________________
पारस्करगृह्यसूत्रम् ।
[द्वितीया प्रयोज्यप्रायश्चित्ताभावेनाऽञानादिमतो दारकाल एवाधिकारादकरणप्रयुक्तप्रायश्चित्ताच व्यवस्थया विकल्पोऽत्र द्रष्टव्यः , अभ्रातृमतो दारकाले भ्रातृमतो दायाद्यकाल इति । उपलक्षणमेतत् । वैशाखामावास्यायां वा पौर्णमास्यां वा शुक्लपक्षे नक्षत्राधानं वा पितरि प्रेते एकादशाहे वा । तथाच शाङ्घायनगृह्यकार:-समावस्य॑मानो यत्रान्त्यां समिधमादध्यात्तमग्निमिन्धीत वैवाह्यं वा दायाद्यकाल एके प्रेते वा गृहपतौ स्वयं ज्यायान्वैशाख्याममावास्यायामन्यस्यां वा कामतो नक्षत्र एक इति । एवं ज्योतिःशास्त्रप्रतिपाद्या अपि कालाः आवसथ्याद्यथै ध्येयाः । केचित्तु ज्योतिःशाखप्रतिपाद्यदोपराहित्ये सति दारकालदायाद्यकालयोरेवावसथ्याधानमिच्छन्ति । तत्कथं कर्तव्यमित्याकाहायामाह-वैश्यस्य बहुपशोरॅहादग्निमाहृत्य चातुष्प्राश्यपचनवत्सर्व ' कुर्यादिति सूत्रशेपः । यथाहि चातुष्याश्यपचनेनाग्निहोत्राधाने आहरणपक्ष उक्तः तथात्रापि चातुष्पाश्यपाककरणकः पूर्वोत्तरकर्तव्यतास्तोमान्वितः अग्निहोत्रवदेव, यथा ह्यग्निहोत्रे गार्हपत्यः आह्रियते तथात्रापि आवसथ्याभिधोऽग्निराहर्तव्य इत्यर्थः । तत्र निर्मध्याभ्याधानांशमपवदितुमाह ' गृहादग्निमाहृत्य ' गृहिण्यन्त्रितादित्यर्थः। 'न गृहं गृहमित्याहुहिणी गृहमुच्यते । इत्यादिश्रवणात् । तथाच गृहिणीसंवन्धेनावस'थ्याधिकारद्योतनादावसथ्याग्निमतो गृहादित्यर्थः । अग्नि पाकाथै महानसे उद्धत्य पुनश्च वैश्वदेवार्थमावसथ्ये नीतशेपमित्यर्थः । आहृत्य स्वावसथ्यागारसंस्कृतं खरं प्रतीति शेषः । आवसथ्याग्निमत्त्वमप्यतिप्रसक्तमत आह वैश्यस्येति । अन्यदपि गुणवत्त्वं तस्य विवक्षितमित्याह बहुपशोरिति । तादृशवैश्यालाभे कात्यायनसूत्रात्सूत्रान्तराचाम्बरीषादहुयाजिनो ब्राह्मणगृहाब्रह्मन्नपाकादाह्मणमहानसाद्वा अग्निराहर्तव्यः । तथाच तादृशगृहादग्निमाहृत्य चातुष्प्राश्यपचनवत्सः कुर्यादित्यन्वयः । तत्रायं पदार्थक्रमः । अधिकारसंपत्त्यनन्तरं कालानतिक्रमे शरीरशुद्धयर्थ किंचिप्रायश्चित्ताचरणं कृत्वा तत्कालमेवावसथ्याधानं कुर्यात् । अधिकारे सत्यकरणाकालातिक्रमश्वेदतिकान्तसमासमसंख्यानि काणि चरित्वा समाचपादपक्षाद्यतिक्रमे छातुयाँशद्वादशांशादि चरित्वा तर्जनीमध्यमानामिकानां समुदितानां पर्वद्वयपूर्तिपर्याप्ताहुतीरतिक्रान्ताहचतुर्गुणाः ब्राह्मणाय दत्त्वा तदुत्तरकाले आवसथ्यं कुर्यात् । होम्यं दयादित्युक्तत्वात्पक्षाद्यादिद्रव्यदाननिषेधः । तत्रादौ मातृपूजाभ्युदयिक विधाय देशकालौ संकीर्त्यावसथ्याग्निमहमाधास्य इति संकल्प्य तत्र मे त्वमध्वर्युभवेत्यध्वयों: वरणं कुर्यात् । ततस्तं गन्धपुष्पवत्रचन्दनादिभिरचयेत् । ततः सुप्रोक्षितादिकत्वायजमानयोस्तिलकादि कृत्वा आशीर्मन्त्रान्ब्राह्मणाः पठन्ति । ततो ऽन्वर्युः स्फ्यं गृहीत्वा अग्न्यगारं दक्षिणपूर्वद्वारं जावालश्रुतितः पञ्चारनिप्रमाणं करोति । ततो वपनम् । यजमानयोर्हस्ते उपलब्धक्षौमसमर्पणं तदभावे वस्त्रसमर्पणम् । परिषास्या इति मन्त्रेण यजमानो वस्त्रं परिधत्ते । उत्तरीयं च यशसामेति । ततो यजमानः द्विराचमनं करोति पत्नी च वस्त्रयोः परिधानं करोति । ततोऽध्वर्युरावसथ्यखर पञ्चसंस्कारान्कृत्वा पुनरुट्टिख्य यजमानेनान्वारब्धोऽभ्युक्ष्य तत्र हिरण्यशकलं निधायोपानिवपति । ततस्तैरूपै. सकलं मण्डलं छादयित्वा आखूकरान्निवपति । ततस्तनाखूत्करण वृत्ताकारः आवसथ्यखरः कार्यः । स च चतुर्दशाङ्गुलमितरज्जु. भ्रामणेन क्षेत्रफलादरनिमात्रमितः संपद्यते । ततः परितः प्रान्तेपु पञ्चाशतं शर्कराः संलमा निदधाति । उपर्यपि हिरण्यमके । ततऽआचारादतन वस्त्रेण तं खरमाच्छाद्य स्वस्तिवाचनशान्तिपाठादि कुर्वन् बहुपयोवंश्यस्य गृहं गछन् । तदलाभे गोभिलादिसूत्रादम्बरीपाद्वहुयाजिनो ब्राह्मणगृहाहन्नपाकाद्वापणमहानसाहाऽग्निमाहत्य [म्बारन्यगारे वर्तमानं खरं प्रवरस्य ?] भूर्भुव: आदित्यानां त्वा देवानां वनपते व्रतेनादध इति मन्त्रेण पूर्वसंस्कृते खरे तमग्निं संमुखं स्थापयत्यध्वर्युः । ततो यजमानः यथोपपन्नं भोजनं करोति । तनोऽध्वर्युगस्तमिते सवितरि रोहित चर्मण्यानडु चत्वारि प्रकृतित्रयमितानि