________________
ण्डिका ]
प्रथमकाण्डम् |
३९
नेऽप्यजन्मनि । लोकाग्न्यादावनिक्षिप्तेऽभ्युदयेऽस्तमयेऽपि वा ॥ ६८ ॥ विनहेतुनाऽनेन जात`दा विनश्यति । विहारोत्तरकालं वा नष्टौ पूर्वापरानलौ ॥ ६९ ॥ शेषं पूर्वोदितं सर्वं तत्राप्यग्निविनश्यति । कालाल्पत्वे त्वनिर्मथ्य लोकाग्न्यादौ क्षिपेद्यदि ॥ ७० ॥ उदयास्तमयात्पूर्वं कर्कोऽत्रानाश्वमिच्छति । लोकाग्न्यादावलब्धेऽपि पुरार्कास्तमयोदयात् ॥ ७१ ॥ मन्थनारम्भमात्रेण नाशो वृद्वैनिवारितः । उभयोर्नाशविज्ञानादूर्ध्वमकोऽस्तमेति चेत् ॥ ७२ ॥ कर्कोऽग्निनाशमाचष्टे पश्चाज्ज्ञातेऽपि नेच्छति । एकयोनित्वपक्षेऽपि सर्वाग्न्यनुगमो यदि ॥ ७३ ॥ उदयास्तमये तत्र नाशमेकेन नूभयोः । अथ चेदुभयोर्घातेऽभ्युदयास्तमयात्पुरा ||७४ || परोग्निरेको जातश्चेत्तावताऽपि न नश्यति । तदनुत्पत्तिमात्रेण स्याद्ग्न्याधिर्न पूर्वयोः ॥ ७५ ॥ मन्त्रं विना समारूढोऽरण्योरात्मनि वा यदि । तत्र ज्वलनशान्तौ स्यादसमारूढशान्तिवत् ॥७६॥ आरूढोऽपि यथाशास्त्रमवरूढो न शास्त्रतः । तृतीये होमकालेऽथ संप्राप्ते पुनराहितिः ॥७७॥ यदा तु लौकिकाग्न्यादिर्निधाय हवनं तदा । हुतेऽपि लौकिकाग्न्यादौ मथ्यमानोऽप्यनन्तरम् ॥ ७८ ॥ द्वितीयाद्वा तृतीयाद्वा होमकालात्पुरा यदि । अग्निर्न जायते तत्र पुनराधेयमाचरेत् ॥७९॥ हुतेपु पक्षहोमेपु पक्षत्रयमनन्तरम् । कर्तव्यं पुनराधेयं मथ्यमानो हुताशनः ॥ ८० ॥ दृष्टमात्रोऽनुगच्छेचेत्तत्र तस्य विनाशनम् । शतशोऽनुगमे चान्ये पुनर्निर्मथ्य जप्यते ॥८१॥ नष्टे मथितमात्रे वा समारोपयजुर्जपेत् । पुनर्निर्मथ्य जप्तव्यं यजुस्तूपावरोहणम् ॥ ८२ ॥ जलेन हेतुना वह्निरुपशान्तो यदा भवेत् । कर्तव्यं पुनराधेयं यज्ञपार्श्वे निरूपितम् ॥ ८३ ॥ तदेव पुनराधेयमग्नाव गते सति । असमाधाय चेत्खामी सीमामुल्लङ्घय गच्छति ॥ ८४ ॥ शुकररासभकाकशृगालैः कुक्कु टमर्कटशूद्रैः । अन्त्यजपातकिभिः कुणपैर्वा सूतिकयापि रजस्वलया वा ॥ ८५ ॥ रेतोमूत्रपुरीषैर्वा पूयाले ष्मशोणितैः । दुष्टास्थिमांसमज्जाभिरन्यैर्वापि जुगुप्सितैः ॥ ८६ ॥ आरोपितारणिस्पर्शे कृतेऽग्नौ स्पर्शने - ऽपि वा । आत्मारूढेषु मज्जेद्वा वदेद्वा पतितादिभिः ॥ ८७ ॥ अथवा योपितं गच्छेदनृतौ काममोहितः । वदन्त्येषु निमित्तेषु केचिदग्निविनाशनम् ॥ ८८ ॥ तत्रारणिगते वहौ नष्टे स्यात्पुनराहितिः । इतरेपु निमित्तेष्वग्न्याधेयं परिचक्षते ॥ ८९ ॥ यद्वा सर्वोपघातेषु पुनस्त्वेति समिन्धनम् । द्रव्यस्थाग्न्युपघातेषु द्रव्यशुद्धिः समिन्धने ॥ ९० ॥ समिन्धनं पुनस्त्वादित्यारुद्रा वसव इति मन्त्रेण समिद्वस्याप्यः पुनरिन्धनप्रक्षेपेण प्रदीप्ततरकरणम् ॥ ९१ ॥ आरोपितारणी चोभे एका वा यदि नश्यति । तत्राग्न्याधेयमिच्छन्ति पुनराधेयमेव वा ॥ ९२ ॥ इत्यनारोपितारण्योः क्षये ग्राह्ये नवे पुनः । तदलाभे यदोद्वापादत्र स्यात्पुनराहितिः ॥ ९३ ॥ शूद्रोदयान्त्यकाकैश्च पतितामेध्यरासभैः । अनारूढारणिस्पर्शे ते विहायान्ययोर्ग्रहः ॥ ९४ ॥ भवतन्नः समेत्यप्सु मज्जयेद्दूषितारणी | एकारयेव दुष्टा चेत्तामेवाप्सु निमज्जयेत् ॥ ९५ ॥ तत्रान्यारणिलाभात्प्रागुद्वाते पुनराहितिः । काष्टशुया विशोध्ये वा त्यजेद्दोषेऽतिसंतते ॥ ९६ ॥ नष्टायामरणौ यावदग्निस्तिष्ठति वेश्मनि । तावद्धोमादिकं कृत्वा तन्नाशे पुनराहरेत् ॥ ९७ ॥ प्रागादित्योदयाद्धोमं संकल्प्य न जुहोति चेत् । मग्न्यादिः पुनराधिर्वा नोभयं स्वाम्यसंनिधौ ॥ ९८ ॥ नाशापहारावग्नीनां यद्वाऽऽरूढारणेर्यदा । कुर्याच्च पुनराधेयमिति बौधायनोऽब्रवीत् ॥ ९९ ॥ अत्रैतेपु निमित्तेषु नष्टानां पुनराहितिः । स्थितानुत्सृज्य चान्येषु पुनराधेयमिष्यते ॥ १०० ॥ अग्निहोत्रं च नित्येष्टिः पितृयज्ञ इति त्रयम् । कर्तव्यं प्रोषिते पत्यौ नान्यत्स्वामिक्रियान्वितम् ॥ १०१ ॥ चैमित्तिकास्तु जातेष्टिर्गृहदाहेष्टिपूर्विकाः । स्वाम्यागमनपर्यन्तमुत्क्रष्टव्या ह्यशेषतः । अग्न्याधेयादिकं प्राप्तमुभयानुगमादिना । स्वाम्यागमनपर्य - न्तमुत्क्रष्टव्यमसंशयम् ॥ १०२ ॥ मथित्वा पावकं सर्वप्रायश्चित्तं विधाय च । मित्रायेत्यादि - भिर्हुत्वा द्वादशानुगमाहुतीः ॥ १०३ ॥ अग्निहोत्रं यथाकालं नित्येष्टिं च समाचरेत् । आस्वा म्यागमनात्तिष्ठेदागत्यायाधीत सः ॥ १०४ ॥ एवं केशवसिद्धान्तात्प्रोषितस्यान्निषु क्रियाः । अत्र