________________
ausar ]
प्रथमकाण्डम् |
४३
1
1
व्रीहितण्डुलपात्राणि मिमीते । तं चातुष्प्राश्यं पचत्युद्वास्यासेचनं मध्ये कृत्वा सर्पिरासिच्याश्वत्थी - स्तिस्रः समिधो घृताक्ता आधाति समिधाग्निमिति प्रत्यृचमुपत्वेति जपति द्वितीयां वाऽध्वर्युः । चत्वारो ब्राह्मणाः प्राश्नन्ति चतुर्थोऽध्वर्युस्ततोऽध्वर्यू राद्धस्ते ब्रह्मौदन इत्याह । ततो यजमानश्चातुष्प्राश्यभोतृभ्यो वरं ददाति । ततो यजमानश्छन्दांस्यनेन प्रीणीम इत्याह । एवमावसथ्याधानदिवसात्प्रागव्यवहितसंवत्सरपरिपूर्तिपर्यतं प्रत्यहं चातुष्प्राश्यं पक्त्वाऽध्वर्युप्रभृतिभ्यञ्चतुभ्यों भोजयित्वा वरं च दत्त्वा तावञ्चातुष्प्राश्यसंस्कृतेऽग्नौ पूर्णाहुतिहोममावसथ्यहोमं च कृत्वा आधेयदेवताभ्यः स्थालीपाकं श्रपयित्वेत्यादिवक्ष्यमाणमाधानाङ्गं चरुं श्रपयेत् । पूर्णाहुतिहोमो वक्ष्यते । अयं च सर्वोऽप्यर्थचातुष्या - श्यपचनवत्सर्वमेतत्सूत्रातिदिष्टाऽग्निहोत्राधानधर्मलाभाल्लभ्यते । केचित्तु वैश्यादिकुलादग्निमाहृत्य चातुप्रायं पक्त्वा चतुभ्यों दत्त्वा वरं च दत्त्वा तत्कालमेवाग्न्याधेयदेवताभ्यः स्थालीपाकादीच्छन्ति । अपरे तु पञ्चसंस्कारान्कृत्वा अग्निप्रतिष्ठाप्य चातुष्प्राश्यं पक्त्वा त्राह्मणेभ्यो दत्त्वाग्न्याधेयदेवताभ्यः स्थालीपाकादीच्छन्ति । अत्रापि स्थालीपाकादौ विशेष: अग्रे लेखनीयः । एवमाहरणपक्षमुक्त्वा इदानी - मारणेयपक्षमाह---' अरणिप्रदानमेके ' यजमानायाऽध्वर्युः करोतीति शेपः । अरण्योः शात्रोक्तलक्ष्णयोः अधरोत्तरयोः प्रदानं प्रकर्पेण दानमाधानप्राग्दिने दिने दिवाशनदेवाः पितर इत्यादिजपानंतरं पूर्वद्वाराऽगारं प्रविश्याग्नेर्जघनभागे पत्न्युत्तरेणोपविष्टायाशनप्राकालकृताभ्युदयिकाय यजमानाय शाखोक्तविधिना दानं प्रकर्षः । दानमित्यत्र द्वितीयान्तकर्माकृष्टमभ्वयुरित्येतत्कर्तृपदं कर्मणः कर्त्रधीनत्वान् । धात्वर्थाकृष्टं च यजमानायेत्येतत्संप्रदानवाचिपदं दानस्य संप्रदानाधीनत्वात् । ननु तथापि क्रर्तृसंप्रदानयोरर्थाध्याहार एव घटते न पदाध्याहार इति चेन् न । पदाध्याहारस्यापि सकलतान्त्रि कैकवाक्यतापन्नत्वात् । विस्तरभयान्न लिख्यते । एके श्रौतस्मार्ताद्याचारे आचार्या इत्यर्थः । तथाचोटपण्डावतामयमेव सिद्धान्तपक्ष इत्यभिप्रायः । अत्र हेतुमाह-पञ्च महायज्ञा इति श्रुतेः । अथारणी पाणौ कृत्वेत्याद्यग्निष्टोमे अरण्योः पाणिकरणं श्रुत्या प्रतिपाद्यते तचारणिसाध्यम् । एवं चासाद्य हवींष्यग्निमधरारणिं निदद्यातीत्यादिश्रुत्या सन्यनक्रियापीष्ट्यङ्गतया प्रतिपाद्यते । साप्यरणिसाध्या । एवं चासाद्य हवीष्यग्निमन्थनादि श्रूयते । एवं च वेदवोधितकर्तव्यतास्तोमस्यारणिसाध्यान्निसाध्यत्वेन पञ्चमहायज्ञानामपि वेदवोधितकर्त्तव्यताकत्वात्तेपां चावसथ्याग्निसाध्यत्वादावसभ्यामेरायारणेयतैव सिद्धान्तः । तदिदमुक्तं पञ्चमहायज्ञा इति श्रुतेरिति । अत्राप्ययं पदार्थक्रमः । आदौ देशुद्धिः । कालानतिक्रमश्चेत्तत्कालमेवाधानम् । कालातिक्रमे यावन्त्यव्यान्यतीतानि निरग्नेर्विप्रजन्मनः । तावन्ति कृच्छ्राणि चरेद्धौम्यं दद्याद्यथाविधि इत्यादिस्मृतिवोधितं प्रायश्चित्ताचरणं कृत्वाssवसथ्यं कुर्यात् । एतच आहरणपक्षोपपादनप्रस्तावे उपपादितं तत्रैवानुसंघेयम् । ततः आधानपूर्वदिने पूर्वाण्डे देशकालौ संकीर्त्यावसध्याग्निमहमाधास्य इति संकल्प्य मातृपूजाभ्युदचिके विधायाऽध्वर्यु वृणीते पूर्ववत्संकल्य ततस्तं गन्धपुष्पादिभिरभ्यर्च्य मधुपर्केण वा पूजयित्वा स्वस्य माङ्गल्याशीर्ब्रहणं च (ब्राह्मणानां च अर्थात् ) । ततोऽग्न्यगारकरणमध्वर्योः । पौर्णमासवद्रूपनं यजमानस्य । उपलब्धक्षौमसमर्पणमध्वयः । दम्पत्योर्यजमानयोर्मन्त्रेण परिधानम् । तत आचमनम् । ततोऽध्वर्युः खरे पञ्चसंस्कारान् करोति । आहरणपक्षोक्तयोनेराहरणं, खरे स्थापनं, यजमानो मुझे | सूर्यास्तसमीपेऽग्न्यगारप्राग्द्वारा दर्भास्तृतायां भूमौ पत्न्युत्तरत उपविश्य तिष्ठतो वा यजमानस्य देवाः पितर इति जपः । पूर्वद्वारेण प्रविशति यजमानो दक्षिणेन पत्नी । पश्चादग्नेरुपविशतः दक्षिणतः पत्नी । ततोऽध्वर्युः अश्वत्थशमीगर्भारणी शास्त्रोक्तलक्षणे आचारादहतवस्त्राच्छादिते यजमानाय समर्पयति । यजमानः अङ्के स्थापयति । पत्न्यपि अधरारणि यजमानाङ्कागृहीत्वा स्वा स्थापयनि 1 आवसथ्याग्निसाधनभूते इमे अरणी आवाभ्यां परिगृहीत इत्यङ्गीकारं कुरुत: । इमानि पात्राणि