________________
३८
पारस्करगृह्यसूत्रम् ।
[ द्वितीया
1
सायंप्रातर्हृते सर्वमेव स्याद्गमनेऽन्वहम् । यस्त्वग्न्याधेयमात्मार्थं कृतवान्मृतभार्यकः ॥ ३१ ॥ पत्नीविरहितो वहन्यथाकामं स निर्हरेत् । होमद्वयात्यये दर्शपूर्णमासात्यये तथा । पुनरेवाग्निमादद्ध्यादिति भार्गवशासनम् || ३२ ॥ वहुधा विहृतो ह्यग्निरावसथ्यात्कथंचन । यावदेकोऽपि तिष्ठेत तावदन्यो न मध्यंते ॥ ३३ ॥ वैश्वदेवात्तथा होमात्प्राग्ज्ञेयं नैव मन्थनम् । एकेनान्तरितो वहिरावसथ्यस्तु मध्यते ॥ ३४ ॥ आवसथ्यात्तु कर्मार्थे योऽग्निरुद्रियते कचित् । पूर्वेण योजयित्वा तं तस्मिन्होमो विधीयते ॥ ३५ ॥ चतुर्विंशतिमते । प्रातहोंमं तु निर्वृत्य समुद्धृत्य हुताशनात् । शेषं महानसे कृत्वा तत्र पाकं समाचरेत् ||३६|| ततोऽस्मिन्वैश्वदेवादिकर्म कुर्यादतन्द्रितः । बह्वृचकारिकायाम् ||३७|| नित्यपाकाय शालाग्नेरेकदेशस्य कार्यतः । पाकार्थमुल्मुकं हृत्वा तत्र पक्त्वा महानसे ॥ ३८ ॥ वैश्वदेवोऽग्न्यगारे स्यात्पाकार्थोऽग्निश्च लौकिकः । भूरिपाको भवेद्यत्र श्राद्धादावुत्सवेषु च ॥ ३९ ॥ कृते च वैश्वदेवेऽथ लौकिको नैव कार्यतः । होमेनान्तरितं केचिदाहुः सर्वत्र लौकिकम् ॥ ४० ॥ न तत्समञ्जसं तेषामुपयद्धोमदर्शनात् । समासं चोल्मुकस्याहुरग्न्यगारे महानसात् । पाकान्ते वैश्वदेवात्प्राक् चैतदप्युपपद्यते । ४१ ॥ आहृते ह्युल्मुके पाकः शामित्रे दृश्यते पशौ । वचनादाहृतिः सा तु लौकिकस्त्वपवर्गतः ॥ ४२ ॥ दीपको धूपकश्चैव तापार्थे यश्च नीयते । सर्वे ते लौकिका ज्ञेयास्तावन्मात्रापवर्गतः || ४३ ॥ पचनाग्नौ पचेदन्नं सूतके मृतकेऽपि वा । अपक्त्वा तु वसेद्रात्री पुनराधान नमर्हति ॥ ४४ ॥ अरण्योर्दग्धयोर्वाऽपि नष्टयोः क्षीणयेोस्तथा । आहत्यान्ये समारोप्य पुनस्तत्रैव निर्मथेत् ॥ ४५ ॥ अरण्योरल्पमप्यङ्गं यावत्तिष्ठति पूर्वयोः । न तावत्पुनराधानमन्यारण्योर्विधीयते ॥ ४६ ॥ पूर्वैव योनिः पूर्वाकृत् पुनराधानकर्मणि ॥ ४७ ॥ एकाकिनी यदा पत्नी कदाचिद्राममा - व्रजेत् । होमकालेऽभिसंप्राप्ता न सा दोषेण युज्यते ॥ ४८ ॥ अथ तत्रैव निवसेद्गामं गत्वा प्रमादतः । लौकिकोऽग्निः स विज्ञेय इत्येपा नैगमी श्रुतिः ॥ ४९ ॥ भार्यायां प्रोषितायां चेदुदेत्यर्को ऽस्तमेति वा । तन्न स्यात्पुनराधेयमन्ये त्वाहुरिहान्यथा ॥ ५० ॥ पन्या: प्रवासविषये पुनराधिरुदाहृतः । वाक्यैर्मनीपिभिः प्रोक्तैरेकभार्यस्य सेष्यते ॥ ५१ ॥ वहुभार्यस्य ज्येष्ठा चेत्प्रवसेत्पुनराहितिः । ज्येष्ठा चेदग्निसंयुक्ता गच्छन्त्यन्या यथारुचि ॥ ५२ ॥ यजमानेन सहिता यद्वा ता एव केवलाः । एकस्यामप्यतिष्ठन्त्यामग्निहोत्रसमीपतः ॥ ५३ ॥ पतिस्तिष्ठति चेदग्निनाशो नेत्यपरे जगुः । यदा सीमामतिक्रम्य रात्रौ तत्रैव वत्स्यति ॥ ५४ ॥ मगृहस्य प्रयाणं यत्प्रवास उच्यते बुधैः । यत्तु नारायणे - नोक्तं ग्रामान्चाग्निसमन्वितात् । गत्वा ग्रामान्तरे वास: प्रवासोऽप्ययमीदृशः ॥ ५५ ॥ ग्रामान्तरे नवा पां वाsन्यत्र वा क्वचित् । सीमामतीत्य चेद्रात्रौ वासः प्रवसनं स्मृतम् ॥ ५६ ॥ प्रवसेद्धनसंपत्त्यै न तीर्थाय कदाचन । इति कूर्मपुराणोक्तं तथा बौधायनेन च ॥ ५७ ॥ सहाग्निर्वा सपत्नीको गच्छेत्तीर्थानि मानवः । पुराणवचनात्साग्नेः प्रवासोऽस्तीति केचन ॥ ५८ ॥ न कुर्युरग्न्युपस्थानं प्रवत्स्यन्त्योऽपि योषितः । त्यागान्न प्रोषिताः कुर्युरश्रन्त्येव सधर्मकम् ॥ ५९ ॥ आगतोपस्थितिं चापि स्त्रीणां नेच्छन्ति सूरयः । सगृहस्य प्रयाणं यत्तत्पत्यग्निसमन्वितम् ॥ ६० ॥ क्लिष्टचेत्स तुवृत्त्यर्थमनसा सह गच्छति । अनस्यारोपयेदग्नींस्तत्पात्राण्यपि तत्र च ॥ ६१ ॥ स्वाङ्गेन वा नयेदग्नि कान्यायनमतादपि । नयेद्वा ब्राह्मणस्त्वन्यो यो याज्येन समन्त्रितः ॥ ६२ || प्रत्यक्षेण नयन्नग्निमुच्छ्रसेद्विनश्यति । यदि वाऽनुच्छ्रसन्नीत्वा निधायोच्छ्रस्य तं पुनः ॥ ६३ ॥ हरेनुच्छ्रसनेव नश्येत्रिर्हरणेऽनलः । शकटेनापि दूरं वा हरदेवं यथारुचि ॥ ६४ ॥ स्वाङ्गेनैवाथ वा शम्यापरासाव्यानयेच्छुन् । कर्मार्थ हरणेऽग्नीनां नानुच्छ्रासादि चोद्यते ॥ ६५ ॥ कात्यायनमतात्केचिच्छुसन्तोऽप्यति दूरत. | प्रत्यक्षेण नयन्त्यग्नीन् शकटेन विनापि तु ॥ ६६ ॥ आधानावसरे जाते यद्या• धातुरूपद्रवः । अवृद्धिर्नाम सा प्रोक्ता वत्र स्यात्पुनराहितिः ॥ ६७ ॥ उगातेऽग्नौ विहारात्प्राडूमध्य
1