________________
कण्डिका ९]
परिशिष्टम् । श्चैवाप्नुयात्सर्वान्विप्राणां संपदं तथा । एकादश्यां परं स्थानमैश्वर्य सन्ततिं तथा । इति । अत्रैतच्चिन्त्यते-अपुत्रादीनामेकोदिष्टेन किं तिथिनियमोऽस्ति न वा इति । तत्रैक आहुः-संवन्धिवान्धवादीनामेकोद्दिष्टं सदैव हि । अपुत्रा ये मृताः केचित्पुरुषा वा स्त्रियोऽपि वा । तेषामपि च देयं स्यादेकोद्दिष्टं न पार्वणम् । सपिण्डीकरणादू यत्र यत्र प्रमीयते । भ्रात्रे भगिन्य पुत्राय स्वामिने मातुलाय च । पित्राधगुरवे श्राद्धमेकोद्दिष्टं महालये । इति कात्यायनापस्तम्बादिवचनं महालये यत्र तत्रापीति । तद्युक्तम् । तिथिनियमस्योक्तत्वात् । तथा च पुराणसमुच्चये-अपुत्राणां च बन्धूनामृत्विगाचार्ययोर्गुरोः । एकोद्दिष्टं सदा कार्य पितृपक्षे विशेषतः । न पार्वणाधिकारोऽस्ति येषां कन्यागते रवौ । एकादश्यां तु कृष्णायां तेषां श्राद्धं समाचरेत् । अन्यञ्च एकादश्यां न कुर्वीत एकोद्दिष्टानि कृत्स्नशः । यद्वा द्विदैवतो विष्णुः पितृवर्गस्य नित्यशः । वृद्धशातातपोऽपि-पितृष्वसृमातृष्वसृपितृव्यभ्रातृमातुलैः । अनपत्यासु भार्यासु एकोदिष्टं समाचरेत् । मातुलों भागिनेयश्च स्वस्त्रीयों भ्रातृजस्तथा । श्वशुरश्च गुरुश्चैव सखा मातामहस्तथा । एतेषां चैव भार्याणां स्वसुर्मातुः पितुस्तथा । श्राद्धमानं तु कर्तव्यमिति वेदविदां स्थितिः । इति । भागिनेयः पितृव्यपुत्रीपुत्र इत्यपौनरुत्त्यम् । मातामहः सपत्नमातृपिता । साग्नेरप्यत्रैकोद्दिष्टमेव । तथा च पुराणसमुच्चये अग्निमन्तो द्विजा ये तु तेषां कन्यागते रवौ । पितृव्यभ्रातृवन्धूनामेकोदिष्टं प्रशस्यते । इति । 'धन धान्य हिरण्यं द्वादश्यां' कर्तुः स्यादिति । धनं रजतादि । तथा च मनुः-द्वादश्यां जातरूपं तु रजतं कुप्यमेव चेति । उपलक्षणं चैतत्-तथा च वायु:-द्वादश्यां जनलाभं च राज्यमाडुर्वसुनि चेति । अत्रैतदुच्यते-दैववशापित्रोः क्षयाहैक्ये कथं क्रम इति । तत्र कार्णाजिनिः । पित्रोः श्राद्धे समं प्राप्ते नवे पर्युषितेऽपि वा। पितृपूर्व सुतः कुर्यादन्यत्रासन्नियोगतः । अन्यत्र सपिण्डश्राद्धेषु आसत्तिः संबन्धासत्तिः संवन्धनैकट्यक्रमणेत्यर्थः । तथा च ऋष्यशृङ्गः-भवे यदि सता "ण तथा । संवन्धासत्तिमालोच्य तत्क्रमाच्छ्राद्धमाचरेदिति । ननु च पित्रोः क्षयाहैक्ये किमेकपाकेनोत पृथक्पाकेन श्राद्धद्वयमिति । तत्रैके एककाले गतासूनां बहूनामथवा द्वयोरित्यादिना एकपाकेनेत्याहुः । तद्युक्तम् । तस्य एकदैवेति काल विषयत्वात् । अन्यदैकदिने तु पृथग्विधः । तथा च पठन्ति-मातापितृमृताहैकं कालेनापि भवेधदि । पृथक्पाकं पितृश्राद्धं मातुश्च तदनन्तरम् । इति । सपिण्डानां तु नृसिंहपुराणेएकेनैव तु पाकेन सपिण्डानां महालये । तत्रेण अपणं कुर्याच्छ्राद्धं कुर्यात् पृथक् पृथक् । विष्णुधर्मोत्तरे च-प्रेतपक्षे गयायां च गतासूनां समेऽहनि । तत्रेण श्रपणं कुर्याच्छ्राद्धं दद्यास्पृथक् पृथक् इति । 'कुप्यं ज्ञातिश्रैष्ठ्यं त्रयोदश्यां कर्तुः स्यादिति । कुप्यं हेमरजताभ्यामन्यधातुजम् । उपलक्षणं चैतत्-तथा च मार्कण्डेयः प्रजा मेघां पशुं पुष्टिं स्वातन्त्र्यं वृद्धिमुत्तमाम् । दीर्घ मायुरथैश्वर्यं कुर्वाणस्तु त्रयोदशीमिति । ननु च-त्रयोदश्यां कृष्णपक्षे यः श्राद्धं कुरुते नरः। पञ्चत्वं तस्य जानीयाज्ज्येष्ठपुत्रस्य निश्चितम् । इति अङ्गिरसा श्राद्धस्यैव प्रतिषिद्धत्वात्कथं फलश्रुतिरिति । उच्यते-तस्यैकवर्गश्राद्धविषयत्वात् इत्यदोषः । तथा च कामाजिनिः-श्राद्धं नैकस्य वर्गस्य त्रयोदश्यामपक्रमेत् । अतृप्ता अस्य येऽत्र स्युः प्रजां हिंसन्ति तत्र ते । इति । अत्रैवञ्चिन्त्यतेकिमनुगमनमृतानां स्वमृताहे श्राद्धं स्यादुत भर्तृमृताहे इति । तत्रैक आहुः-मासक्षयतिथिस्पृष्टे यस्मिन् यो म्रियतेऽहनि । प्रत्यव्दं तत्तथाभूतं क्षयाहं तस्य तद्विदुरित्यादिवचनात्स्त्रमृर्ताह एवेति । तयुक्त-भर्तृक्षयाहे विहितत्वात् । तथा च पुराणसमुच्चये अग्रतः पृष्ठतो वाऽपि तद्भक्तया म्रियते तु या । तस्याः श्राद्धं प्रदातव्यं भर्तुरेव क्षयेऽहनि-रेणुरपि एकचित्यां समारूढा द्वितीयेऽह्नि पतिव्रता। तस्याः पिण्डोदकं पुत्रः प्रकुपितृवासरे। पठन्ति च-प्रत्यक्षे वा परोक्षेवा तद्भक्त्या म्रियते तु या। तस्याः आद्धं प्रकुर्वीत भर्तुरेव क्षयेऽहनि। अनैतत्संदिह्यते-भर्तृक्षयाहे किं तस्याः पृथपिण्ड उतैकपिण्डे