृथगिति । तथा-एकचित्यधिरोहे चेति तिथिरेकैव जायते । एकपाकेनैकपिण्डे द्वयोर्गृहीत नामनी । इति देशकालद्रव्यदेवकनैक्ये तात्रिको विधिरिति च । अत्रैके भर्तुः क्षयाहे सर्वासामेव पृथपिण्ड इत्याहुः। तन्न । तस्य पतिव्रताविषयत्वात् । तथा च भृगुः-या समारोहणं कुर्यातुश्चित्यां पतिव्रता । तां मृताहनि संप्राप्ते पृथपिण्डे नियोजयेत् । प्रत्यव्दं च नवश्राद्धं युगपत्तु समापयेत् । अपि च पुराणमुच्चये-या काचिन्म्रियते नारी पत्या सह पतिव्रता । तस्याः श्राद्धं पृथकुर्यादेकोद्दिष्टं विधानतः । विधानत इति युगपत्समापयेदिति, चतुर्भिः क्षयाहे पूर्व भर्तृद्विजोपवेशनं पश्चात् स्त्रिया इत्येवं क्रमेणैकदैव सर्वं श्राद्धमित्यर्थः । पतिव्रतात्वात् । तथा अथ केचिन्न चेच्छन्ति पृथक् श्राद्धं तु योषिताम् । वदन्ति पतिना साधै मूढास्ते मे मतेन तु । सपिण्डीकरणादूर्ध्व पृथक्त्वं न विधीयते । ते बालिशा न तेषां वै ग्राह्यं वाक्यमजानताम् । पृथक् श्राद्धं च मातृणां कर्तव्यं वा प्रदक्षिणमिति । पठन्ति च-परदेशे मृतो भर्ता श्रुत्वा नारी पतिव्रता । तिथिरेका विशुद्धौ स्यात्पिण्डं दद्या (त्पृथक्पृथ) गिति । अन्न विशेष:--अनेकस्त्रीभिरनेकभृत्यैर्वा स्वामिना सह स्नेहान्मरणे पाक्यादौ नैव स्वामिगोत्रेण वा पृथपिण्डदानं कर्तव्यम् । तथा च पुराणसमुच्चये-मृतानामथ भृ. त्यानां भार्याणां पतिना सह । तन्त्रेण अपणं कृत्वा श्राद्धं स्वामिक्षयेऽहनि । श्राद्धं पृथक्पृथक्कुर्यास्वामिगोत्रेण कृत्स्नशः । स्वामिचित्यवरोहेणभृत्योभ्रश्येत् स्वगोत्रतः। इति । भृगुरपि-एककालगतासूनां बहूनामथवा द्वयोः । तन्त्रेण अपणं कृत्वा श्राद्धं कुर्यात्पृथक्पृथक् । पूर्वकस्य मृतस्यादौ द्वितीयस्य ततः पुनः । तृतीयस्य ततः कुर्यात्संनिपातेष्वयं क्रमः । पूर्वकस्य मृतस्येति ज्येष्ठानुक्रमेण लघूनामुत्तमाधमक्रमेणेत्यर्थः । यत्त्वेकचित्त्यां समारूढौ चेति वचने पृथक्पृथगादानमुक्तं तदेकपतिव्रतस्त्रीविषयमित्यविरोधः । स्मृत्यर्थसारे-सहदहने तु पिण्डश्राद्धादौ पाकैक्यं कालैक्यं क...क्यमिति । 'युवानस्तत्र म्रियते शस्त्रहतश्चतुर्दश्याम् ' युवानो ये म्रियन्ते शस्त्रहतश्च तत्रापरपक्षे चतुर्दश्यामेकोद्दिष्टं प्राप्नुवन्तीत्यर्थः । तथा च स्मृतिचन्द्रिकायां-चतुर्दश्यां तु यच्छ्राद्धे सपिण्डीकरणे कृते । एकोहिटविधानेन तत्कुर्याच्छनघातिनः । इत्यादि । मार्कण्डेयोऽपि युवानः पितरो यस्य मृताः शस्त्रेण वा हताः । तेन कार्य चतुर्दश्यां तेषामृद्धिमभीप्सतेति । ननु चात्र शत्रहतस्यैव नान्यस्येति मिताक्षरादिनिवन्धकृद्भिनियमितत्वात्कथं युवान इत्युक्तम् । तत्र च वृद्धयाज्ञवल्क्यः-श्राद्धदाने चतुर्दश्या विनाशस्त्रहतं मृतम् । ज्येष्ठपुत्रो विनश्येत पितॄणां चाप्यधोगतिरिति । अतो युवान इति त्रयोदश्या योजनीयमिति चेत्, नैवम् । युवशब्दस्य विशेषादिना सर्पहताग्रुपलक्षकत्वात् । तथा च वृद्धयाज्ञवल्क्यः-मृत्काप्ठपललोहेपु विद्युद्वालविपादिभिः । नखिदंष्ट्रिविपन्ना ये विप्रशापहताश्च ये । शीतवातविपन्ना ये शखघातहतास्तथा । पापमृत्युहता ये वै तेषां शस्ता चतुर्दशीति । अथवा युवानस्तत्र म्रियन्त इति पाठस्तत्र । यतस्त्रयोदश्यां श्राद्धं प्रशस्तं तस्मात्तद्हे युवानो न म्रियन्त इत्यर्थः । त्रयोदश्यामेव । तथा च महाभारते-जातीनां तूत्तरे श्रेष्ठः कुर्याच्छाद्धं त्रयोदशी। नवम्यां तु युवानोऽस्य प्रमायतमिगृह इति । शस्त्रहत इत्येकत्वं तत्रये पार्वणं सूचयति । तेन पित्रादित्रये शस्त्रहते पार्वणमित्यर्थः । अत्रैक आहुः त्रयाणामपि शस्त्रहतत्वे पृथक पथगेकोद्दिष्टमेवेति । तदयुक्तम् । पार्वणस्यैवानि