________________
कण्डिका ९]
परिशिष्टम्। थाज्ञवल्क्य:-पितृपक्षे त्वमायां वा पितृमातृक्षयो यदि । पितुस्तु पार्वणं कुर्यादेकोद्दिष्टं तु मातृकम् । तथा-पितुस्तु पार्वणं कुर्यात्प्रेतपक्षे मृतस्य तु । पितृव्यभ्रातृमातृणामेकोद्दिष्ट सदैव हि । प्रेतपक्षे तिथिर्यस्य पितुरेकस्य पार्वणम् । मातृभ्रातृपितृव्याणामेकोद्दिष्टं सदैव हीत्यादिवचनेभ्यः। तद्युक्तम् । एकोद्दिष्टस्य सपत्नमातृविषयत्वेनाविरोधात् । तथा च पुराणसमुच्चये अमायां वा क्षयो यस्य प्रेतपक्षे तथा भवेत् । निरग्निरपि कुर्वीत मातापित्रोस्तु पार्वणम् । अनग्निः पार्वणं यो न. मातापित्रोः क्षयेऽहनि । करोति बुद्धिमोहेन स भवेत्पितृघातकः । जमदग्निरपि-आपाद्य सहपिण्डत्रमौरसो विधिवत्सुतः । कुर्वीत दर्शवच्छ्राद्धं मातापित्रोः क्षयेऽहनि । गौतमोऽपि-आषाढ्याः पञ्चमे पक्षे प्रेताख्ये तु क्षयो यदि । पार्वणं तत्र कुर्वीत वर्जयित्वा चतुर्दशीम् । हेमाद्रावपि-सपिण्डीकरणादूर्व पित्रोरेव हि पार्वणम् । पितृव्यभ्रातृमातृणामेकोद्दिष्टं सदैव हीत्यलं बहुना । षष्ठयां घूतद्धिः कर्तुः स्यादिति शेषः । ऋद्धितविजयः । उपलक्षणं चैतत् । तथा च वायु:-षष्ठयां श्राद्धं तु कुर्वाणो द्विजांस्तान्पूजयन्ति हि । मार्कण्डेयोऽपि-षष्ठयां पूज्यो भवेन्नरः । इति । अत्र विशेषः पुराणसमुच्चयेएकमातृद्विपितृको भ्रातरावन्यगोत्रजौ । मातुः श्राद्धं तु कुर्यातां षष्ठयां पुत्रावुभावपि । स्मृतिसमुच्चयेऽपि-देयं श्राद्धं तु षष्ठयां तैर्ये द्विरंशायना सुता । क्षेत्रिणश्च पितुश्चादौ दद्युः पश्चात्तु बीजिनः । अनेकमातृकस्य विशेषो गालवेनोक्तः । अनेका मातरो यस्य श्राद्धे चापरपक्षके । अर्घदानं पृथक्कुर्यापिण्डमेकं स निवपेदिति । 'कृषिः सप्तम्याम् ' कर्तुः स्यादिति शेषः । उपलक्षणं चैतत् । तथा च वायु:-कुरुते यस्तु सप्तम्यां श्राद्धानि सततं नरः । महामन्त्रमवाप्नोति गणानां चाधिपो भवेत् । मार्कण्डेयोऽपि-गणाधिपत्यं सप्तम्यामिति । अत्रैतञ्चिन्त्यते-रजस्वलायां पल्ल्यामत्र श्राद्धं कार्य न वा तत्रैक आहुः नेति । तथा च-श्राद्धीयाहनि संप्राप्ते यस्य भार्या रजस्वला । श्राद्धं तत्र न कर्तव्यं कर्तव्यं पञ्चमेऽहनि । इति । तन्न । अस्य मृताहेऽपुत्रपन्याः स्वयंकर्तृत्वनिषेधात् । तथाच गौतमःअपुत्रा तु यदा भार्या संप्राप्ते भर्तुराब्दिके । रजस्वला भवेत्सा तु कुर्यात्तत्पञ्चमेऽहनि । इति । 'वाणिज्यमष्टम्याम् । कर्तुः स्यादिति शेषः । वाणिज्यशब्देन यथा वणिजोऽनेकलाभस्तथाऽष्टमीश्राद्धेनानेकफलमित्यर्थः । तथा च वायु:-संपूर्णी वृद्धिमाप्नोति योऽष्टम्यां कुरुते नरः । मार्कण्डेयोऽपिअष्टम्यां वृद्धिमुत्तमामिति । उपलक्षणं चैतत्-तेन गयाफलमपीत्यर्थः । तथा च ब्रह्माण्डे -आषाढ्याः पञ्चमे पक्षे गयामध्याष्टमी स्मृता । त्रयोदशी गजच्छाया गयातुल्यं तु पैतृकम् । इति । अत्रैतदुच्यते-किमपरपाक्षिकं श्राद्धं सूतकान्ते स्यादुत नेति । तत्रैक आहुः-मासिकेऽन्दे तु संप्राप्ते अन्तरा मृतसूतके । वदन्ति शुद्धौ तत्कार्य दर्शे वाऽपि विचक्षणाः। इत्यादिवचनान्मासिकान्दिकयोरेवाशौचान्ते विहितत्वादापरपाक्षिकं नेति । तद्युक्तम् । अस्यापि विहितत्वात् । तथा च पुराणसमुच्चय--पक्षश्राद्धे समारब्धे सूतकं निपतेद्यदि । समाहूता हि पितरः सूतकान्ते विसर्जयेत् । यदि नैवं नरः कुर्यात्सूतकान्ते क्षमापनम् । प्राग्दत्तानि मनुष्येण श्राद्धान्यासुरतृप्तये। इति। पक्षश्राद्ध इत्यापरपाक्षिकोपलक्षणम् । ऋष्यशृङ्गोऽपि-शुचीभूतेन दातव्यं या तिथिः प्रतिपद्यते । सातिथिस्तस्य कर्तव्या न त्वन्या वै कदाचन । इति । 'एकशर्फ नवम्याम् ' कर्तुः स्यादिति शेषः । एकशफा अश्ववेसरादयस्तेषां वृन्दमेकशफसमूहः । उपलक्षणं चैतत् । तथा च वायु:-श्राद्धं नवम्यां कर्तव्यमैश्वर्य खीपु काइतेति, स्त्रियो नवम्यां प्राप्नोतीति मार्कण्डेयः। अत्रेतत्संदिह्यते-जीवपितृकः किं मातृश्राद्धं नवम्यां कुर्यादुत नेति । तत्रैक आहुः-अमाश्राद्धं गयाश्राद्धं श्राद्धं चापरपाक्षिकम् । न जीवपितृकः कुर्यात् पितृहा ह्युपजायते । इत्यादिवचनान्निरग्निर्नेति । अन्ये वाहुः---आन्वष्टक्यस्य विहितत्वात् कुर्वीतेति । तदेतद्विचारणीयम् । न जीवत्पितृक इत्यत्र जीवरिपतृकशब्देन किं मुख्यया जीवपितृमात्रविवक्षयाऽपरपाक्षिकाद्धस्यैव निषेध आहोस्विजीवपितृकशब्देन जीवन्मातामहाद्युपलक्षकेन ,