________________
४१
कण्डिका]
प्रथमकाण्डम्। न त्वल्पदक्षिणैर्यज्ञैर्यजेतेह कथंचन । इन्द्रियाणि यशः स्वर्गमायुः कीर्ति प्रजां पशुन् ।। १४१ ॥ हन्त्यल्पेन धनेनैव विप्रोऽनल्पधनो यजन् । इति पुनराधानपुनराधेययोनिमित्तानि । अथ पुनराधाने पदार्थक्रमः-तत्र प्रमादात्रिरात्रमग्नित्यागे प्राणायामशतं, विंशतिराने एकदिनोपवासः, मासद्वये निरात्रमुपवासः, अब्दे प्राजापत्यकृच्छ्रः, एवं त्यागानुसारेण प्रायश्चित्तं कृत्वा पुनराधानम् । आलस्यादिना बुद्धिपूर्वकमग्नित्यागे तत्तत्कालानुसारेणैन्दवादि प्रायश्चित्तम् । द्वादशाहपर्यन्तं त्रिरात्रमुपवासः, मासपर्यन्तं द्वादशरात्रमुपवासः, अब्दपर्यन्तं मासं पयोत्रतं, द्विवर्षपर्यन्तं चान्द्रायणं, त्र्यन्दपर्यन्तं चान्द्रायणं सोमायनं च । तदूर्ध्वमब्दकुच्छ्रे धनिनो गोदानं चेति प्रयोगपारिजाते । स्मृत्यर्थसारे तु-द्वादशाहातिक्रमे व्यहमुपवासः, मासातिक्रमे द्वादशाहमुपवासः, संवत्सरातिक्रमे मासमुपवासः, पयोभक्षणं वेति विशेपः । एवं कालविलम्वे संकल्पपूर्वकं प्रायश्चित्तं कृत्वा पुनराधानम् । यत्र तु येन केनचिन्निमित्तेनाग्निनाशः कालविलम्वश्च नास्ति, तत्र प्रायश्चित्तमकृत्वैव पुनराधानम् । नित्यक्रियां विधाय देशकालौ संकीर्त्य--एतावन्तं कालमावसथ्याग्निविच्छेदजनिवप्रत्यवायपरिहारार्थमेतावत्मायश्चित्तममुकप्रत्याम्नायत्वेनाहं करिष्य इति सङ्कल्पः । लुमानां होमानां तण्डुलादिद्रव्यं ब्राह्मणाय संप्रदे इति होम्यं दद्यात् । सायंप्रातहोंमानां तथा दर्शपूर्णमासस्थालीपाकानां संपत्तिपर्याप्त ब्रीह्यादिद्रव्यमाज्यं च दद्यादिति प्रयोगरत्ने । ततः शुचौ काले शुचिराचान्तः प्राणानायम्य देशकालौ स्मृत्वा विच्छिन्नावसथ्यस्य पुनराधानं करिष्य इति संकल्पः । नान्दीश्राद्धाभावः । खरे पञ्चभूसंस्कारादिब्राह्मणतर्पणान्तमाधानवत्सर्व कार्यम् । अथ सभार्यस्य प्रवासप्रसक्तावग्निसमारोपविधिः । प्रातहोंमानन्तरमरणिद्वयमयन्ते योनिरिति मन्त्रेणावसथ्ये प्रतपतीत्यरणिपक्षे समारोपः । आहरणपक्षे तु-अयन्तेयोनिरिति मन्त्रेणाश्वत्थसमिधमावसथ्ये प्रतपति । अथवा याते अग्ने यज्ञिया तनूस्तयेह्यारोहात्मानमवच्छावसूनि कृण्वन्नस्मन्नर्यापुरूणियज्ञोभूत्वायज्ञमासीद स्वां योनि जातवेदो भुव आजायमानः सक्षय एहीति मन्त्रेण पाणी प्रतप्यात्मनि समारोपयेत् । तत्र प्रादुष्करणकाले अरणीसमारोपे अरणी निर्मथ्य प्रत्यवरोहजातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन् । प्रजां पुष्टिं रयिमस्मासु धेह्यथा भव यजमानाय शय्योः । इत्यनेन खरेऽग्निस्थापनम् । अश्वत्थसमित्समारोपणे वैश्यादिगृहादग्निमाहृत्य खरं पञ्चाग्न्यान्संस्कारान्कृत्वाऽग्निं स्थापयित्वा प्रत्यवरोहेतिमन्त्रेण तां समिधमग्नौ निध्यात् । आत्मसमारोपपले सर्वदाऽस्पृश्यस्पर्शनं जले निमज्जनं स्नानं स्त्रीगमनं चाकुर्वन्मूत्रपुरीषोत्सर्गे शौचमकृत्वा चिरकालमतिष्ठंश्च होमकाले आत्मसमारूढमग्निमुच्छ्वासरूपेण प्रत्यवरोहेतिमन्त्रेण लौकिकानौ निदध्यात् । एवं यथाधिकारमग्निं प्रतिष्ठाप्य होमं कुर्यात् । इदं समारोपणं द्वादशरात्रपर्यन्तमेव कुर्यादिति प्रयोगरत्ने । कातीयानां त्वरणिसमारोपः श्रौते दृष्टः तद. स्मार्तेऽपि कार्य उक्तत्वादिति शिष्टाः । समित्समारोपणेऽपि अयं ते योनिरिति मन्त्रेण समारोप्य प्रादुष्करणकाले लौकिकमग्निं संस्थाप्य तत्र तूष्णी समिधमादध्यादिति वृद्धाः । वस्तुतस्तु कातीयानामपि समित्समारोपः शाखान्तरोक्त एव भवति । स्वशाखायां समित्समारोपस्यानुक्तत्वात् ॥ * ॥
(विश्व०)-'आवसध्या[आवसथ्यमिति शास्त्रबोधितसंस्कारसंस्कृते प्रदेशविशेष स्थापनम्। केचित्तु आवसथ्यं च तदाधातास्कृतेप्रदेशविधिकारिकर्तृककर्तव्यताविशेषोपलक्षितस्याग्नेनामधेयं, तस्याघानं परिभाषाशास्त्रबोधितं चेति कर्मधारयमाहुः । तन्न। समस्यमानपदार्थसामानाधिकरण्यस्य कर्मयारयार्थत्वेन वह्निकर्तव्यतयोः प्रत्येकमावसथ्यपदवाच्यत्वाभावेन सामानाधिकरण्याभावादिति दिछ ।१] तत्कदा कर्तव्यमित्याकाडायामुक्त-दारकाल इति । दारत्वनिष्पत्त्यधिकरणक्षणाऽव्यवहितोतरे क्षण इत्यर्थः । दायाद्यकाल एकेषां विभागिनो भ्रात्रादेधनविभागकालो दायाद्यकालः , एकेपामाचार्याणामित्यर्थः । तथाच तेषां मते भ्रात्रादिमतो दारावच्छिन्नदायाधकालकरणपक्षेऽपि दारकालाकरण