________________
पारस्करगृह्यसूत्रम्।
[द्वितीया श्यम्भाविनीरुक्त्वाऽधुना वक्ष्ये मतान्तरम् ॥ १०५॥ काम्याः क्रिया न कर्तव्याः स्वामिनि प्रोपिते सति । नित्यनैमित्तिकीः कुर्यात्प्रवसत्यपि भर्तरि ।। १०६ ।। तत्रापि नैव कर्तव्याः क्रियाः सोत्तरवेदिकाः । आधानपुनराधाने न स्तः पत्या प्रवासिनि ॥ १०७ ॥ उभयानुगमादौ तु प्राप्तेऽग्न्याधे. यतः पुरा । न किंचिदग्निहोत्रादि कर्तव्यमिति दर्शने। १०८ ॥ रजोदोपे समुत्पन्ने सूतके मृतकेऽपि वा । नित्यनैमित्तिके कुर्यात्काम्यं कर्म न किंचन ॥ १०९॥ आधानं पुनराधानं पशुः सौत्रामणी तथा । चातुर्मास्यानि सोमश्च तथैवाग्रयणक्रिया ।। ११० ।। अकाम्यत्वेऽपि नैतेषां सूतकादावनप्टितिः । प्रक्रान्तेष्वपि चैतेपु सूतकादिसमुद्भवे ।। १११ ॥ कर्तव्यान्येव चैतानि वारितान्यप्योपतः । जातोऽपि वा विना भस्मस्पर्श जातजपं विना ।। ११२ ।। प्रायश्चित्तं विना काप्टमन्थने चोदितं विना । लौकिकः स्यादतो लुप्तादारभ्यावर्तयेत्पुनः ।। ११३ ॥ यदि नावर्तयेद्वह्नौ तादृश्येव जुहोति च । हूयमानेऽपि लुप्येत होमकालाष्टकात्परम् ॥ ११४ ॥ भस्मस्पर्श विनायेके लौकिकत्वं न मन्यते । होमाष्टकाधिके लुप्ते धृतोऽप्यनिर्विनश्यति ॥ ११५ ॥ अतोऽल्पहोमलोपेऽपि याद्वापो विनश्यति । आधानपुनराधाने विकल्पेनात्र चोदिते ॥ ११६ ।। लुप्ते होमदये प्राह लौगाक्षिरतलाहितिम् । ज्वलत्स्वग्निपु कर्तव्या तन्तुमत्येव केवला ॥ ११७ ॥ आपद्यग्निपु दीप्यत्सु मासाधैं चेन्न हूयते । सर्वहोमानतिक्रान्तान्पक्षान्ते पक्षहोमवत् ॥ ११८ ॥ समस्य जुहुयात्पश्चादिष्टिस्तन्तुमती भवेत् । न तत्र पुनराधेयमिति कौषीतकिश्रुतेः ।। ११९ ।। वत्सरं वत्सरार्द्धं वा होमलोपे मतान्तरम् । आपत्काले न नश्यन्ति दीप्यन्ते चेद्भुताशनाः ॥ १२०॥ पञ्च कार्याः पुरोडाशा होमे लुऽर्द्धवत्सरम् । पथिकृप्रथमो ज्ञेयः पावकः शुचिरेव च ॥ १२१ ॥ व्रतपतिस्तन्तुमांश्चाग्नेदेवतागुणाः क्रमात् । सप्त कुर्यात्पुरोडाशान्होमे लुप्से तु वत्सरम् ॥ १२२ ॥ पवमानः पावकश्च शुचिः पथिकृदित्यपि । वैश्वानरो व्रतपतिस्तन्तुमानिति सप्तमः ।। १२३ ॥ विशेषतोऽग्निरेव स्यादेवताऽत्र यथाक्रमम् । एकारम्भपरार्द्धान्तविच्छेदेष्वविशेषतः ॥ १२४ ॥ मनस्वती व्रतयुतां नाधानमनले सति । इयमापत्सु घोरासु मिलितासूपयोक्ष्यते ॥ १२५ ॥ द्वादशाहाहुतिच्छेदे कुर्युरन्ये मनस्वतीम् । अरण्योः क्षयनाशाग्निदाहेष्वग्निं समाहितः ॥ १२६ ॥ पालयेदुपशान्तेऽस्मिन्पुनराधानमिष्यते । एकारण्यां विनष्टायामस्ति चेदितरारणिः ।। १२७ ।। तां छित्वा मन्थनं प्रोक्तं भाष्ये वौधायनीयके । अरणी मथनाशक्ते जन्तुभिर्मथनेन वा ।। १२८ ।। स्यातां चेदरणी नूले ग्राह्ये शास्त्रोक्तलक्षणे । श्वोभूतेऽनुष्ठिते दळे तस्मितीर्णारणिद्वयम् ॥ १२९ ॥ शकलीकृत्य पाश्चात्त्ये वह्नौ निक्षिप्य दीपयेत् । ततो दक्षिणहस्तेन नूतनामुत्तरारणिम् ॥ १३० ।। गृहीत्वा सव्यहस्तेन गृह्णीयादधरारणिम् । ते उभे अरणी तत्र दीप्तेऽग्नौ धारयन् जपेत् ॥ १३१ ॥ उद्बुध्यस्वाग्न इत्येतदयन्ते योनिरित्यपि । उवुध्यस्वाग्ने प्रविशस्व योनिमन्यां देवयज्यायै वोढवे जातवेदः । अरण्योररणिमनुसंक्रमस्व जीर्णा तनुमजीर्णया निर्गुदस्वेति प्रथमो मन्त्रः । मन्थनस्यावृतासम्यङ्मथित्वाऽग्निं विहृत्य च ॥ १३२ ॥ विलाप्योत्पूयदर्भाभ्यां सुच्यादाय चतुघृतम् । जुहोत्याहवनीयेऽग्नौ मनस्वत्या घृतं तथा ॥ १३३ ।। इष्टिं तन्तुमती कुर्याच्छरावं दक्षिणां ददेत् । वृत्तं प्रादेशमात्रं तु शरावं निगमोदितम् ।। १३४ ॥ इत्यनारोपितारण्योः क्षये ग्राह्ये नवे पुनः । तदलामे यदोद्वापेत्तदा स्यात्युनराहितिः ।। १३५ ।। कामे निमित्तयोगे वा पुनराधेयमिष्यते । निमित्तेपु यथायोगमाधानमपि वा भवेत् ॥ १३६ ॥ तत्र येपु निमित्तेषु शृङ्गमाहिकया विधिः । तत्रैव पुनराधेयमन्यथाऽऽधानमिष्यते ।। १३७ ॥ अन्यत्राप्यपरे प्राहुः पुनराधिर्विकल्पतः । यद्वित्तं जीवनायालं क्षुद्रं चास्यैकवत्सरम् ।। १३८ ।। तन्नाशे पुत्रमानां ज्ञातीनामवरोधने । अङनाशेऽडनानाशे पुनराधानमिष्यते ॥ १३९ ॥ ज्यानिः सर्वस्वहानिः स्यास्पष्टं माध्यन्दिनिश्रुतेः।पुण्यान्यन्यानि कुर्वीत श्रद्दधानो विमत्सरः ॥१४०॥