________________
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
जीवद्वर्गनिषेधः । तत्र यदि जीवत्पितरि मुख्याधिकारिण्येदानभावा (१)च्छ्राद्धमात्रस्यैव निषेध इत्युच्यते तदा जीवेत्स यदि वर्गादौ तद्वर्ग तु परित्यजेत् इत्यस्य मृतवर्गश्राद्धविधायकस्य वैयर्थ्य स्यादव्रत्यक्षयाहे पितृमातृश्राद्धस्याकरणप्रसंगच स्यात् । अथ क्षयाहत्वेन तत्कर्तव्यं तर्हि मृतवर्गविधायकवचनस्य वैयर्थ्य तदवस्थमेव । यदि जीवत्पितृकशब्देन जीवद्वर्गश्राद्धनिषेध इत्युच्यते, तर्हि मृत - मातृके सदाचारप्राप्ताकरणस्य परित्यागः स्यादिति तस्मात्कथमत्र समाधिः । उच्यते —— यद्यपि, धर्मे जिज्ञासमानानां प्रमाणं परमं श्रुतिः । द्वितीयं धर्मशास्त्रं तु तृतीयं लोकसंग्रहः । इति । पराशरेण लोकसंग्रहस्य प्रामाण्यमुक्तम् । तथाऽपि स्मृतिसदाचारयोर्विरोधे श्रुतिविरोधं विना स्मृतिवाधस्यान्याय्यत्वात् स्मृतिविरुद्धाचारस्य वाधो न्याय्य इत्युक्तम् । तथा च चतुर्विंशतिमतम् - स्मृतिदविरोधेन परित्याज्या यथा भवेत् । तथैव लौकिकं वाक्यं स्मृतिवाधात्परित्यजेत् । वसिष्ठोऽपि -- श्रुतिस्मृतिविहितो धर्मस्तदविरोधिशिष्टाचारः प्रमाणम् । इति । तस्मात्सर्वोऽपि जीवत्पितृको मृतमातृवर्गों नवमी श्राद्धं कुर्यादित्यर्थः । तथा वचनमपि - आन्वष्टक्यं गयाप्राप्तौ सत्यां यच मृतेऽहनि । मातुः श्राद्धं सुतः कुर्यात्पितर्यपि च जीवति । गयाप्राप्तिः प्रासङ्गिकी न तूद्देशतः । न चैवं मन्वाद्यादौ सर्वत्र जीवत्पितृकः कुर्यादिति वाच्यम् । अन्वष्टकादिकालत्रयस्यैव विशेषविधेरितरत्र नि पेधसिद्धेः । यत्त्वन्वष्टकासु नवभिः पिण्डैः श्राद्धमुदाहृतमिति नवदैवत्यमुक्तम्, तत्सामेरन्वष्टका - त्रयविपयम् । जीवन्मातामहीविषयं वा । न नवम्यां त्रिपिण्डकादिनिवारकम् । अतश्चात्र त्रिदेवलादिकं यथाधिकारं कर्तव्यमिति सिद्धम् । अन्यथा जीवत्पितृकोऽत्र क्षयाहादिकं कुर्यान्मृतमातृको नवम्यां नेत्यनुचितापत्तेः । एवमेकादशाहादावपि नियत श्राद्धेष्ववगन्तव्यमिति सर्वे समञ्जसम् । द्वादशदैवत्यं चात्र प्रपचितमस्माभिरादिसूत्र इति नात्र पुनरुक्तम् । निमित्तवहुत्वे त्वत्र प्रतिनिमित्तं श्राद्धानि कुर्यात् । तथा च कात्यायनः — द्वे बहूनि निमित्तानि जायेरनेकवासरे । नैमित्तिकानि कार्याणि निमित्तोत्पत्त्यनुक्रमात् । यत्तु नैकः श्राद्धद्वयं कुर्यात्समानेऽहनि कुत्रचिदिति प्रचेतसोक्तो निषेधः स एकनिमित्तेनैव पुनः करणविषयः । तथा च जावाल: -- श्राद्धं कृत्वा तु तत्रैव पुनः श्राद्धं न तद्दिने । नैमित्तिकं तु कर्तव्यं निमित्तानां क्रमेण त्विति । 'दशम्यां गावः ' गावो द्विशफाद्युपलक्षणम् । तथा च मनुः - दशम्यां द्विखुरं वहु | वायुरपि - कुर्वन्दशम्यां तु नरो ब्राह्मीं श्रियमवाप्नुया दिति । अत्र गवां सर्वसंपत्तिमूलत्वात्तद्विधानेन दशम्यां प्राशस्त्यं सूचितम् । तथा च पुराणसमुच्चयेप्रशस्ताः पूर्णिमामुख्यास्तिथयः षोडशैव ताः । तासां श्रेष्ठतमा प्रोक्ता दशमी श्राद्धदायिनामिति । दशम्यां पूर्णकामतामिति मार्कण्डेयः । गवां संपत्तिमूलत्वं श्रुतिराह -- गौर्वा इदः सर्वे विभर्तीति । दुग्धाज्यादिना देवादितृप्तेरित्यर्थः । तदुक्तम् — अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्या - जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः । इति । पार्वणैकोद्दिष्टयोरेकदिनसंभवे किं पार्वणं पूर्वं कर्तव्यमुतैकोद्दिष्टमिति । तत्रैक आहु:-- यद्येकत्र भवेत्तावदेकोद्दिष्टं तु पार्वणम् । पार्वणं त्वभिनिर्वर्त्य एकोद्दिष्टं समाचरेदिति जाबालोक्तत्वात्पूर्वं पार्वणमिति । तन्न । पाठादर्थस्य वलवत्त्वात् । अतश्चैकोद्दिष्टं निर्वर्त्य पार्वणं समाचरेदिति तत्रान्वयः । तथाच वृद्धयाज्ञवल्क्यः -- एकाहिके समुत्पन्ने पार्वणे च क्षयाहि । प्राक् क्षयाहं प्रकुर्वीत पश्चात्पाकेन पार्वणम् । अन्यच्च - दरों क्षयाह आपन्ने कथं कुर्वन्ति याज्ञिकाः । पूर्वं क्षयाहं निर्वर्त्य पश्चाद्दर्श समाचरेत् । अथवा पार्वणस्य पूर्वमुक्तिः पित्रोः पार्वणविषया । एकोद्दिष्टस्य पश्चादुक्तिः सपिण्डैकोद्दिष्टविषयेति युक्तमेव । न चैकपाकेन श्राद्धद्धयमाशङ्कनीयम् । एकपाकेन यः कुर्यादेकोद्दिष्टं च पार्वणम् । स भवेद्राम्यवाराहो विष्ठाशी सप्तजन्मसु । इति तेनैवोक्तत्वात् । 'परिचारका एकादश्यां ' भवन्तीति शेषः । परिचारका दासाद्यनुजीविनः । उपलक्षणं चैतत् । तथा च मनुः - एकादश्यां तथा रूप्यं ब्रह्मवर्चस्त्रिः सुतानिति । वायुरपि वेदां
|
1
५४२